मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय २०

3
कैलाससंहिता · 20

क्षौरस्नानविधिवर्णनम्

सुब्रह्मण्य उवाच

क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने ।

यस्य सद्यो विधानेन शुद्धिस्स्याद्यतिनः परा

॥१॥

योगपट्टप्रकारस्य विधिम्प्राप्य मुनीश्वर ।

स शिष्यस्स्याद्व्रती पूर्णः क्षौरकर्म्मोद्यतो भवेत्

॥२॥

गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः ।

शिरस्संक्षाल्य चाचम्य सवासाः क्षौरमाचरेत्

॥३॥

क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम् ।

तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत्

॥४॥

स्थापितम्प्रोक्षितन्तोयैश्शिवं शिवमितीरयन् ।

स्वनेत्रे पिहिते चैवानामांगुष्ठाभिमंत्रिते

॥५॥

अस्त्रेणोन्मील्य संदृश्य क्षुरा दिक्षौ रसाधनम् ।

अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमंत्रतः

॥६॥

क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् ।

केशांश्च कांश्चि दग्रेषु वप्त्वा सर्वं च वापयेत्

॥७॥

पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले ।

श्मश्रूणि हस्तपादस्थनखानि च निकृंतयेत्

॥८॥

बिल्वाश्वत्थतुलस्यादिस्थाने संगृह्य मृतिकाम् ।

द्विषट्वारं निमज्याप्सु तीरं गत्वोपविश्य च

॥९॥

शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ।

एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत्

॥१०॥

तत्रैकां मृदमादाय दापयित्वान्यपाणिना ।

करौ द्वादशधा लिप्य प्रत्येकं केन क्षालयेत्

॥११॥

पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ।

संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत्

॥१२॥

अन्यां मृदम्भागयित्वा शिरसि द्वादश क्रमात् ।

आलिप्य मृदमास्यान्तनिमज्य च पुनः पुनः

॥१३॥

तीरं गत्वा तु गंडूषान्षोडशाचमनं द्विधा ।

प्राणानायम्य च पुनः प्रणवं द्व्यष्टसंख्यया

॥१४॥

मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ।

कटिशौचं पादशौचं विधायाचम्य च द्विधा

॥१५॥

प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ।

पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति

॥१६॥

प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ।

त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम्

॥१७॥

स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया ।

पाणिभ्याञ्च मृदा शिष्यस्सुमतिर्दृढमानसः

॥१८॥

गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् ।

शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया

॥१९॥

समुत्थाय ततोऽसौ वै दण्डमादाय भूतले ।

स्वगुरुं मन्त्रदम्भक्त्या संस्मरेज्ज्ञाननिष्ठया

॥२०॥

ततस्साम्बं महेशानं शंकरं चन्द्रशेखरम् ।

संस्मरेद्भक्तितश्शिष्य सर्वेश्वर्यपतिं शिवम्

॥२१॥

त्रिवारम्प्रणमेत्प्रीत्या साष्टांगं च गुरु शिवम् ।

पञ्चाङ्गेनैकवारञ्च समुत्थाय च वन्दयेत्

॥२२॥

तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ।

स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत्

॥२३॥

तत्रावशिष्टं संगृह्य जलमध्ये प्रविश्य च ।

विलोड्य सम्यक् तां तत्र सर्वांगेषु विलिप्य च ।

त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् ।

संसाराम्बुधिसंतारं सदा यद्विधितो हि सः

॥२५॥

अभिषिच्योमिति जलं विरजाभस्मलोलितम् ।

अंगोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः

॥२६॥

त्रिपुंड्रं च विधायाथ यथोक्तविधिना शुभम् ।

यथोक्तांगेषु सर्वेषु सावधान तया मुने

॥२७॥

ततश्शुद्धमना भूत्वा कुर्य्यान्मध्यंदिनक्रियाः ।

महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च

॥२८॥

सम्पूजयेन्महेशानं भक्त्या परमया मुने ।

साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै

॥२९॥

ततोसौ दृढचेतस्को यतिः स्ववृषसंस्थितः ।

भिक्षार्थम्प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु

॥३०॥

ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम् ।

भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत्

॥३१॥

शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् ।

भिक्षौश्चत्वारि कर्म्माणि पञ्चमं नैव विद्यते

॥३२॥

अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ।

भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते

॥३३॥

ताम्बूलं तैजसम्पात्रं रेतस्सेकं सितांबरम् ।

दिवास्वापो हि नक्तान्नं यतीनां षड्विवर्जिताः

॥३४॥

साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः ।

तस्माद्वै विपरीतं च कर्म्म नैवाचरेद्यतिः

॥३५॥

यतिः प्रयत्नतः कुर्य्यात्क्षौरस्नानं च शुद्धये ।

संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम्

॥३६॥

इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ।

क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि

॥३७॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः ॥ २० ॥