सूतोपदेशः
व्यास उवाच
गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ।
यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः
॥१॥कदानुभूयान्मुनिवर्यदर्शनम्भावाब्धिदुःखौघहरम्परं हि तत् ।
महेश्वराराधनपुण्यतोऽधुना मुनीश्वरस्सत्वरमाविरस्तु नः
॥२॥इति चिन्तासमाविष्टा मुनयो मुनिपुंगवम् ।
व्यासं संपूज्य हृत्पद्मे तस्थुस्तद्दशर्नोत्सुकाः
॥३॥सम्वत्सरान्ते स पुनः काशीम्प्राप महामुनिः ।
शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः
॥४॥तन्दृष्ट्वा सूतमायान्तम्मुनयो हृष्टचेतसः ।
अभ्युत्थानासनार्घ्यादिपूजया समपूजयन्
॥५॥सोपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ।
प्रीत्या स्नात्वा जाह्नवीये जले परमपावने
॥६॥ऋषीन्संतर्प्य च सुरान्पितॄंश्च तिलतण्डुलैः ।
तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च
॥७॥द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ।
उद्धूलनादिक्रमतो विधार्य्याऽथ मुनीश्वरः
॥८॥रुद्राक्षमालाभरणः कृतनित्यक्रियस्सुधी ।
यथोक्तांगेषु विधिना त्रिपुण्ड्रं रचति स्म ह
॥९॥विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ।
पूजयामास सद्भक्त्या ह्यस्तौ न्नत्वा मुहुर्मुहुः
॥१०॥कालभैरवनाथं च संपूज्याथ विधानतः ।
प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा
॥११॥पुनः प्रदक्षिणी कृत्य प्रणम्य भुवि दण्डवत् ।
तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम्
॥१२॥श्रीमत्पंचाक्षरीम्विद्यामष्टोत्तरसहस्रकम् ।
संजप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम्
॥१३॥चण्डेशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ।
निर्द्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः
॥१४॥एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ।
अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच
॥१५॥सूत कृतः ।
धन्या यूयं महाप्राज्ञा मुनयश्शंसितव्रताः ।
भवदर्थमिह प्राप्तोऽहन्तद्वृत्तमिदं शृणु
॥१६॥यदाहमुपदिश्याथ भवतः प्रणवार्थकम् ।
गतस्तीर्थाटनार्थाय तद्वृत्तान्तम्ब्रवीमि वः
॥१७॥इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ।
स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ।
पुनरागत्य विप्रेन्द्रास्सुवर्णमुखरीतटम्
॥१८॥श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ।
सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि
॥१९॥सन्तर्प्य विधिवद्भक्त्या समुदं गिरिशं स्मरन् ।
समर्च्य कालहस्तीशं चन्द्रकांतसमप्रभम्
॥२०॥पश्चिमाभिमुखम्पंचशिरसम्परमाद्भुतम् ।
सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम्
॥२१॥सर्वसिद्धिप्रदम्भुक्तिमुक्तिदन्त्रिगुणेश्वरम् ।
ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम्
॥२२॥ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ।
श्रीमत्पंचाक्षरीं विद्यामष्टोत्तरसहस्रकम्
॥२३॥जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः
॥२४॥ततः प्रदक्षिणीकृत्य गिरिम्प्रत्यहमादरात् ।
आमोदतीव मनसि प्रत्यहन्नियमास्थितः
॥२५॥अनयञ्चतुरो मासानेवन्तत्र मुनीश्वराः ।
ज्ञानप्रसूनकलिका महादेव्याः प्रसादतः
॥२६॥एकदा तु समास्तीर्य चैलाजिनकुशोत्तरम् ।
आसनम्परमन्तस्मिन्स्थित्वा रुद्धेन्द्रियो मुनि
॥२७॥समाधिमास्थाय सदा परमानंदचिद्धनः ।
परिपूर्णश्शिवोस्मीति निर्व्यग्रहृदयोऽभवम्
॥२८॥एतस्मिन्नेव समये सद्गुरुः करुणानिधिः ।
नीलजीमूतसङ्काशो विद्युत्पिङ्गजटाधरः
॥२९॥प्रांशुः कमण्डलूद्दण्डकृष्णाजिनधरस्स्वयम् ।
भस्मावदातसर्वाङ्गस्सर्वलक्षणलक्षितः
॥३०॥त्रिपुण्ड्रविलसद्भालो रुद्राक्षालङ्कृताकृतिः ।
पद्मपत्रारुणायामविस्तीर्णनयनद्वयः
॥३१॥प्रादुर्भूय हृदम्भोजे तदानीमेव सत्वरम् ।
विमोहितस्तदैवासमेतदद्भुतमास्तिकाः
॥३२॥तत उन्मील्य नयने विलापं कृतवानहम् ।
आसीन्ममाश्रुपातश्च गिरिनिर्झरसन्निभः
॥३३॥एतस्मिन्नेव समये श्रुता वागशरीरिणी ।
व्योम्नो महाद्भुता विप्रास्तामेव शृणुतादरात्
॥३४॥सूतपुत्र महाभाग गच्छ वाराणसीम्पुरीम् ।
तत्रासन्मुनयः पूर्वमुपदिष्टास्त्वयाऽधुना
॥३५॥त्वदुपागमकल्याणं कांक्षंते विवशा भृशम् ।
तिष्ठन्ति ते निराहारा इत्युक्त्वा विरराम सा
॥३६॥तत उत्थाय तरसा देवन्देवीञ्च भक्तितः ।
प्रदक्षिणीकृत्य पुनः प्रणम्य भुवि दण्डवत्
॥३७॥द्विषड्वारं गुरोराज्ञां विज्ञाय शिवयोरथ ।
क्षेत्रान्निर्गत्य तरसा चत्वारिंशद्दिनान्तरे
॥३८॥आगतोऽस्मि मुनिश्रेष्ठा अनुगृह्णन्तु मामिह ।
मया किमद्य वक्तव्यं भवन्तस्तद्ब्रुवन्तु मे
॥३९॥इति सूतवचश्श्रुत्वा ऋषयो हृष्टमानसाः ।
अवोचन्मुनिशार्दूलं व्यासन्नत्वा मुहुर्मुहुः
॥४०॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां सूतोपदेशो नाम दशमोऽध्यायः ॥ १० ॥