मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १५

3
कैलाससंहिता · 15

उपासनामूर्त्तिवर्णनम्

ईश्वर उवाच

ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ।

सदाशिवान्महेशादिचतुष्कस्य वरानने

॥१॥

सदाशिवस्समष्टिस्स्यादाकाशधिपतिः प्रभुः ।

अस्यैव व्यष्टितापन्नम्महेशादिचतुष्टयम्

॥२॥

सदाशिवसहस्रांशान्महेशस्य समुद्भवः ।

पुरुषाननरूपत्वाद्वायोरधिपतिश्च सः

॥३॥

मायाशक्तियुतो वामे सकलश्च क्रियाधिकः ।

अस्यैव व्यष्टिरूपं स्यादीश्वरादिचतुष्टयम्

॥४॥

ईशो विश्वेश्वरः पश्चात्परमेशस्ततः परम् ।

सर्वेश्वर इतीदन्तु तिरोधाचक्रमुत्तमम्

॥५॥

तिरोभावो द्विधा भिन्न एको रुद्रादिगोचरः ।

अन्यश्च देहभावेन पशुवर्गस्य सन्ततेः

॥६॥

भोगानुरंजनपरः कर्मसाम्यक्षणावधि ।

कर्मसाम्ये स एकः स्यादनुग्रहमयो विभुः

॥७॥

तत्र सर्वेश्वरा यास्ते देवताः परिकीर्त्तिताः ।

परब्रह्मात्मकाः साक्षान्निर्विकल्पा निरामयाः

॥८॥

तिरोभावात्मकं चक्रं भवेच्छान्तिकलामयम् ।

महेश्वराधिष्ठितं च पदमेतदनुत्तमम्

॥९॥

एतदेव पदं प्राप्यं महेशपदसेविनाम् ।

माहेश्वराणां सालोक्यक्रमादेव विमुक्तिदम्

॥१०॥

महेश्वरसहस्रांशाद्रुद्रमूर्तिरजायत ।

अघोरवदनाकारस्तेजस्तत्त्वाधिपश्च सः

॥११॥

गौरीशक्तियुतो वामे सर्व्वसंहारकृत्प्रभुः ।

अस्यैव व्यष्टिरूपं स्याच्छिवाद्यथ चतुष्टयम्

॥१२॥

शिवो हरो मृडभवौ विदितं चक्रमद्भुतम् ।

संहाराख्यं महादिव्यं परमं हि मुनीश्वर

॥१३॥

स संहारस्त्रिधा प्रोक्तो बुधैर्नित्यादिभेदतः ।

नित्यो जीवसुषुप्त्याख्यो विधेर्नैमित्तिकः स्मृतः

॥१४॥

विलयस्तस्य तु महानिति वेदनिदर्शितः ।

जीवानां जन्मदुःखादिशांतानामुषितात्मनाम्

॥१५॥

विश्रांत्यर्थं मुनिश्रेष्ठ कर्मणां पाकहेतवे ।

संहारः कल्पितस्त्रेधा रुद्रेणामिततेजसा

॥१६॥

रुद्रस्यैव तु कृत्यानां त्रयमेतदुदाहृतम् ।

संहृतवपि सृष्ट्यादिकृत्यानां पञ्चकं विभोः

॥१७॥

मुने तत्र भवाद्यास्ते देवताः परिकीर्त्तिताः ।

परब्रह्मस्वरूपाश्च लोकानुग्रहकारकाः

॥१८॥

संहाराख्यमिदं चक्रं विद्यारूपकलामयम् ।

अधिष्ठितं च रुद्रेण पदमेतन्निरामयम्

॥१९॥

एतदेव पदं प्राप्यं रुद्राराधनकांक्षिणाम् ।

रुद्राणां तद्धि सालोक्यक्रमात्सायुज्यदम्मुने

॥२०॥

रुद्रमूर्त्तेस्सहस्रांशाद्विष्णोश्चैवाभवज्जनिः ।

स वामदेवचक्रात्मा वारितत्त्वैकनायकः

॥२१॥

रमाशाक्तियुतो वामे सर्व्वरक्षाकरो महान् ।

चतुर्भुजोऽरविंदाक्षः श्यामश्शंखादिचिह्नभृत्

॥२२॥

अस्यैव वासुदेवादिचतुष्कं व्यष्टितां गतम् ।

उपासनरतानां वै वैष्णवानां विमुक्तिदम्

॥२३॥

वासुदेवोऽनिरुद्धश्च ततस्संकर्षणः परः ।

प्रद्युम्नश्चेति विख्यातं स्थितिचक्रमनुत्तमम्

॥२४॥

स्थितिस्सृष्टस्य जगतस्तत्कर्त्रा सह पालनम् ।

आरब्धकर्मभोगान्तं जीवानां फलभोगिनाम्

॥२५॥

विष्णोरेवेदमाख्यातं कृत्यं रक्षाविधायिनः ।

स्थितावपि तु सृष्ट्यादि कृत्यानां पंचकं विभोः

॥२६॥

तत्र प्रद्युम्नमुख्यास्ते देवताः परिकीर्तिताः ।

निर्विकल्पा निरातंका मुक्तानंदकरास्सदा

॥२७॥

स्थितिचक्रमिदं ब्रह्मन्प्रतिष्ठारूपमुत्तमम् ।

जनार्दनाधिष्ठितं च परमं पदमुच्यते

॥२८॥

एवदेव पदं प्राप्यं विष्णुपादाब्जसेविनाम् ।

वैष्णवानां चक्रमिदं सालोक्यादिपदप्रदम्

॥२९॥

विष्णोरेव सहस्रांशात्संबभूव पितामहः ।

सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः

॥३०॥

वाग्देवीसहितो वामे सृष्टिकर्त्ता जगत्प्रभुः ।

चतुर्मुखो रक्तवर्णो रजोरूपस्वरूपवान्

॥३१॥

हिण्यगर्भाद्यस्यैव व्यष्टिरूपं चतुष्टयम् ।

हिरण्यगर्भोथ विराट् पुरुषः काल एव च

॥३२॥

सृष्टि चक्रमिदं ब्रह्म पुत्रादिऋषिसेवितम् ।

सर्व्वकामार्थदं ब्रह्मन्परिवारसुखप्रदम्

॥३३॥

सृष्टिस्तु संहृतस्यास्य जीवस्य प्रकृतौ बहिः ।

आनीय कर्मभोगार्थ साधनांगफलैस्सह

॥३४॥

संयोजनमितीदं तु कृत्यं पैतामहं विदुः ।

जगत्सृष्टिक्रियाविज्ञा यावद्व्यूहं सुखावहम्

॥३५॥

जगत्सृष्टावपि मुने कृत्यानां च पंचकं विभोः ।

अस्ति कालोदयस्तत्र देवताः परिकीर्त्तिताः

॥३६॥

निवृत्तिरूपमाख्यातं सृष्टिचक्रमिदं बुधैः ।

पितामहाधिष्ठितं च पदमेतद्धि शोभनम्

॥३७॥

एतदेव प्रदं प्राप्यं ब्रह्मार्पितधियां नृणाम् ।

पैतामहानामेतद्धि सालोक्या दिविमुक्तिदम्

॥३८॥

अस्मिन्नपि चतुष्के तु चक्राणां प्रणवो भवेत् ।

महेशादिक्रमादेव गौण्या वृत्त्या स वाचकः

॥३९॥

इदं खलु जगच्चक्रं श्रुतिविश्रुतवैभवम् ।

पञ्चारं चक्रमिति ह स्तौति श्रुतिरिदम्मुने

॥४०॥

एकमेव जगच्चक्रं शम्भोश्शक्तिविजृंभितम् ।

सृष्ट्यादिपंचांवयवं पंचारमिति कथ्यते

॥४१॥

अलातचक्रभ्रमिवदविच्छिन्नलयोदयम् ।

परितो वर्तते यस्मात्तस्माच्चक्रमितीरितम्

॥४२॥

सृष्ट्यादिपृथुसृष्टित्वात्पृथुत्वेनोपदृश्यते ।

हिरण्मयस्य देवस्य शम्भोरमिततेजसः

॥४३॥

शक्तिकार्यमिदं चक्रं हिरण्यज्योतिराश्रितम् ।

सलिलेनावृतमिदं सलिलं वह्निनावृतम्

॥४४॥

आवृतो वायुना वह्निराकाशेनावृतं महत् ।

भूतादिना तथाकाशो भूतादिर्महतावृतः

॥४५॥

अव्यक्तेनावृतस्तद्वन्महानित्येवमास्तिकैः ।

ब्रह्माण्डमिति संप्रोक्तमाचार्य्यैर्मुनिसत्तम

॥४६॥

उक्तानि सप्तावरणान्यस्य विश्वस्य गुप्तये ।

चक्राद्दशगुणाधिक्यं सलिलस्य विधीयते

॥४७॥

उपर्युपरि चान्योन्यमेवं दशगुणाधिकम् ।

ब्रह्माण्डमिति विज्ञेयं तद्द्विजैर्मुनिनायक

॥४८॥

इममर्थमुरीकृत्य चक्रसामीप्यवर्त्तनात् ।

सलिलस्य च तन्मध्ये इति प्राह श्रुतिस्स्वयम्

॥४९॥

अनुग्रहतिरोभावसंहृतिस्थितिसृष्टिभिः ।

करोत्यविरतं लीलामेकश्शक्तियुतश्शिवः

॥५०॥

बहुनेह किमुक्तेन मुने सारं वदामि ते ।

शिव एवेदमखिलं शक्तिमानिति निश्चितम्

॥५१॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामुपासनामूर्त्तिवर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥