मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १६

3
कैलाससंहिता · 16

शिवतत्त्ववर्णनम्

सूत उवाच

श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ।

परमात्मनि संदिग्धं परिपप्रच्छ सादरम्

॥१॥

वामदेव उवाच

ज्ञानशक्तिधर स्वामिन्परमानन्दविग्रह ।

प्रणवार्थामृतं पीतं श्रीमुखख्जात्परिस्रुतम्

॥२॥

दृढप्रज्ञश्च जातोऽस्मि संदेहो विगतो मम ।

किंचिदन्यन्महासेन पृच्छामि त्वां शृणु प्रभो

॥३॥

सदाशिवादिकीटांतरूपस्य जगतः स्थितिः ।

स्त्रीपुंरूपेण सर्वत्र दृश्यते न हि संशयः

॥४॥

एवं रूपस्य जगतः कारणं यत्सनातनम् ।

स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम्

॥५॥

उत मिश्रं किमन्यद्वा न जातस्तत्र निर्णयः ।

बहुधा विवदन्तीह विद्वांसश्शास्त्रमोहिताः

॥६॥

जगत्सृष्टिविधायिन्यः श्रुतयो जगता सह ।

विष्णुब्रह्मादयो देवाः सिद्धाश्च न विदन्ति हि

॥७॥

यथैक्यभावं गच्छेयुरेतदन्यच्च वेदय ।

जानामीति करोमीति व्यवहारः प्रदृश्यते

॥८॥

स हि सर्वात्मसंसिद्धो विवादो नात्र कस्यचित् ।

सर्वदेहेन्द्रियमनोबुध्यहंकारसंभवः

॥९॥

आहोस्वि दात्मनोरूपं महानत्रापि संशयः ।

द्वयमेतद्धि सर्व्वेषां विवादास्पदमद्भुतम्

॥१०॥

उत्पाट्याज्ञानसंभूतं संशयाख्यं विषद्रुमम् ।

शिवाद्वैतमहाकल्पवृक्षभूमिर्यथाभवेत्

॥११॥

चित्तं मम यथा देव बोध्योऽस्मि कृपया तव ।

कृपातस्तव देवेश दृढज्ञानी भवा म्यहम्

॥१२॥

सूत उवाच

श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ।

रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः

॥१३॥

सुब्रह्मण्य उवाच

एतदेव मुने गुह्यं शिवेन परिभाषितम् ।

अम्बायाः शृण्वतो देव्या वामदेव ममापि हि

॥१४॥

तस्याः स्तन्यं तदा पीत्वा संतृप्तोऽस्मि मुहुर्मुहुः ।

श्रुतवान्निश्चलं तद्वै निश्चितं मे विचारितम्

॥१५॥

तत्ते वदामि दयया वामदेव महामुने ।

महद्गुह्यं च परमं सुत त्वं शृणु सांप्रतम्

॥१६॥

कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ।

यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने

॥१७॥

त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ।

कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः

॥१८॥

ते शप्ता मुनिभिः षड्भिश्शिवनिन्दा पराः पुरा ।

न श्रोतव्या हि तद्वार्त्ता तेऽन्यथावादिनो यतः

॥१९॥

अनुमानप्रयोगस्याप्यवकाशो न विद्यते ।

पंचावयवयुक्तस्य स तु धूमस्य दर्शनात्

॥२०॥

पर्व्वतस्याग्निमद्भावं वदंत्यत्रापि सुव्रत।

प्रत्यक्षस्य प्रपंचस्य दर्शनालंबनं त्वतः

॥२१॥

ज्ञातव्यः परमेशानः परमात्मा न संशयः ।

स्त्रीपुंरूपमयं विश्वं प्रत्यक्षेणैव दृश्यते

॥२२॥

षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ।

मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः

॥२३॥

एवं सर्वशरीरेषु स्त्रीपुंभावविदो जनाः ।

परमात्मन्यपि मुने स्त्रीपुंभावं विदुर्बुधा

॥२४॥

सच्चिदानदरूपत्वं वदति ब्रह्मणः श्रुतिः ।

असन्निवर्त्तकः शब्दः सदात्मेति निगद्यते

॥२५॥

निवर्त्तनं जगत्त्वस्य चिच्छब्देन विधीयते ।

त्रिलिंगवर्त्ती सच्छब्दः पुरुषोत्र विधीयताम्

॥२६॥

प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ।

ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः

॥२७॥

प्रकाशश्चिच्च मिथुनं जगत्कारणतां गतम् ।

सच्चिदात्मन्यपि तथा जगत्कारणतां गतम्

॥२८॥

एकत्रैव शिवश्शक्तिरिति भावो विधीयते ।

तैलवर्त्त्यादिमालिन्यात्प्रकाशस्यापि वर्त्तते

॥२९॥

मालिन्यमशिवत्वं च चिताग्न्यादिषु दृश्यते ।

एवं विवर्त्तकत्वेन शिवत्वं श्रुतिचोदितम्

॥३०॥

जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ।

तन्निवृत्यर्थमेवात्र शक्तित्वं सार्वकालिकम्

॥३१॥

बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ।

लोके वेदे च ससतं वामदेव महामुने

॥३२॥

एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ।

शिवशक्त्योस्तु संयोगादानंदस्सततोदितः

॥३३॥

अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ।

शिवे मनस्समाधाय प्राप्ताश्शिवमनामयम्

॥३४॥

सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ।

गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम्

॥३५॥

बृंहणत्वं बृहत्त्वं च शंभ्वाख्यविग्रहे ।

पंचब्रह्ममये विश्वप्रतीतिर्ब्रह्म शब्दिता

॥३६॥

प्रतिलोमात्मके हंसे वक्ष्यामि प्रणवोद्भवम् ।

तव स्नेहाद्वामदेव सावधानतया शृणु

॥३७॥

व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ।

ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः

॥३८॥

महामन्त्रस्स विज्ञेयो मुनिभिस्तत्त्वदर्शिभिः ।

तत्र सूक्ष्मो महामन्त्रस्तदुद्धारं वदामि ते

॥३९॥

आद्ये त्रिपंचरूपे च स्वरे षोडशके त्रिषु ।

महामन्त्रो भवेदादौ स सकारो भवेद्यदा

॥४०॥

हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ।

शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः

॥४१॥

गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ।

इति जीवपरो भूयान्महामन्त्रस्तदा पशुः

॥४२॥

शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ।

प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते

॥४३॥

प्रज्ञानशब्दश्चैतन्यपर्य्यायस्स्यान्न संशयः ।

चैतन्यमात्मेति मुने शिवसूत्रं प्रवर्त्तितम्

॥४४॥

चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ।

स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः

॥४५॥

इत्यादिशिवसूत्राणां वार्तिकं कथितं मया ।

ज्ञानं बंध इतीदं तु द्वितीयं सूत्रमीशितुः

॥४६॥

ज्ञानमित्यात्मनस्तस्य किंचिज्ज्ञानक्रियात्मकम् ।

इत्याहाद्यपदेनेशः पशुवर्गस्य लक्षणम्

॥४७॥

एतद्द्वयं पराशक्तेः प्रथमं स्पंदतां गतम् ।

एतामेव परां शक्तिं श्वेताश्वतरशाखिनः

॥४८॥

स्वाभाविकी ज्ञानबलक्रिया चेत्यस्तुवन्मुदा ।

ज्ञानक्रियेच्छारूपं हि शंभोर्दृष्टित्रयं विदुः

॥४९॥

एतन्मनोमध्यगं सदिन्द्रियज्ञानगोचरम् ।

अनुप्रविश्य जानाति करोति च पशुः सदा

॥५०॥

तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ।

प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम्

॥५१॥

ॐमितीदं सर्वमिति श्रुतिराह सनातनी ।

तस्माद्वेतीत्युपक्रम्य जगत्सृष्टिः प्रक्रीर्तिता

॥५२॥

तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ।

तव स्नेहाद्वामदेव विवेकार्थविजृंभितम्

॥५३॥

शिवशक्तिसमायोगः परमात्मेति निश्चितम् ।

पराशक्तेस्तु संजाता चिच्छक्तिस्तु तदुद्भवा

॥५४॥

आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ।

ज्ञानशक्तिस्ततो जाता क्रियाशक्तिस्तु पंचमी ।

एताभ्य एव संजाता निवृत्त्याद्याः कला मुने

॥५५॥

चिदानन्दसमुत्पन्नौ नादबिन्दू प्रकीर्त्तितौ ।

इच्छाशक्तेर्मकारस्तु ज्ञानशक्तेस्तु पंचमः

॥५६॥

स्वरः क्रियाशक्तिजातो ह्यकारस्तु मुनीश्वर ।

इत्युक्ता प्रणवोत्पत्तिः पंचब्रह्मोद्भवं शृणु ।

शिवादीशान उत्पन्नस्ततस्तत्पुरुषोद्भवः ।

ततोऽघोरस्ततो वामस्सद्योजातोद्भवस्ततः

॥५८॥

एतस्मान्मातृकादष्टत्रिंशन्मातृसमुद्भवः ।

ईशानाच्छान्त्यतीताख्या कला जाताथ पूरुषात् ।

उत्पद्यते शान्तिकला विद्याऽघोरसमुद्भवा

॥५९॥

प्रतिष्ठा च निवृत्तिश्च वाम सद्योद्भवे मते ।

ईशाच्चिच्छक्तिमुखतो विभोर्मिथुनपञ्चकम्

॥६०॥

अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ।

तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः

॥६१॥

वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ।

कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम्

॥६२॥

वियदादि क्रमादासीदुत्पन्नम्मुनिपुङ्गव ।

आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः

॥६३॥

शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत् ।

शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते

॥६४॥

शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम् ।

शब्द्स्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता

॥६५॥

व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ।

व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत्

॥६६॥

भूतपञ्चकरूपोऽयम्प्रपञ्चः परिकीर्त्यते ।

विराट् सर्वसमष्ट्यात्मा ब्रह्माण्डमिति च स्फुटम्

॥६७॥

पृथिवीतत्त्वमारभ्य शिवतत्त्वावधि क्रमात् ।

निलीय तत्त्वसंदोहे जीव एव विलीयते

॥६८॥

संशक्तिकः पुनस्सृष्टौ शक्तिद्वारा विनिर्गतः ।

स्थूलप्रपञ्चरूपेण तिष्ठत्याप्रलयं सुखम्

॥६९॥

निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः ।

प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते

॥७०॥

एषैवेच्छाशक्तितत्वं सर्वकृत्यानुवर्तनात् ।

ज्ञानक्रियाशक्तियुग्मे ज्ञानाधिक्ये सदाशिवः

॥७१॥

महेश्वरं क्रियोद्रेके तत्त्वं विद्धि मुनीश्वर ।

ज्ञानक्रियाशक्तिसाम्यं शुद्धविद्यात्मकं मतम्

॥७२॥

स्वाङ्गरूपेषु भावेषु मायातत्त्वविभेदधीः ।

शिवो यदा निजं रूपं परमैश्वर्य्यपूर्वकम्

॥७३॥

निगृह्य माययाशेषपदार्थग्राहको भवेत् ।

तदा पुरुष इत्याख्या तत्सृष्ट्वेत्यभवच्छ्रुतिः

॥७४॥

अयमेव हि संसारी मायया मोहितः पशुः ।

शिवज्ञानविहीनो हि नानाकर्मविमूढधीः

॥७५॥

शिवादभिन्नं न जगदात्मानं भिन्नमित्यपि ।

जानतोऽस्य पशोरेव मोहो भवति न प्रभो

॥७६॥

यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ।

गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः

॥७७॥

सर्वकर्तृत्वरूपा च सर्वजत्वस्वरूपिणी ।

पूर्णत्वरूपान्नित्यत्वव्यापकत्व स्वरूपिणी

॥७८॥

शिवस्य शक्तयः पञ्च संकुचदूपभास्कराः

॥७९॥

अपि संकोचरूपेण विभांत्य इति नित्यशः ।

पशोः कलाख्य विद्येति रागकालौ नियत्यपि ।

तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा

॥८०॥

किंचित्कर्तृत्त्त्वहेतुस्स्यात्किंचित्तत्त्वैकसाधनम् ।

सा तु विद्या भवेद्रागो विषयेष्वनुरंजकः

॥८१॥

कालो हि भावभावानां भासानां भासनात्मकः ।

क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते

॥८२॥

इदन्तु मम कर्तव्यमिदन्नेति नियामिका ।

नियतिस्स्याद्विभोश्शक्तिस्तदाक्षेपात्पतेत्पशुः

॥८३॥

एतत्पंचकमेवास्य स्वरूपा वारकत्वतः ।

पञ्चकञ्चुकमाख्यातमन्तरंगं च साधनम्

॥८४॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवतत्त्ववर्णनन्नाम षोडशोऽध्यायः ॥ १६ ॥