मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १४

3
कैलाससंहिता · 14

भगवन्षण्मुखाशेष विज्ञानामृतवारिधे

वामदेव उवाच

भगवन्षण्मुखाशेष विज्ञानामृतवारिधे ।

विश्वामरेश्वरसुत प्रणतार्त्तिप्रभञ्जन

॥१॥

षड्विधार्त्थपरिज्ञानमिष्टदं किमुदाहृतम् ।

के तत्र षड्विधा अर्थाः परिज्ञानञ्च किं प्रभो

॥२॥

प्रतिपाद्यश्च कस्तस्य परिज्ञाने च किं फलम् ।

एतत्सर्वं समाचक्ष्व यद्यत्पृष्टं मया गुह

॥३॥

एतमर्त्थमविज्ञाय पशुशास्त्रविमोहितः ।

अद्याप्यहम्महासेन भ्रान्तश्च शिवमायया

॥४॥

अहं शिवपदद्वंद्वज्ञानामृतरसायनम् ।

पीत्त्वा विगतसम्मोहो भविष्यामि यथा तथा

॥५॥

कृपामृतार्द्रया दृष्ट्या विलोक्य सुचिरं मयि ।

कर्त्तव्योऽनुग्रहः श्रीमत्पादाब्जशरणागते

॥६॥

इति श्रुत्वा मुनीन्द्रोक्तं ज्ञानशक्तिधरो विभुः ।

प्राहान्यदर्शनमहासंत्रासजनकं वचः

॥७॥

सुब्रह्मण्य उवाच

श्रूयताम्मुनिशार्दूल त्वया यत्पृष्टमादरात् ।

समष्टिव्यष्टिभावेन परिज्ञानम्महेशितुः

॥८॥

प्रणवार्त्थपरिज्ञानरूपं तद्विस्तरादहम् ।

वदामि षड्विधार्थैक्य परिज्ञानेन सुव्रत

॥९॥

प्रथमो मंत्ररूपः स्याद्द्वितीयो मंत्रभावितः ।

देवतार्त्थस्तृतीयोऽर्थः प्रपञ्चार्थस्ततः परम्

॥१०॥

चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः।

षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः

॥११॥

तत्र मन्त्रस्वरूपन्ते वदामि मुनिसत्तम ।

येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः

॥१२॥

आद्यस्स्वरः पंचमश्च पञ्चमान्तस्ततः परः ।

बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा

॥१३॥

एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ।

नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम्

॥१४॥

व्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ।

यंत्ररूपं शृणु प्राज्ञ शिवलिंगं तदेव हि

॥१५॥

सर्व्वाधस्ताल्लिखेत्पीठं तदूर्ध्वम्प्रथमं स्वरम् ।

उवर्णं च तदूर्द्ध्वं स्थम्पवर्गान्तं तदूर्ध्वगम्

॥१६॥

तन्मस्तकस्थं बिंदुं च तदूर्द्ध्वं नादमालिखेत् ।

यंत्रे संपूर्णतां याति सर्वकामः प्रसिध्यति

॥१७॥

एतं यंत्रं समालिख्य प्रणवे नव वेष्टयेत् ।

तदुत्थेनैव नादेन विद्यन्नादावसानकम्

॥१८॥

देवतार्त्थम्प्रवक्ष्यामि गूढं सर्व्वत्र यन्मुने ।

तव स्नेहाद्वामदेव यथा शंकरभाषितम्

॥१९॥

सद्योजातम्प्रपद्यामीत्युपक्रम्य सदाशिवोम् ।

इति प्राह श्रुतिस्तारं ब्रह्मपंचकवाचकम्

॥२०॥

विज्ञेया ब्रह्मरूपिण्यस्सूक्ष्माः पंचैव देवताः ।

एता एव शिवस्यापि मूर्तित्वे नोपबृंहिताः

॥२१॥

शिवस्य वाचको मन्त्रश्शिवमूर्त्तेश्च वाचकः ।

मूर्त्तिमूर्तिमतोर्भेदो नात्यन्तं विद्यते यतः

॥२२॥

ईशानमुकुटोपेत इत्यारभ्य पुरोदितः ।

शिवस्य विग्रहः पञ्चवक्त्राणि शृणु सांप्रतम्

॥२३॥

पंचमादि समारभ्य सद्योजाताद्यनुक्रमात् ।

उर्द्ध्वांतमीशानांतं च मुखपंचकमीरितम्

॥२४॥

ईशानस्यैव देवस्य चतुर्व्यूहपदे स्थितम् ।

पुरुषाद्यं च सद्यांतं ब्रह्मरूपं चतुष्टयम्

॥२५॥

पंच ब्रह्मसमष्टिस्स्यादीशानं ब्रह्म विश्रुतम् ।

पुरुषाद्यं तु तद्व्यष्टिस्सद्योजातान्तिकं मुने

॥२६॥

अनुग्रहमयं चक्रमिदं पंचार्त्थकारणम् ।

परब्रह्मात्मकं सूक्ष्मं निर्विकारमनामयम्

॥२७॥

अनुग्रहोऽपि द्विविधस्तिरोभावादिगोचरः ।

प्रभुश्चान्यस्तु जीवानां परावरविमुक्तिदः

॥२८॥

एतत्सदाशिवस्यैव कृत्यद्वयमुदाहृतम् ।

अनुग्रहेऽपि सृष्ट्यादिकृत्यानां पंचकं विभोः

॥२९॥

मुने तत्रापि सद्याद्या देवताः परिकीर्त्तिताः ।

परब्रह्मस्वरूपास्ताः पंच कल्याणदास्सदा

॥३०॥

अनुग्रहमयं चक्रं शांत्यतीतकलामयम् ।

सदाशिवाधिष्ठितं च परमं पदमुच्यते

॥३१॥

एतदेव पदं प्राप्यं यतीनां भवितात्मनाम् ।

सदाशिवोपासकानां प्रणवासक्तचेतसाम्

॥३२॥

एतदेव पदं प्राप्य तेन साकं मुनीश्वराः ।

भुक्त्वा सुविपुलान्भोगान्देवेन ब्रह्मरूपिणा

॥३३॥

महाप्रलयसंभूतौ शिवसाम्यं भजंति हि ।

न पतंति पुनः क्वापि संसाराब्धौ जनाश्च ते

॥३४॥

ते ब्रह्मलोक इति च श्रुतिराह सनातनी ।

ऐश्वर्य्यं तु शिवस्यापि समष्टिरिदमेव हि

॥३५॥

सर्वैश्वर्येण सम्पन्न इत्याहाथर्व्वणी शिखा ।

सर्वैश्वर्य्यप्रदातृत्वमस्यैव प्रवदन्ति हि

॥३६॥

चमकस्य पदान्नान्य दधिकं विद्यते पदम् ।

ब्रह्मपंचकविस्तारप्रपंचः खलु दृश्यते

॥३७॥

ब्रह्मभ्य एवं संजाता निवृत्त्याद्याः कला मताः ।

सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः

॥३८॥

स्थूलरूपस्वरूपस्य प्रपंचस्यास्य सुव्रत ।

पंचधावस्थितं यत्तद्ब्रह्मपंचकमिष्यते

॥३९॥

पुरुषः श्रोत्रवाण्यौ च शब्दकाशौ च पंचकम् ।

व्याप्तमीशानरूपेण ब्रह्मणा मुनिसत्तम

॥४०॥

प्रकृतिस्त्वक्च पाणिश्च स्पर्शो वायुश्च पंचकम् ।

व्याप्तं पुरुषरूपेण ब्रह्मणैव मुनीश्वर

॥४१॥

अहंकारस्तथा चक्षुः पादो रूपं च पावकः ।

अघोरब्रह्मणा व्याप्तमेतत्पंचकमंचितम्

॥४२॥

बुद्धिश्च रसना पायू रस आपश्च पंचकम् ।

ब्रह्मणा वामदेवेन व्याप्तं भवति नित्यशः

॥४३॥

मनो नासा तथोपस्थो गन्धो भूमिश्च पंचकम् ।

सद्येन ब्रह्मणा व्याप्तं पंचब्रह्ममयं जगत्

॥४४॥

यंत्ररूपेणोपदिष्टः प्रणवश्शिववाचकः ।

समष्टिः पंचवर्णानां बिंद्वाद्यं यच्चतुष्टयम्

॥४५॥

शिवोपदिष्टमार्गेण यंत्ररूपं विभावयेत् ।

प्रणवम्परमं मन्त्राधिराजं शिवरूपिणम्

॥४६॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवरूपप्रणववर्णनं नाम चतुर्द्दशोध्यायः ॥ १४ ॥