मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १३

3
कैलाससंहिता · 13

गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत

सुब्रह्मण्य उवाच

अथ मध्याह्नसमये स्नात्वा नियतमानसः ।

गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत ।

नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम् ।

गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः

॥२॥

रक्तवर्णं महाकायं सर्व्वाभरणभूषितम् ।

पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः

॥३॥

एवमावाह्य सन्ध्याय शंभुपुत्रं गजाननम् ।

अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः

॥४॥

नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम् ।

परितोष्य नमस्कृत्य निर्विघ्नम्प्रार्थयेत्ततः

॥५॥

औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः ।

आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम्

॥६॥

भूः स्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च ।

गायत्रीं प्रजपेद्यावदपराह्णमतंद्रितः

॥७॥

अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ।

सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम्

॥८॥

श्रपयित्वा चरुन्तस्मिन्समिदन्नाज्यभेदतः ।

जुहुयाद्रौद्रसूक्तेन सद्योजातादि पञ्चभिः

॥९॥

ब्रह्मभिश्च महादेवं सांबं वह्नौ विभावयेत् ।

गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन्

॥१०॥

ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत् ।

हुत्वोपरिष्टात्तन्त्रन्तु ततोऽग्नेरुत्तरे बुधः

॥११॥

स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ।

आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः

॥१२॥

ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः ।

श्रपयित्वा चरुं तस्मिन्नग्नावे वाभिधारितम्

॥१३॥

उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः ।

अभिघार्य्य व्याहृतीश्च रौद्रसूक्तञ्च पञ्च च

॥१४॥

जपेद्ब्रह्माणि सन्धार्य्य चित्तं शिवपदांबुजे ।

प्रजापतिमथेन्द्रञ्च विश्वेदेवास्ततः परम् ।

ब्रह्माणं सचतुर्थ्यन्तं स्वाहांतान्प्रणवा दिकान् ।

संजप्य वाचयित्वाऽथ पुण्याहं च ततः परम्

॥१६॥

परस्तात्तंत्रमग्नये स्वाहेत्यग्निमुखावधि ।

निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः

॥१७॥

साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् ।

पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च

॥१८॥

महेशादिचतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः ।

हुत्वोपरिष्टात्तन्त्रन्तु स्वशाखोक्तेन वर्त्मना

॥१९॥

तत्तद्देवान्समुद्दिश्य सांगं कुर्य्याद्विचक्षणः ।

एवमग्निमुखाद्यं यत्कर्मतन्त्रम्प्रवर्त्तितम्

॥२०॥

अतः परं प्रजुहुयाद्विरजाहोममात्मनः ।

षड्विंशतत्त्वरूपेस्मिन्देहे लीनस्य शुद्धये

॥२१॥

तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ।

तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः

॥२२॥

पठ्यमानैः पृथिव्यादिपुरुषांतं क्रमान्मुने ।

साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन्

॥२३॥

पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः ।

श्रोत्राद्यञ्च शिरः पार्श्वपृष्ठोदरचतुष्टयम्

॥२४॥

जंघां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् ।

प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम्

॥२५॥

मनाश्चित्तं च बुद्धिश्चाहंकृतिः ख्यातिरेव च ।

संकल्पन्तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः

॥२६॥

पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने ।

अन्तरंगतया तत्त्वपंचकं परिकीर्तितम्

॥२७॥

नियतिः कालरागश्च विद्या च तदनन्तरम् ।

कला च पंचकमिदं मयोत्पन्नम्मुनीश्वर

॥२८॥

मायान्तु प्रकृतिं विद्यादिति माया श्रुतीरिता ।

तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः

॥२९॥

कालस्वभावो नियतिरिति च श्रुतितब्रवीत् ।

एतत्पञ्चकमेवास्य पञ्चकञ्चक्रमुच्यते

॥३०॥

अजानन्पञ्चतत्त्वानि विद्वानपि च।

मूढधीः ।

निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम्

॥३१॥

काकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ।

विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ

॥३२॥

सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ।

शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः

॥३३॥

पृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ।

स्वकारणलयद्वारा शुद्धिरस्य विधीयताम्

॥३४॥

एकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ।

शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत्

॥३५॥

न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ।

अतः परं विविद्यैति कपोतकायेति मन्त्रयोः

॥३६॥

व्यापकाय पदस्यान्ते परमात्मन इत्यपि ।

शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः

॥३७॥

घसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ।

परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्

॥३८॥

उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ।

पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत्

॥३९॥

लोकत्रयपदस्यान्ते व्यापिने परमात्मने ।

शिवायेदं न मम च पदम्ब्रूयादतः परम्

॥४०॥

स्व शाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म्म च ।

निर्वर्त्य सर्पिषा मिश्रं चरुम्प्राश्य पुरोधसे

॥४१॥

प्रदद्याद्दक्षिणान्तस्मै हेमादिपरिबृंहिताम् ।

ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत्

॥४२॥

सं मां सिञ्चन्तु मरुत इति मन्त्रञ्जपेन्नरः ।

याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च

॥४३॥

हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि ।

प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ

॥४४॥

उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ।

तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः

॥४५॥

आहिताग्निस्तु यः कुर्य्यात्प्राजापत्येष्टिमाहिते ।

श्रौते वैश्वानरे सम्यक्सर्ववेदसदक्षिणाम्

॥४६॥

अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ।

सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च

॥४७॥

प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ।

द्वितीयम्पादमुच्चार्य्य सावित्रीमिति पूर्व्ववत्

॥४८॥

प्रवेशयामि शब्दान्ते भुवरोमिति संवदेत् ।

तृतीयम्पादमुच्चार्य्य सावित्रीमित्यतः परम्

॥४९॥

प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत् ।

त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम्

॥५०॥

प्रवेशयामि शब्दान्ते भूर्भुवस्सुवरोमिति ।

उदीरयेत्परम्प्रीत्या निश्चलात्मा मुनीश्वर

॥५१॥

इयम्भगवती साक्षाच्छंकरार्द्धशरीरिणी ।

पंचवक्त्रा दशभुजा विपञ्चनयनोज्ज्वला

॥५२॥

नवरत्नकिरीटोद्यच्चन्द्र लेखावतंसिनी ।

शुद्धस्फटिकसंकाशा दयायुधधरा शुभा

॥५३॥

हारकेयूरकटककिंकिणीनूपुरादिभिः ।

भूषितावयवा दिव्यवसना रत्नभूषणा

॥५४॥

विष्णुना विधिना देवऋषिगंधर्व्वनायकैः ।

मानवैश्च सदा सेव्या सर्व्वात्मव्यापिनी शिवा

॥५५॥

सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ।

जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा

॥५६॥

इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ।

आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम्

॥५७॥

यो ह्यन्यथा जपेत्पापो गायत्री शिवरूपिणीम् ।

स पच्यते महाघोरे नरके कल्पसंख्यया

॥५८॥

सा व्याहृतिभ्यः संजाता तास्वेव विलयं गता ।

ताश्च प्रणवसम्भूताः प्रणवे विलयं गता

॥५९॥

प्रणवस्सर्ववेदादिः प्रणवः शिववाचकः ।

मन्त्राधिराजराजश्च महाबीजं मनुः परः

॥६०॥

शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ।

वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः

॥६१॥

एनमेव महामन्त्रञ्जीवानाञ्च तनुत्यजाम् ।

काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः

॥६२॥

तस्मादेकाक्षरन्देवं शिवं परमकारणम् ।

उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम्

॥६३॥

मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः ।

विषयान्मनसा ज्ञात्वोपासते परमं शिवम्

॥६४॥

एवं विलाप्य गायत्रीं प्रणवे शिववाचके ।

अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः

॥६५॥

यश्छन्दसामृषभ इत्यनुवाकमुपक्रमात् ।

गोपायांतं जपन्पश्चादुत्थितोहमितीरयेत्

॥६६॥

वदेज्जयेत्त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने ।

प्रणवम्पूर्व्वमुद्धत्य सृष्टिस्थितिलयक्रमात्

॥६७॥

तेषामथ क्रमाद्भूयाद्भूस्संन्यस्तम्भुवस्तथा ।

संन्यस्तं सुवरित्युक्त्वा संन्यस्तं पदमुच्चरम्

॥६८॥

सर्वमंत्राद्यः प्रदेशे मयेति च पदं वदेत् ।

प्रणवं पूर्वमुद्धृत्य समष्टिं व्याहृतीर्वदेत्

॥६९॥

समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् ।

सदाशिवं हृदि ध्यात्वा मंदादीति ततो मुने

॥७०॥

प्रैषमंत्रांस्तु जप्त्वैवं सावधानेन चेतसा ।

अभयं सर्वभूतेभ्यो मत्तः स्वाहेति संजपन्

॥७१॥

प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ।

शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना

॥७२॥

गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ।

वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः

॥७३॥

अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ।

प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत्

॥७४॥

उदङ्मुखः प्राङ्मुखो वा गच्छेस्सप्तपदाधिकम् ।

किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत्

॥७५॥

लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च ।

भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना

॥७६॥

दत्त्वा सुदोरं कौपीनं काषायवसनं ततः ।

आच्छाद्याचम्य च द्वेधा त शिष्यमिति संवदेत्

॥७७॥

इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् ।

सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति संजपन्

॥७८॥

अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ।

प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान्

॥७९॥

पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् ।

कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः

॥८०॥

कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् ।

स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत

॥८१॥

सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान् ।

निक्षिप्य होमसम्पूर्त्तौ भस्म संगृह्य गोपयेत्

॥८२॥

ततो गुरुस्समादाय विरजानलजं सितम् ।

भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात्

॥८३॥

मंत्रैरंगानि संस्पृश्य मूर्द्धादिचरणान्ततः ।

ईशानाद्यैः पञ्चमंत्रै शिर आरभ्य सर्वतः

॥८४॥

समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः ।

त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात्

॥८५॥

ततस्सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः ।

हृत्पंकजे समासीनं ध्यायेच्छिवमुमासखम्

॥८६॥

हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् ।

त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम्

॥८७॥

ततः कृत्वा च करुणां प्रणवस्यार्थ मादिशेत् ।

षड्विधार्त्थपरि ज्ञानसहितं गुरुसत्तमः

॥८८॥

द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत् ।

तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत्

॥८९॥

तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः ।

शिवज्ञानपरो भूयात्सगुणागुणभेदतः

॥९०॥

ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ।

प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः

॥९१॥

पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ।

शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत्

॥९२॥

देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ।

स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिंगमैश्वरम्

॥९३॥

वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ।

न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम्

॥९४॥

एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।

कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्

॥९५॥

तत एव महादेवं नित्यमुद्युक्तमानसः ।

पूजयेत्परया भक्त्या पञ्चावरणमार्गतः

॥९६॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ॥ १३ ॥