मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय २

3
कैलाससंहिता · 2

देवीकृतप्रश्नवर्णनम्

व्यास उवाच

साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ।

दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम्

॥१॥

येषां प्रसन्नो भगवान्साक्षाच्छूलवरायुधः ।

तेषामेव शिवज्ञानं प्रणवार्थप्रकाशकम

॥२॥

जायते न हि सन्देहो नेतरेषामिति श्रुतिः ।

शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः

॥३॥

दीर्घसत्रेण युष्माभिर्भगवानम्बिकापतिः ।

उपासित इतीदं मे दृष्टमद्य विनिश्चितम्

॥४॥

तस्माद्वक्ष्यामि युष्माकमितिहासम्पुरातनम् ।

उमामहेशसम्वादरूपमद्भुतमास्तिकाः

॥५॥

पुराखिलजगन्माता सती दाक्षायणी तनुम् ।

शिवनिन्दाप्रसङ्गेन त्यक्त्वा च जनकाध्वरे

॥६॥

ततः प्रभावात्सा देवी सुताऽभूद्धिमवद्गिरेः ।

शिवार्थमतपत्सा वै नारदस्योपदेशतः

॥७॥

तस्मिन्भूधरवर्य्ये तु स्वयंवरविधानतः ।

देवेशे च कृतोद्वाहे पार्वती सुखमाप सा

॥८॥

तथैकस्मिन्महादेवी समये पतिना सह ।

सूपविष्टा महाशैले गौरी देवमभाषत

॥९॥

महादेव्युवाच

भगवन्परमेशान पञ्चकृत्यविधायक ।

सर्वज्ञ भक्तिसुलभ परमामृतविग्रह

॥१०॥

दाक्षायणीन्तनुं त्यक्त्वा तव निन्दाप्रसंगतः ।

आसमद्य महेशान पुत्री हिमवतो गिरेः ।

कृपया परमेशान मंत्रदीक्षाविधानतः ।

मां विशुद्धात्मतत्त्वस्थां कुरु नित्यं महेश्वर

॥१२॥

इति सम्प्रार्थितो देव्या देवः शीतांशु भूषणः ।

प्रत्युवाच ततो देवीं प्रहृष्टेनान्तरात्मना

॥१३॥

महादेव उवाच

धन्या त्वं देवदेवशि यदि जातेदृशी मतिः ।

कैलास शिखरं गत्वा करिष्ये त्वां च तादृशीम्

॥१४॥

ततो हिमवतो गत्वा कैलासम्भूधरेश्वरम् ।

जगौ दीक्षाविधानेन प्रणवादीन्मनून् क्रमात्

॥१५॥

उक्त्वा मंत्रांश्च तान्देवीं कृत्वा शुद्धात्मनि स्थिताम् ।

सार्द्धं देव्या महादेवो देवोद्यानं गतोऽभवत्

॥१६॥

ततः सुमालिनीमुख्यैर्दैव्याः प्रियसखीजनैः ।

समाहृतैः प्रफुल्लैस्तैः पुष्पैः कल्पतरूद्भवैः

॥१७॥

अलंकृत्य महादेवीं स्वांकमारोप्य शंकरः ।

प्रहृष्टवदनस्तस्थौ विलोक्य च तदाननम्

॥१८॥

ततः प्रियकथा जाताः पार्वतीपरमेशयोः ।

हिताय सर्वलोकानां साक्षाच्छ्रुत्यर्थं सम्मिता

॥१९॥

तदा सर्वजगन्माता भर्तुरंकं समाश्रिता ।

विलोक्य वदनं भर्तुरिदमाहः तपोधनाः

॥२०॥

श्रीदेव्युवाच

उपदिष्टास्त्वया देव मंत्रास्सप्रणवा मताः ।

तत्रादौ श्रोतुमिच्छामि प्रणवार्थं विनिश्चितम्

॥२१॥

कथम्प्रणव उत्पन्नः कथं प्रणव उच्यते ।

मात्राः कति समाख्याताः कथं वेदादिरुच्यते

॥२२॥

देवताः कति च प्रोक्ताः कथं वेदादिभावना ।

क्रियाः कतिविधाः प्रोक्ता व्याप्यव्यापकता कथम्

॥२३॥

ब्रह्माणि पंच मंत्रेऽस्मिन्कथं तिष्ठंत्यनुक्रमात् ।

कलाः कति समाख्याताः प्रपंचात्मकता कथम्

॥२४॥

वाच्यवाचकसम्बन्धस्थानानि च कथं शिव ।

कोऽत्राधिकारी विज्ञेयो विषयः क उदाहृतः

॥२५॥

सम्बन्धः कोत्र विज्ञेयः किंप्रयोजनमुच्यते ।

उपासकस्तु किंरूपः किं वा स्थानमुपासनम्

॥२६॥

उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ।

अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो

॥२७॥

पूजायां मण्डलं किं वा किं वा ऋष्यादिकं हर ।

न्यासजातविधिः को वा को वा पूजाविधिक्रमः

॥२८॥

एतत्सर्वं महेशान समाचक्ष्व विशेषतः ।

श्रोतुमिच्छामि तत्त्वेन यद्यस्ति मयि ते कृपा

॥२९॥

इति देव्या समापृष्टो भगवानिन्दुभूषणः ।

सम्प्रशस्य महेशानीं वक्तुं समुपचक्रमे

॥३०॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलास संहितायां देवीदेवसंवादे देवीकृतप्रश्नवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥