शिवध्यानपूजनवर्णनम्
ईश्वर उवाच
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत् ।
ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम्
॥१॥स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ।
आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना
॥२॥अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।
अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत्
॥३॥शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ।
तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे
॥४॥षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ।
अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः
॥५॥साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ।
आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत्
॥६॥कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ।
आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने
॥७॥सद्योजातादिभिर्मंत्रैः षडंगैः प्रणवेन च ।
अभ्यर्च्य गंधपुष्पाद्यैरभिमंत्र्य च वर्मणा
॥८॥अवगुंण्ठ्यास्त्रमंत्रेण संरक्षार्थं प्रदर्शयेत् ।
धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः
॥९॥स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ।
पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम्
॥१०॥गुर्वासनाय नम इत्यासनं परिकल्पयेत् ।
गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः
॥११॥प्रणवं गुं गुरुभ्योन्ते नमः प्रोच्यापि देशिकम् ।
समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम्
॥१२॥सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ।
वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम्
॥१३॥एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ।
पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि
॥१४॥मूर्तिम्प्रकल्प्य तत्रैव गणानां त्वेति मंत्रतः ।
समावाह्य ततो देवं ध्यायेदेका ग्रमानसः
॥१५॥रक्तवर्णं महाकायं सर्वाभरणभूषितम् ।
पाशांकुशेष्टदशनान्दधानङ्करपङ्कजैः
॥१६॥गजाननम्प्रभुं सर्वविघ्नौघघ्नमुपासितुः ।
एवन्ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः
॥१७॥कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ।
नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम्
॥१८॥पद्मस्य वायुदिक्पद्मे संकल्प्य स्कान्दमासनम् ।
स्कन्दमूर्तिम्प्रकल्प्याथ स्कन्दमावाहयेद्बुधः
॥१९॥उच्चार्य्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम् ।
उद्यदादित्यसंकाशं मयूरवरवाहनम्
॥२०॥चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम् ।
वरदाभयहस्तं च शक्तिकुक्कुटधारिणम्
॥२१॥एवन्ध्यात्वाऽथ गंधाद्यैरुपचारैरनुक्रमात् ।
संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम्
॥२२॥अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।
चामीकराचलप्रख्यं सर्वाभरणभूषितम्
॥२३॥बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।
दीप्तशूलमृगीटंकहेमवेत्रधरं विभुम्
॥२४॥चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।
उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम्
॥२५॥सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ।
संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः
॥२६॥ततस्संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ।
कल्पयेदासनं पश्चादाधारादि यथाक्रमात्
॥२७॥आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ।
तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम्
॥२८॥धवलं पंचफणिनं लेलिहानमिवाम्बरम् ।
तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम्
॥२९॥धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ।
आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः
॥३०॥अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ।
राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत्
॥३१॥अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्टकान् ।
दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत्
॥३२॥दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ।
रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात्
॥३३॥कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ।
वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी
॥३४॥कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।
कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम्
॥३५॥आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ।
सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम्
॥३६॥परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ।
परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम्
॥३७॥आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।
ॐकारादिचतुर्थ्यंतं नाममन्त्रं नमोन्तकम्
॥३८॥उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ।
अङ्गवक्त्रकलाभेदात्पंचब्रह्माणि पूर्ववत्
॥३९॥विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ।
आवाहयेत्ततो देवं पुष्पाञ्जलिपुटस्थितः
॥४०॥सद्योजातम्प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ।
आधारोत्थितनादं तु द्वादशग्रन्धिभेदतः
॥४१॥ब्रह्मरन्धांतमुच्चार्य ध्यायेदोंकारगोचरम् ।
शुद्धस्फटिकसंकाशं देवं निष्कलमक्षरम्
॥४२॥कारणं सर्वलोकानां सर्वलोकमयं परम् ।
अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम्
॥४३॥भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम्
॥४४॥वेदसारञ्च विद्वद्भिरगोचरमिति श्रुतम् ।
आविर्मध्यान्तरहितं भेषजं भवरोगिणाम्
॥४५॥समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ।
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम्
॥४६॥नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ।
ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम्
॥४७॥शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ।
विद्युद्वलयसंकाशं जटामुकुटभूषितम्
॥४८॥शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम् ।
रक्तपद्मदलप्रख्यपाणिपादतलाधरम्
॥४९॥सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ।
दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम्
॥५०॥पञ्चवक्त्रन्दशभुजञ्चन्द्रखण्डशिखामणिम् ।
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम्
॥५१॥त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम् ।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम्
॥५२॥भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ।
दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम्
॥५३॥उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ।
सद्विलासन्त्रिनयनं चन्द्रार्द्धकृतशेखरम्
॥५४॥पश्चिमम्पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ।
चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम्
॥५५॥पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ।
अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम्
॥५६॥दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम्
॥५७॥पूर्व्वे पिनाकनाराचघण्टा पाशांकुशोज्ज्वलम् ।
निवृत्त्याजानुपर्य्यंतमानाभि च प्रतिष्ठया
॥५८॥आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा
॥५९॥पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ।
ईशानमुकुटं देवम्पुरुषाख्यम्पुरातनम्
॥६०॥अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।
सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम्
॥६१॥मातृकामयमीशानम्पञ्चब्रह्ममयन्तथा ।
ॐकाराख्यमयं चैव हंसन्यासमयन्तथा
॥६२॥पञ्चाक्षरमयन्देवं षडक्षरमयन्तथा ।
अङ्गषट्कमयञ्चैव जातिषट्कसमन्वितम्
॥६३॥एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम् ।
गौरी मिमाय मन्त्रेण प्रणवाद्येन भक्तितः
॥६४॥आवाह्य पूर्ववत्कुर्यान्नमस्कारांतमी श्वरि ।
ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः
॥६५॥प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।
पूर्णचन्द्राभवदनान्नील कुंचितमूर्द्धजाम्
॥६६॥नीलोत्पलदलप्रख्याञ्चन्द्रार्धकृतशेखराम् ।
अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्
॥६७॥तनुमध्याम्पृथुश्रोणीम्पीतसूक्ष्मतराम्बराम् ।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम्
॥६८॥विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ।
सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम्
॥६९॥हेमारविन्दं विलसद्दधानां दक्षिणे करे ।
चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने
॥७०॥एवम्मान्त्वां च देवेशि ध्यात्वा नियतमानसः ।
स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात्
॥७१॥भवे भवे नातिभव इति पाद्यम्प्रकल्पयेत् ।
वामाय नम इत्युक्त्वा दद्यादाचमनीयकम्
॥७२॥ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत् ।
श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम्
॥७३॥रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ।
कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम्
॥७४॥कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ।
बलविकरणाय नम इति पुष्पाणि दापयेत्
॥७५॥बलाय नम इत्युक्त्वा धूपन्दद्यात्प्र यत्नतः ।
बलप्रमथनायेति सुदीपं चैव दापयेत्
॥७६॥ब्रह्मभिश्च षडंगैश्च ततो मातृकया सह ।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात्
॥७७॥मुद्राः प्रदर्शयेन्मह्यन्तुभ्यञ्च वरवर्णिनि ।
मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि
॥७८॥यदा त्वयि प्रकुर्वीत स्त्रीलिंगं योजयेत्तदा ।
इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन
॥७९॥एवन्ध्यानम्पूजनं च कृत्वा सम्यग्विधानतः ।
ममावरणपूजां च प्रारभेत विचक्षणः
॥८०॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥