द्वादशाहकृत्यवर्णनपूर्व्वकव्यासादिशिष्यवर्गकथनम्
सुब्रह्मण्य उवाच
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ।
शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान्
॥१॥विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ।
विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः
॥२॥सन्निधौ परमेशस्य पंचावरणमार्गतः ।
पूजयेत्तस्य संस्थाप्य प्राणानायम्य वाग्यतः
॥३॥महासंकल्पमार्गेण संकल्प्यास्मद्गुरोरिह ।
पूजां करिष्य इत्युक्त्वा ततो दर्भानुस्पपृशेत्
॥४॥पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ।
स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान्
॥५॥सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ।
परया सम्भावनयेतरानपि मुने द्विजान् ।
परमेष्ठिगुरुं ध्यायेत्सांबबुद्ध्या स्वनामतः ।
गुरुश्च परमन्तस्मात्परापरगुरुं ततः
॥६॥इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ।
प्रणवादिद्वितीयांते स्वस्य नाम समुच्चरन्
॥७॥आवाहयामि नम इत्यावाह्यार्घोदकेन तु ।
पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि
॥८॥दत्त्वा पुष्पैरलंकृत्य प्रणवाद्यष्टनामभिः ।
सचतुर्थौंनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ।
धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ।
सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः
॥१०॥पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ।
शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम्
॥११॥दत्त्वा पदार्थान्कदलीनालिकेरगुडान्वितान् ।
पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात्
॥१२॥परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ।
रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः
॥१३॥आपोशनं समर्प्याथ प्रार्थयेत्तानिदम्प्रति ।
सदाशिवादयः प्रीता वरदाश्च भवन्तु मे
॥१४॥ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ।
नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति
॥१५॥उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ।
वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च
॥१६॥ब्रह्माणि भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ।
दत्त्वोत्तरापोशनं च हस्तांघ्रिमुखशोधनम्
॥१७॥कृत्वा चान्तान्स्वासनेषु स्थापयित्वा यथासुखम् ।
शुद्धोदकम्प्रदायाथ कर्प्पूरादि यथोदितम्
॥१८॥मुखवासं दक्षिणां च पादुकासनपत्रकम् ।
व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान्
॥१९॥प्रदक्षिणनमस्कारैस्संतोष्याशिषमा वहेत ।
पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचंचलाम्
॥२०॥सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ।
इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन्
॥२१॥निरुद्धस्तः परावृत्य द्वास्थैर्विप्रैश्च बन्धुभिः ।
दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम्
॥२२॥विकृतं न भवेत्क्वापि सत्यं सत्यं पुनः पुनः ।
प्रत्यब्दमेव कुर्वाणो गुर्वाराधनमुत्तमम् ।
इह भुक्त्वा महाभोगाञ्छिवलोकमवाप्नुयात्
॥२३॥सूत उवाच
एवं कृतानुग्रहमात्मशिष्यं श्रीवामदेवं मुनिवर्य्यमुक्त्वा ।
प्रसन्नधीर्ज्ञानिवरो महात्मा कृत्वा परानुग्रहमाशु देवः
॥२४॥यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ।
तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः
॥२५॥श्रुत्वा मुनीन्द्रो भवतो मुखाज्जात्सनत्कुमारः शिवभक्तिपूर्णः ।
व्यासाय वक्ता स च शैववर्य्यश्शुकाय वक्ता भविता च पूर्णः
॥२६॥प्रत्येकं मुनिशार्दूलं शिष्यवर्गचतुष्टयम् ।
वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम्
॥२७॥वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ।
सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः
॥२८॥अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ।
तव शिष्या महात्मानो वामदेव महामुने
॥२९॥सनकश्च सनन्दश्च सनातनमुनिस्ततः ।
सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः
॥३०॥सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ।
गुरुश्च परमश्चैव परात्परगुरुस्ततः ।
परमेष्ठिगुरुश्चैते पूज्यास्स्युश्शुकयोगिनः
॥३१॥इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ।
सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम्
॥३२॥एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ।
वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम्
॥३३॥इदं रहस्यम्परमं शिवोदितं वेदान्तसिद्धातविनिश्चितम्परम् ।
मत्तश्श्रुतं यद्भवता ततो मुने भवन्मतम्प्राज्ञतमा वदंति
॥३४॥तस्मादनेनैव पथा गतश्शिवं शिवोहमस्मीति शिवो भवेद्यतिः ।
पितामहादिप्रविभागमुक्तये नद्यो यथासिन्धुमिमाः प्रयान्ति
॥३५॥श्रीसूत उवाच
एवम्मुनीश्वरायैतदुपदिश्य सुरेश्वरः ।
संस्मृत्य चरणाम्भोजे पित्रो स्सर्व्वसुरार्चिते
॥३६॥कैलासशिखरम्प्राप कुमारश्शिखरावृतम् ।
राजितम्परमाश्चर्य्यदिव्यज्ञानप्रदो गुरुः
॥३७॥वामदेवोऽपि सच्छिष्यैस्संवृतश्शिखिवाहनम् ।
सम्प्रणम्य जगामाशु कैलासम्परमाद्भुतम्
॥३८॥गत्वा कैलासशिखरम्प्राप्येशनिकटम्मुनिः ।
ददर्श मोक्षदम्मायानाशञ्चरणमीशयोः
॥३९॥भक्त्या चार्पितसर्वांगो विस्मृत्य स्वकलेवरम् ।
पपात सन्निधौ भूयो भूयो नत्वा समु त्थितः
॥४०॥ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ।
तुष्टाव परमेशानं सांबिकं ससुतं मुनिः
॥४१॥निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ।
पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्
॥४२॥भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम् ।
वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम्
॥४३॥अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ।
सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्
॥४४॥अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ।
गमिष्ये भवताम्भूयस्सत्सम्भाषणमस्तु मे
॥४५॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्व्वकव्यासादिशिष्यवर्गकथनन्नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति कैलाससंहिता षष्ठी समाप्तिमगमत् ॥ ॐ नमश्शिवाय