मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय ६

3
कैलाससंहिता · 6

न्यासवर्णनम्

ईश्वर उवाच

दक्षिणे मंडलस्याथ वैयाघ्रं चर्मशोभनम् ।

आस्तीर्य्य शुद्धतोयेन प्रोक्षयेदस्त्रमंत्रतः

॥१॥

प्रणवं पूर्वमुद्धृत्य पश्चादाधार मुद्धरेत् ।

तत्पश्चाच्छक्तिकमलं चतुर्थ्यंतं नमोन्तकम्

॥२॥

मनुमेवं समुच्चार्य स्थित्वा तस्मिन्नुदङ्मुखः ।

प्राणानायम्य विधिवत्प्र णवोच्चारपूर्वकम्

॥३॥

अग्निरित्यादिभिर्मंत्रैर्भस्म संधारयेत्ततः ।

शिरसि श्रीगुरुं नत्वा मण्डलं रचयेत्पुनः

॥४॥

त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ।

अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत्

॥५॥

आपूर्य शुद्धतोयेन प्रणवेन सुगंधिना ।

अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेन च सप्तधा

॥६॥

अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत ।

शंखमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः

॥७॥

आत्मानं गंधपुष्पादिपूजोपकरणानि च ।

प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत्

॥८॥

अस्य श्रीसौरमंत्रस्य देवभाग ऋषिस्ततः ।

छन्दो गायत्रमित्युक्तं देवस्सूर्यो महेश्वरः

॥९॥

देवता स्यात्षडंगानि ह्रामित्यादीनि विन्यसेत् ।

ततस्संप्रोक्षयेत्पद्ममस्त्रेणाग्नेरगोचरम्

॥१०॥

तस्मिन्समर्चयेद्विद्वान् प्रभूतां विमलामपि ।

सारां चाथ समाराध्य पूर्वादिपरतः क्रमात्

॥११॥

अथ कालाग्निरुद्रं च शक्तिमाधारसंज्ञिताम् ।

अनन्तं पृथिवीं चैव रत्नद्वीपं तथैव च

॥१२॥

संकल्पवृक्षोद्यानं च गृहं मणिमयं ततः ।

रक्तपीठं च संपूज्य पादेषु प्रागुपक्रमात्

॥१३॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ।

अधर्माद्यग्निकोणादिकोणेषु च समर्चयेत्

॥१४॥

मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ।

सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम्

॥१५॥

पूर्वादिदिक्षु मध्ये च दीप्तां सूक्ष्मां जयामपि ।

भद्रां विभूति विमलाममोघां वैद्युतामपि

॥१६॥

सर्वतोमुखसंज्ञां च कन्दनालं तथैव च ।

सुषिरं च ततस्तं तु कंटकांस्तदनंतरम्

॥१७॥

मूलच्छदनकिंजल्कप्रकाशसकलात्मनः ।

पंचग्रंथिकर्णिकां च दलानि तदनंतरम्

॥१८॥

केशरान्ब्रह्मविष्णू च रुद्रमात्मानमेव च ।

अन्तरात्मानमपि च ज्ञानात्मपरमात्मनि

॥१९॥

सम्पूज्य पश्चात्सौराख्यं योगपीठं समर्चयेत् ।

पीठोपरि समाकल्प्य मूर्त्तिं मूलेन मूलवित्

॥२०॥

निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ।

शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिंगलाध्वना

॥२१॥

पुष्पांजलौ निर्गमय्य मण्डलस्थस्य भास्वतः ।

सिन्दूरारुणदेहस्य वामार्द्धदयितस्य च

॥२२॥

अक्षस्रक्पाशखट्वांगकपालांकुशपंकजम् ।

शंखं चक्रं दधानस्य चतुर्वक्त्रस्य लोचनैः

॥२३॥

राजितस्य द्वादशभिस्तस्य हृत्पंकजोदरे ।

प्रणवं पूर्वमुद्धृत्य ह्रांह्रींसस्तदनन्तरम्

॥२४॥

प्रकाशशक्तिसहितं मार्तण्डं च ततः परम् ।

आवाहयामि नम इत्यावाह्या वाहनाख्यया

॥२५॥

मुद्रया स्थापनाद्याश्च मुद्रास्संदर्शयेत्ततः ।

विन्यस्यांगानि ह्रां ह्रीं ह्रूमंतेन मनुना ततः

॥२६॥

पंचोपचारान्संकल्प्य मूलेनाभ्यर्चयेत्त्रिधा ।

केशरेषु च पद्मस्य षडंगानि महेश्वरि

॥२७॥

वह्नीशरक्षोवायूनां परितः क्रमतः सुधीः ।

द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात्

॥२८॥

पूर्वाद्युत्तरपर्यंतं दलमूलेषु पार्वति ।

आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः

॥२९॥

अर्को ब्रह्मा तथा रुद्रो विष्णुश्चेति पुनः प्रिये ।

ईशानादिषु संपूज्यास्तृतीयावरणे पुनः

॥३०॥

सोमं कुजं बुधं जीवं कविं मंदं तम स्तमः ।

समंततो यजेदेतान्पूर्वादिदलमध्यतः

॥३१॥

अथवा द्वादशादित्यान्द्वितीयावरणे यजेत ।

तृतीयावरणे चैव राशीर्द्वादश पूजयेत्

॥३२॥

सप्तसागरगंगाश्च बहिरस्य समंततः ।

ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान्

॥३३॥

ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ।

सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत्

॥३४॥

एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ।

विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः

॥३५॥

स्थाप्य साधारकं ताम्रपात्रं प्रस्थोदविस्तृतम् ।

पूरयित्वा जलैः शुद्धैर्वासितैः कुसुमादिभिः

॥३६॥

अभ्यर्च्य गंधपुष्पाद्यैर्जानुभ्यामवनीं गतः ।

अर्घ्यपात्रं समादाय भूमध्यान्तं समुद्धरेत्

॥३७॥

ततो ब्रूयादिमं मंत्रं सावित्रं सर्वसिद्धिदम् ।

शृणु तच्च महादेवि भक्तिमुक्तिप्रदं सदा

॥३८॥

सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ।

पद्माभनेत्राय सुपंकजाय ब्रह्मेन्द्रनारायणकारणाय

॥३९॥

सरक्तचूर्णं ससुवर्णतोयं स्रक्कुंकुमाढ्यं सकुशं सपुष्पम् ।

प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद

॥४०॥

एवमुक्त्वा ततो दत्त्वा तदर्थं सूर्यमूर्त्तये ।

नमस्कुर्यादिमं मंत्रं पठित्वा सुसमाहितः

॥४१॥

नमश्शिवाय साम्बाय सगणायादिहेतवे ।

रुद्राय विष्णवे तुभ्यं ब्रह्मणे च त्रिमूर्तये

॥४२॥

एवमुक्त्वा नमस्कृत्य स्वासने समवस्थितः ।

ऋष्यादिकं पुनः कृत्वा करं संशोध्य वारिणा

॥४३॥

पुनश्च भस्म संधार्य पूर्वोक्तेनैव वर्त्मना ।

न्यासजातम्प्रकुर्वीत शिवभावविवृद्ध्धये

॥४४॥

पंचोपचारैस्संपूज्य शिरसा श्रीगुरुम्बुधः ।

प्रणवं श्रीचतुर्थ्यंतं नमोंतं प्रणमेत्ततः

॥४५॥

पंचात्मकं बिन्दुयुतं पंचमस्वरसंयुतम् ।

तदेव बिन्दुसहितं पंचमस्वरवर्जितम्

॥४६॥

पंचमस्वरसंयुक्तं मंत्रीशं च सबिन्दुकम् ।

उद्धृत्य बिन्दुसहितं संवर्तकमथोद्धरेत्

॥४७॥

एतैरेव क्रमाद्बीजैरुद्धृतैः प्रणमेद्बुधः ।

भुजयोरूरुयुग्मे च गुरुं गणपतिन्तथा

॥४८॥

दुर्गां च क्षेत्रपालं च बद्धांजलिपुटः स्थितः ।

ओमस्त्राय फडित्युक्त्वा करौ संशोध्य षट् क्रमात्

॥४९॥

अपसर्प्पन्त्विति प्रोच्य प्रणवं तदनंतरम् ।

अस्त्राय फडिति प्रोच्य पार्ष्णिघातत्रयेण तु

॥५०॥

उद्धृत्य विघ्नान्भूयिष्ठान्कर तालत्रयेण तु ।

अन्तरिक्षगता न्दृष्ट्वा विलोक्य दिवि संस्थितान्

॥५१॥

निरुद्धप्राण आसीनो हंसमंत्रमनुस्मरन् ।

हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत्

॥५२॥

द्वादशांतस्स्थविशदे सहस्रारमहाम्बुजे ।

चिच्चन्द्रमण्डलान्तस्थं चिद्रूपं परमेश्वरम्

॥५३॥

शोषदाहप्लवान्कुर्याद्रेचकादि क्रमेण तु ।

सषोडशचतुष्षष्टिद्वात्रिंशद्गणनायुतैः

॥५४॥

वाय्वग्निसलिलाद्यैस्तैस्स्तवेदाद्यैरनुक्रमात् ।

प्राणानायम्य मूलस्थां कुण्डलीं ब्रह्मरंध्रगाम्

॥५५॥

आनीय द्वादशांतस्थसहस्राराम्बुजोदरे ।

चिच्चन्द्रमण्डलोद्भूतपरमामृतधारया

॥५६॥

संसिक्तायां तनौ भूयश्शुद्धदेहस्सुभावनः ।

सोहमित्यवतीर्याथ स्वात्मानं हृदयाम्बुजे

॥५७॥

आत्मन्यावेश्य चात्मानममृतं सृतिधारया ।

प्राणप्रतिष्ठां विधिवत्कुर्यादत्र समाहितः

॥५८॥

एकाग्रमानसो योगी विमृश्यात्तां च मातृकाम् ।

पुटितां प्रणवेनाथ न्यसेद्बाह्ये च मातृकाम्

॥५९॥

पुनश्च संयतप्राणः कुर्याद्दृष्ट्यादिकं बुधः ।

शंकरं संस्मरंश्चित्ते संन्यसेच्च विमत्सरः

॥६०॥

प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ।

छन्दोत्र देवताहं वै परमात्मा सदाशिवः

॥६१॥

अकारो बीजमाख्यातमुकारः शक्तिरुच्यते ।

मकारः कीलकं प्रोक्तं मोक्षार्थे विनियुज्यते

॥६२॥

अंगुष्ठद्वयमारभ्य तलांतं परिमार्जयेत् ।

ओमित्युक्त्वाथ देवेशि करन्यासं समारभेत्

॥६३॥

दक्षहस्तस्थितांगुष्ठं समारभ्य यथाक्रमम् ।

वामहस्तकनिष्ठांतं विन्यसेत्पूर्ववत्क्रमात्

॥६४॥

अकारमप्युकारं च मकारं बिन्दुसंयुतम् ।

नमोन्तं प्रोच्य सर्वत्र हृदयादौ न्यसेदथ

॥६५॥

अकारं पूर्वमुद्धृत्य ब्रह्मात्मानमथाचरेत् ।

ङेंतं नमोंतं हृदये विनियुज्यात्तथा पुनः

॥६६॥

उकारं विष्णुसहितं शिरोदेशे प्रविन्यसेत् ।

मकारं रुद्रसहितं शिखायान्तु प्रविन्यसेत्

॥६७॥

एवमुक्त्वा मुनिर्मंत्री कवचं नेत्रमस्तके ।

विन्यसेद्देवदेवेशि सावधानेन चेतसा

॥६८॥

अंगवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत् ।

शिरोवदनहृदगुह्यपादेष्वेतानि विन्यसेत्

॥६९॥

ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ।

ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि

॥७०॥

चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ।

हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि

॥७१॥

अघोरस्य कलाश्चाष्टौ पूजनीया यथाक्रमम् ।

पश्चात्त्रयोदशकलाः पायुमेढ्रोरुजानुषु

॥७२॥

जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ।

सद्यस्यापि कला चाष्टौ नेत्रेषु च यथाक्रमम्

॥७३॥

कीर्तितास्ताः कलाश्चैव पादयोरपि हस्तयोः ।

प्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः

॥७४॥

अष्टत्रिंशत्कलान्यासमेवं कृत्वा तु सर्वशः ।

पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ।

बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ।

पार्श्वतोदरजंघेषु पादयोः पृष्ठतस्तथा

॥७६॥

इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ।

हंसन्यासं प्रकुर्वीत परमात्मविबोधिनि

॥७७॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ न्यासवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥