मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १९

3
कैलाससंहिता · 19

इत्येवं सर्वत्र सदा ध्यायेदिति

सुब्रह्मण्य उवाच

अथ महावाक्यानि (१) प्रज्ञानं ब्रह्म ( २) अहं ब्रह्मास्मि (३) तत्त्वमसि ( ४) अयात्मा ब्रह्म (५) ईशावास्यमिदं सर्वम् (६) प्राणोऽस्मि (७) प्रज्ञानात्मा (८) यदेवेह तदमुत्र यदमुत्र तदन्विह ( ९) अन्यदेव तद्विदितादथो अविदितादपि ( १०) एष न आत्मान्तर्याम्यमृतः (११) स यश्चायम्पुरुषो यश्चासावा दित्ये स एकः (१२) अहमस्मि परं ब्रह्म परं परपरात्परम् (१३) वेदशास्त्रगुरुत्वात्तु स्वयमानंदलक्षणम् (१४) सर्वभूतस्थितं ब्रह्म तदेवाहं न संशयः (१५) तत्त्वतस्य प्राणोहमस्मि पृथिव्याः प्राणोहमस्मि (१६) अपां च प्राणोहमस्मि तेजसश्च प्राणोहमस्मि (१७) वायोश्च प्राणोहमस्मि आकाशस्य प्राणोहमस्मि ( १८) त्रिगुणस्य प्राणोहमस्मि (१९) सर्वोऽहं सर्वात्मकोऽहं संसारी यद्भूतं यच्च भव्यं यद्वर्तमानं सर्वात्मकत्वादद्वितीयोहम् (२०) सर्वं खल्विदं ब्रह्म ( २१) सर्वोऽहं विमुक्तोऽहम् ( २२) योऽसौ सोहं हंसस्सोहमस्मि ।

इत्येवं सर्वत्र सदा ध्यायेदिति ।

अथ महावाक्यानामर्थमाह ।

प्रज्ञानं ब्रह्मवाक्यार्थः पूर्वमेव प्रबोधितः ।

अहंपदस्यार्थभूतः शक्त्यात्मा परमेश्वरः

॥१॥

अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ।

हकारो व्योमरूपः स्याच्छक्त्यात्मा संप्रकीर्तितः

॥२॥

शिवशक्त्योस्तु संयोगादानन्दः सततोदितः ।

ब्रह्मेति शिवशक्त्योस्तु सर्वात्मत्वमिति स्फुटम्

॥३॥

पूर्वमेवोपदिष्टं तत्सोहमस्मीति भावयेत् ।

तत्त्वमित्यत्र तदिति सशब्दार्थः प्रबोधितः

॥४॥

अन्यथा सोऽहमित्यत्र विपरीतार्थभावना ।

अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम् ।

एवमन्योन्यवैरुध्यादन्वयो नभवेत्तयोः

॥५॥

स्त्रीपुंरूपस्य जगतः कारणं चान्यथा भवेत् ।

स तत्त्वमसि इत्येवमुपदेशार्थभावना

॥६॥

अयमात्मेति वाक्ये च पुंरूपं पदयुग्मकम् ।

ईशेन रक्षणीयत्वादीशावस्यमिदं जगत्

॥७॥

प्रज्ञानात्मा यदेवेह तदमुत्रेति चिन्तयेत् ।

यः स एवेति विद्वद्भिस्सिद्धान्तिभिरिहोच्यते

॥८॥

उपरिस्थितवाक्ये च योऽमुत्र स इह स्थितः ।

इति पूर्ववदेवार्थः पुरुषो विदुषां मतः

॥९॥

अन्यदेव तद्विदितादथो ।

अविदितादपि ।

अस्मिन्वाक्ये फलस्यापि वैपरीत्यविभावना

॥१०॥

यथास्यात्तद्वदेवात्र वक्ष्यामि श्रूयतां मुने ।

अयथाविदिताछब्दो पूर्ववद्विदितादिति

॥११॥

प्रवृत्तिस्स्यात्तद्विदितात्तथैवाविदितात्परम् ।

अन्यदेव हि संसिद्ध्यै न भवेदिति निश्चितम्

॥१२॥

एष त आत्मांतर्यामी योऽमृतश्च शिवस्स्वयम् ।

यश्चायम्पुरुषे शंभुर्यश्चादित्ये व्यवस्थितः

॥१३॥

स चाऽसौ सेति पार्थक्यं नैकं सर्वं स ईरितः ।

सोपाधिद्वयमस्यार्थ उपचारात्तथोच्यते

॥१४॥

तं शम्भुनाथं श्रुतयो वदन्ति हि हिरण्मयम् ।

हिरण्य बाहव इति सर्वांगस्यो पलक्षलम्

॥१५॥

अन्यथा तत्पतित्वं तु न भवेदिति यत्नतः ।

य एषोन्तरिति शंभुश्छान्दोग्ये श्रूयते शिवः

॥१६॥

हिरण्यश्मश्रुवांस्तद्वद्धिरण्यमयकेशवान् ।

नखमारभ्य केशाग्रा सर्वत्रापि हिरण्मयः

॥१७॥

अहमस्मि परं ब्रह्म परापरपरात्परम् ।

इति वाक्यस्य तात्पर्यं वदामि श्रूयतामिदम्

॥१८॥

अहंपदस्यार्थभूतः शक्त्यात्मा शिवईरितः ।

स एवास्मीति वाक्यार्थ योजना भवति ध्रुवम्

॥१९॥

सर्वोत्कृष्टश्च सर्वात्मा परब्रह्म स ईरितः ।

परश्चाथापरश्चेति परात्परमिति त्रिधा

॥२०॥

रुद्रो ब्रह्मा च विष्णुश्च प्रोक्ताः श्रुत्यैव नान्यथा ।

तेभ्यश्च परमो देवः परशब्देन बोधितः

॥२१॥

वेदशास्त्र गुरूणां च वाक्याभ्या सवशाच्छिशोः ।

पूर्णानन्दमयश्शंभुः प्रादुर्भूतो भवेद्धृदि

॥२२॥

सर्वभूतस्थितश्शम्भुस्स एवाहं न संशयः ।

तत्त्वजातस्य सर्वस्य प्राणोस्म्यहमहं शिवः

॥२३॥

इत्युक्त्वा पुनरप्याह शिवस्तत्त्वत्रयस्य च ।

प्राणोस्मीत्यत्र पृथ्व्यादिगुणान्तग्रहणान्मुने

॥२४॥

आत्मतत्त्वानि सर्वाणि गृहीतानीति भावय ।

पुनश्च सर्वग्रहणं विद्यातत्त्वशिवात्मनोः

॥२५॥

तत्त्वयोश्चास्म्यहं प्राणास्सर्वस्स्सर्वात्मको ह्यहम् ।

जीवस्य चान्तर्यामित्वाज्जीवोऽहं तस्य सर्वदा

॥२६॥

यद्भूतं यच्च भव्यं यद्भविप्यत्सर्वमेव च ।

मन्मयत्वादहं सर्वः सर्वो वै रुद्र इत्यपि

॥२७॥

श्रुतिराह मुने सा हि साक्षाच्छिवमुखोद्गता ।

सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात्

॥२८॥

स्वस्मात्परात्मविरहादद्वितीयोऽहमेव हि ।

सर्वं खल्विदं ब्रह्मेति वाक्यार्थः पूर्व्वमीरितः

॥२९॥

पूर्णोऽहं भावरूपत्वान्नित्यमुक्तोऽहमेव हि ।

पशवो मत्प्रसादेन मुक्ता मद्भावमाश्रिताः

॥३०॥

योऽसौ सर्वात्मकश्शम्भुस्सोऽहं स शिवोऽस्म्यहम् ।

इति वै सर्ववाक्यार्थो वामदेव शिवोदितः

॥३१॥

इतीशश्रुतिवाक्याभ्यामुपदिष्टार्थमादरात् ।

साक्षाच्छिवैक्यदं पुंसां शिशोगुरुरुपादिशेत्

॥३२॥

आदाय शंखं साधारमस्त्रमन्त्रेण भस्मना ।

शोध्य तत्पुरतस्स्थाप्य चतुरस्रे समर्चिते

॥३३॥

ओमित्यभ्यर्च्य गन्धाद्यैरस्त्रं वस्त्रोपशोभितम् ।

वासितं जलमापूर्य सम्पूज्योमिति मन्त्रतः

॥३४॥

सप्तधैवाभिमंत्र्याथ प्रणवेन पुनश्च तम् ।

यस्त्वन्तरं किंचिदस्ति कुरुते त्यतिभीतिभाक्

॥३५॥

इत्याह श्रुतिसत्तत्त्वं दृढात्मा गतभीर्भव ।

इत्याभाष्य स्वयं शिष्यं देवं ध्यायन्समर्चयेत्

॥३६॥

शिष्यासनं सम्प्रपूज्य षडुत्थापनमार्गतः ।

शिवासनं च संकल्प्य शिवमूर्तिं प्रकल्पयेत्

॥३७॥

पञ्च ब्रह्माणि विन्यस्य शिरः पादावसानकम् ।

मुण्डवत्क्रकलाभेदैः प्रणवस्य कला अपि

॥३८॥

अष्टत्रिंशन्मंत्ररूपा श्शिष्यदेहेऽथ मस्तके ।

समावाह्य शिवं मुद्राः स्थापनीयाः प्रदर्शयेत्

॥३९॥

ततश्चाङ्गानि विन्यस्य सर्वज्ञानीत्यनुक्रमात् ।

कल्पयेदुपचारांश्च षोडशासनपूर्वकान्

॥४०॥

पायसान्नञ्च नैवेद्यं समर्प्यो मग्निजायया ।

गण्डूषाचमनार्घ्यादि धूपदीपादिकं क्रमात्

॥४१॥

नामाष्टकेन सम्पूज्य ब्राह्मणैर्वेदपारगैः ।

जपेद्ब्रह्मविदाप्नोति भृगुर्वै वारुणिस्ततः

॥४२॥

यो देवानामुपक्रम्यः यः परः स महेश्वरः ।

इत्यंतं तस्य पुरतः कह्लारादिविर्निताम्

॥४३॥

आदाय मालामुत्थाय श्रीविरूपाक्ष निर्मिते ।

शास्त्रे पंचाशिके रूपे सिद्धिस्कन्धं जपेच्छनैः

॥४४॥

ख्यातिः पूर्णोहमित्यंतं सानुकूलेन चेतसा ।

देशिकस्तस्य शिष्यस्य कण्ठदेशे समर्पयेत्

॥४५॥

तिलकं वन्दनेनाथ सर्वाङ्गालेपनं पुनः ।

स्वसम्प्रदायानुगुणं कारयेच्च यथाविधि

॥४६॥

ततश्च देशिकः प्रीत्या नामश्रीपादसंज्ञितम् ।

छत्रञ्च पादुकां दद्याद्दूर्वाकल्पविकल्पनम् ।

व्याख्यातत्वञ्च कर्म्मादिगुर्वासनपरिग्रहम् ।

अनुगृह्य गुरुस्तस्मै शिष्याय शिवरूपिणे

॥४८॥

शिवोहमस्मीति सदा समाधिस्थो भवेति तम् ।

सम्प्रोच्याथ स्वयं तस्मै नमस्कारं समाचरेत्

॥४९॥

सम्प्रदायानुगुण्येन नमस्कुर्युस्तथापरे ।

शिष्यस्तदा समुत्थाय नमस्कुर्याद्गुरुन्तथा ।

गुरोरपि गुरुं तस्य शिष्यांश्च स्वगुरोरपि

॥५०॥

एवं कृतनमस्कारं शिष्यन्दद्याद्गुरुः स्वयम् ।

सुशीलं यतवाचं तं विनयावनतं स्थितम्

॥५१॥

अद्यप्रभृति लोकानामनुग्रहपरो भव ।

परीक्ष्य वत्सरं शिष्यमंगीकुरु विधानतः

॥५२॥

रागादिदोषान्संत्यज्य शिवध्यानपरो भव ।

सत्सम्प्रदायसंसिद्धैस्संगं कुरु न चेतरैः

॥५३॥

अनभ्यर्च्य शिवं जातुमा भुंक्ष्वाप्राण संक्षयम् ।

गुरुभक्तिं समास्थाय सुखी भव सुखी भव

॥५४॥

इति क्रमाद्गुरुवरो दयालुर्ज्ञानसागरः ।

सानुकूलेन चित्तेन समं शिष्यं समाचरेत्

॥५५॥

तव स्नेहान्मयायं वै वामदेव मुनीश्वर ।

योगपट्टप्रकारस्ते प्रोक्तो गुह्यतरोऽपि हि

॥५६॥

इत्युक्त्वा षण्मुखस्तस्मै क्षौरस्नानविधिक्रमम् ।

वक्तुमारभत प्रीत्या यतीनां कृपया शुभम्

॥५७॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां योगपट्टविधिवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥