मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १

3
कैलाससंहिता · 1

व्यासशौनकादिसंवादः

श्रीगणेशाय नमः ॐ नमः शिवाय ।

अथ षष्ठी कैलाससंहिता प्रारभ्यते ।

नमः शिवाय साम्बाय सगणाय ससूनवे ।

प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे

॥१॥

ऋषय ऊचुः

श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ।

कैलाससंहिताम्ब्रूहि शिवतत्त्वविवर्द्धिनीम्

॥२॥

व्यास उवाच

शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ।

शिवतत्त्वपरान्दिव्यां वक्ष्ये वः स्नेहतः पराम्

॥३॥

हिमवच्छिखरे पूर्व्वं तपस्यन्तो महौजसः ।

वाराणसीङ्गन्तुकामा मुनयः कृतसम्विदः

॥४॥

निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ।

स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्

॥५॥

तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ।

दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम्

॥६॥

नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ।

शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्व्वेदपारगाः

॥७॥

आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ।

शिवप्रीत्या सुपूर्णार्थाश्शिवभक्तिरतास्सदा

॥८॥

तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ।

गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे ।

सोपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ।

नमस्कृत्याथ तैस्साकम्मुक्तिमण्डपमाविशत्

॥१०॥

तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ।

अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन्

॥११॥

ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ।

पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः

॥१२॥

ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ।

प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः

॥१३॥

मुनय ऊचुः

व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।

धन्यस्त्वं शिवभक्तो हि सर्वविज्ञान सागरः

॥१४॥

भवन्तमेव भगवान्व्यासस्सर्वजगद्गुरुः ।

अभिषिच्य पुराणानां गुरुत्वे समयोजयत्

॥१५॥

तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता ।

पुराणानि च सर्वाणि वेदार्थम्प्रवदन्ति हि

॥१६॥

वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः ।

अतो महेश्वरस्थानं त्वयि धिष्ण्यम्प्रतिष्ठितम्

॥१७॥

त्वन्मुखाब्जपरिस्यन्दन्मकरंदे मनोहरम् ।

प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः

॥१८॥

विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते ।

परं भावं महेशस्य परया कृपया वद

॥१९॥

इति तेषां वचः श्रुत्वा सूतो व्यासप्रियस्सुधीः ।

गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम्

॥२०॥

शिलादतनयं देवं नन्दीशं सुयशापतिम् ।

सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत्

॥२१॥

सूत उवाच

साधुसाधु महाभागा मुनयः क्षीणकल्मषाः ।

मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम्

॥२२॥

पाराशर्येण गुरुणा नैमिषारण्यवासिनाम् ।

मुनीनामुपदिष्टं यद्वक्ष्ये तन्मुनिपुंगवाः

॥२३॥

यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम् ।

सावधाना भवन्तोद्य शृण्वन्तु परया मुदा

॥२४॥

स्वारोचिषेन्तरे पूर्वं तपस्यंतो दृढव्रताः ।

ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते

॥२५॥

दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ।

प्रीणयन्तः परं भावमैश्वर्य्यं ज्ञातुमिच्छवः

॥२६॥

निवसन्ति स्म ते सर्वे व्यासदर्शनकांक्षिणः ।

शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः

॥२७॥

तेषां भावं समालोक्य भगवान्बादरायणः ।

प्रादुर्बभूव सर्वात्मा पराशरतपःफलम्

॥२८॥

तं दृष्ट्वा मुनयस्सर्वे प्रहृष्टवदनेक्षणाः ।

अभ्युत्थानादिभिस्सर्वैरुपचारैरुपाचरन्

॥२९॥

सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ।

सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ।

प्राह गंभीरया वाचा पाराशर्य्यो महामुनिः

॥३०॥

व्यास उवाच

कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ।

अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः

॥३१॥

किमर्थमत्र युष्माभिरध्वरे परमेश्वरः ।

स्वर्चितो भक्तिभावेन साम्बस्संसारमोचकः

॥३२॥

युष्मत्प्रवृत्तिर्मे भाति शुश्रूषा पूर्वमेव हि ।

परभावे महेशस्य मुक्तिहेतोश्शिवस्य च

॥३३॥

एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ।

मुनयो नैमिषारण्यवासिनः परमौजसः

॥३४॥

प्रणिपत्य महात्मानं पाराशशर्य्यं महामुनिम् ।

शिवानुरागसंहृष्टमानसं च तमब्रुवन्

॥३५॥

मुनय ऊचुः

भगवन्मुनिशार्दूल साक्षान्नारायणांशज ।

कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो

॥३६॥

त्वं हि सर्वजगद्भर्तुर्महा देवस्य वेधसः ।

साम्बस्य सगणस्यास्य प्रसादानां निधिस्स्वयम्

॥३७॥

त्वत्पादाब्जरसास्वादमधुपायितमानसाः ।

कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात्

॥३८॥

त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ।

दुर्लभं लब्धमस्माभिस्त्वस्मात्सुकृतिनो वयम्

॥३९॥

अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ।

दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः

॥४०॥

श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ।

परस्परं चिन्तयन्तः परं भावं महेशितु

॥४१॥

अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ।

छेत्तुमर्हति तान्सर्वान्संशयानल्पचेतसाम्

॥४२॥

त्वदन्यः संशयस्यास्यच्छेत्ता न हि जगत्त्रये ।

तस्मादपारगंभीरव्यामोहाब्धौ निमज्जतः

॥४३॥

तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे ।

शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम्

॥४४॥

एवमभ्यर्थितस्त मुनिभिर्वेदपारगैः ।

सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ।

वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम्

॥४५॥

ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ।

प्रहृष्टमानसो भूत्वा व्याजहार महामुनि

॥४६॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः ॥ १ ॥