प्रणवार्थपद्धतिवर्णनम्
ईश्वर उवाच
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।
संसारवैद्यस्सर्वज्ञः परमात्मेति मुख्यतः
॥१॥नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम् ।
आद्यन्तपञ्चकन्तत्र शान्त्यतीताद्यनुक्रमात्
॥२॥संज्ञा सहाशिवादीनां पञ्चोपाधिपरिग्रहात् ।
उपाधिविनिवृत्तौ तु यथास्वं विनि वर्तते
॥३॥पदमेव हितं नित्यमनित्याः पदिनः स्मृताः ।
पदानां परिवृत्ति स्यान्मुच्यंते पदिनो यतः
॥४॥परिवृत्त्यन्तरे त्वेवं भूयस्तस्याप्युपाधिना ।
आत्मान्तराभिधानं स्यात्पादाद्यं नामपंचकम्
॥५॥अन्यत्तु त्रितयं नाम्नामुपादानादिभेदतः ।
त्रिविधोपाधिरचनाच्छिव एव तु वर्तते
॥६॥अनादिमलसंश्लेषप्रागभावात्स्वभावतः ।
अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते
॥७॥अथवाऽशेषकल्याणगुणैकघन ईश्वरः ।
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवेदिभिः
॥८॥त्रयोविंशतितत्वेभ्यः पराप्रकृतिरुच्यते ।
प्रकृतेस्तु परम्प्राहुः पुरुषम्पञ्चविंशकम्
॥९॥यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ।
वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम्
॥१०॥स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्यतः ।
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः
॥११॥तदधीनप्रवृत्तित्त्वात्प्रकृतेः पुरुषस्य च ।
अथवा त्रिगुणन्तत्त्वं मायेयमिदमव्ययम्
॥१२॥मायान्तु प्रकृतिम्विद्यान्मायिनन्तु महेश्वरम् ।
मायाविमोचकोऽनन्तोमहेश्वरसमन्वयात्
॥१३॥रु द्दुःखं दुःखहेतुर्वा तद्द्रावयति यः प्रभुः ।
रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्
॥१४॥शिवतत्त्वादिभूम्यन्तं शरीरादि घटादि च ।
व्याप्याधितिष्ठति शिवस्तमाद्विष्णुरुदाहृतः
॥१५॥जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ।
पितृभावेन सर्वेषां पितामह उदीरितः
॥१६॥निदानज्ञो यथा वैद्यो रोगस्य निवर्तकः ।
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारकः
॥१७॥संसारस्येश्वरो नित्यं स्थूलस्य विनिवर्तकः ।
संसार वैद्य इत्युक्तस्सर्वतत्त्वार्थवेदिभिः
॥१८॥दशार्द्धज्ञानसिद्ध्यर्थमिन्द्रियेषु च सत्स्वपि ।
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः
॥१९॥अणवो नैव जानन्ति मायार्णवमलावृताः ।
असत्स्वपि च सर्वेषु सिद्धसर्वार्थवेदिषु
॥२०॥यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ।
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते
॥२१॥सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ।
स्वस्मात्परात्मविरहात्परमात्मा शिवस्स्वयम्
॥२२॥इति स्तुत्वा महादेवं प्रणवात्मानमव्ययम् ।
दत्त्वा पराङ्मुखाद्यञ्च पश्चादीशानमस्तके
॥२३॥पुनरर्च्य देवेशम्प्रणवेन समाहितः ।
हस्तेन बद्धाञ्जलिना पूजापुष्पम्प्रगृह्य च
॥२४॥उन्मनान्तं शिवं नीत्वा वामनासापुटाध्वना ।
देवोमुद्वास्य च ततो दक्षनासापुटाध्वना
॥२५॥शिव एवाहमस्मीति तदैक्यमनुभूय च ।
सर्वावरणदेवांश्च पुनरुद्वासयेद्धृदि
॥२६॥विद्यापूजां गुरोःपूजां कृत्वा पश्चाद्यथाक्रमम् ।
शंखार्घपात्रमंत्रांश्च हृदये विन्यसेत्क्रमात्
॥२७॥निर्माल्यञ्च समर्प्याऽथ चण्डेशायेशगोचरे ।
पुनश्च संयतप्राण ऋष्यादिकमथोच्चरेत्
॥२८॥कैलासप्रस्तरो नाम मण्डलम्परिभाषितम् ।
अर्चयेन्नित्यमेवैतत्पक्षे वा मासिमासि वा
॥२९॥षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ।
अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः
॥३०॥तस्मिन्क्रमे महादेवि विशेषः कोऽपि कथ्यते ।
उपदेशदिने लिंगम्पूजितं गुरुणा सह
॥३१॥गृह्णीयादर्चयिष्यामि शिवमाप्राणसंक्षयम् ।
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ
॥३२॥ततस्समर्चयेन्नित्यम्पूर्वोक्तविधिना प्रिये ।
अर्घं समर्पयेल्लिंगमूर्द्धन्यर्घ्योदकेन च
॥३३॥प्रणवेन समभ्यर्च्य धूपदीपौ समर्पयेत् ।
ऐशान्यां चण्डमाराध्य निर्माल्यञ्च निवेदयेत्
॥३४॥प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ।
निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु
॥३५॥आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।
विभाव्य सर्वं मनसा स्थापयेत्परमेश्वरम्
॥३६॥पञ्चगव्यादिभिर्द्रव्यैर्यथाविभवसम्भृतैः ।
केवलैर्वा जलैश्शुद्धैस्सुरभि द्रव्यवासितैः
॥३७॥पावमानेन रुद्रेण नीलेन त्वरितेन च ।
ऋग्भिश्च सामभिर्वापि ब्रह्मभिश्चैव पञ्चभिः
॥३८॥स्नापयेद्देवदेवेशं प्रणवेन शिवेन च ।
विशेषार्घ्योदकेनापि प्रणवेनाभिषेचयेत्
॥३९॥विशोध्य वाससा पुष्पं लिंगमूर्द्धनि विन्यसेत् ।
पीठे लिंगं समारोप्य सूर्याद्यर्चां समाचरेत्
॥४०॥आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ।
सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ।
४१ अथोर्ध्वच्छदनम्पीठपादे स्कन्दं समर्चयेत् ।
लिंगे मूर्तिं समाकल्प्य मान्त्वया सह पूजयेत्
॥४२॥सम्यग् भक्त्या विधानेन यतिर्मद्ध्यानतत्परः ।
एवम्मया ते कथितमतिगुह्यमिदम्प्रिये
॥४३॥गोपनीयं प्रयत्नेन न देयं यस्य कस्य चित् ।
मम भक्ताय दातव्यं यतये वीतरागिणे
॥४४॥गुरुभक्ताय शान्ताय मदर्थे योगभागिने ।
ममाज्ञामतिलंघ्यैतद्यो ददाति विमूढधीः
॥४५॥स नारकी मम द्रोही भविष्यति न संशयः ।
मद्भक्तदानाद्देवेशि मत्प्रियश्च भवेद्ध्रुवम् ।
इह भुक्त्वाखिलान्भोगान्मत्सान्निध्यमवाप्नुयात्
॥४६॥व्यास उवाच
एतच्छुत्वा महादेवी महादेवेन भाषितम् ।
स्तुत्वा तु विविधैः स्तोत्रैर्देवम्वेदार्थगर्वितैः
॥४७॥श्रीमत्पादाब्जयोः पत्युः प्रणवं परमेश्वरी ।
अतिप्रहृष्टहृदया मुमोद मुनिसत्तमाः
॥४८॥अतिगुह्यमिदम्विप्राः प्रणवार्थप्रकाशकम् ।
शिवज्ञानपरं ह्येतद्भवतामार्तिनाशनम्
॥४९॥सूत उवाच
इत्युक्त्वा मुनिशार्दूलः पराशर्य्यो महातपाः ।
पूजितः परया भक्त्या मुनिभिर्वेदवादिभिः
॥५०॥कैलासाद्रिमनुसृत्य ययौ तस्मात्तपोवनात् ।
तेऽपि प्रहृष्टहृदयास्सत्रान्ते परमेश्वरम्
॥५१॥सम्पूज्य परया भक्त्या सोमं सोमार्द्धशेखरम् ।
यमादियोगनिरताश्शिवध्यानपराभवन्
॥५२॥गुहाय कथितं ह्येतद्देव्या तेनापि नन्दिने ।
सनत्कुमारमुनये प्रोवाच भगवान् हि सः
॥५३॥तस्माल्लब्धं मद्गुरुणा व्यासेनामिततेजसा ।
तस्माल्लब्धमिदम्पुण्यम्मयापि मुनिपुंगवाः
॥५४॥मया वश्श्रावितं ह्येतद्गुह्याद्गुह्यतरम्परम् ।
ज्ञात्वा शिवप्रियान्भक्त्या भवतो गिरिशप्रियम्
॥५५॥भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ।
यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः
॥५६॥एतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ।
तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम्
॥५७॥एतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ।
काश्यामेव समासीना मुक्ताश्शिवपदं ययुः
॥५८॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां प्रणवार्थपद्धतिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥