अत्रास्ति च महादेवि खल्वावरणपंचकम्
ईश्वर उवाच
अत्रास्ति च महादेवि खल्वावरणपंचकम् ।
पंचावरणपूजान्तु प्रारभेत यथाक्रमम्
॥१॥प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ।
गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ
॥२॥पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ।
ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा
॥३॥पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ।
आग्नेये च तथैशाने नैर्ऋते वायुदेशके
॥४॥मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ।
प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु
॥५॥अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ।
शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे
॥६॥एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ।
श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत्
॥७॥द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ।
पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत्
॥८॥तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ।
भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत्
॥९॥तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ।
पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम्
॥१०॥उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ।
नामाष्टकविधानेन पूजयेदुच्यते हि तत्
॥११॥भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ।
उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम्
॥१२॥यो वेदादौ स्वर इति समावाह्य महेश्वरम् ।
पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि
॥१३॥ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ।
सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत्
॥१४॥दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ।
आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च
॥१५॥शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ।
भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम्
॥१६॥उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ।
प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च
॥१७॥वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ।
सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत्
॥१८॥ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ।
हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित्
॥१९॥हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ।
उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत्
॥२०॥सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः ।
तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात्
॥२१॥रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ।
षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात्
॥२२॥बीजानि लोकपालानामेतैरेतान्समर्चयेत् ।
नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे
॥२३॥ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ।
बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत्
॥२४॥श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ।
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत्
॥२५॥नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ।
अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत्
॥२६॥पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।
यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च
॥२७॥कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ।
सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा
॥२८॥इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ।
पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्
॥२९॥एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः ।
उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम्
॥३०॥पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ।
ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः
॥३१॥नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ।
ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत्
॥३२॥तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः ।
जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात्
॥३३॥यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ।
पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत्
॥३४॥साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ।
पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा
॥३५॥स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ।
साधु वासाधु वा कर्म यद्यदाचरितं मया
॥३६॥तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ।
इति शंखोदकेनैव सपुष्पेण समर्पयेत्
॥३७॥पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ।
तदेव शृणु देवेशि संब्रुवे तव भक्तितः
॥३८॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥