मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय १२

3
कैलाससंहिता · 12

संन्यासविधिवर्णनम्

श्रीब्रह्मण्य उवाच

साधुसाधु महाभाग वामदेव मुनीश्वर ।

त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः

॥१॥

त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित् ।

तथापि तव वक्ष्यामि लोकानुग्रहकारिणः

॥२॥

लोकेस्मिन्पशवस्सर्व्वे नानाशास्त्रविमोहिताः ।

वञ्चिताः परमेशस्य माययातिविचित्रया

॥३॥

न जानति परं साक्षात्प्रणवार्थम्महेश्वरम् ।

सगुणन्निर्गुणं ब्रह्म त्रिदेवजनकम्परम्

॥४॥

दक्षिणम्बाहुमुद्धृत्य शपथम्प्रब्रवीमि ते ।

सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं पुनः पुनः

॥५॥

प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ।

श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च

॥६॥

यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।

आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न

॥७॥

यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ।

सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते

॥८॥

न सम्प्रसूयते यो वै कुतश्चन कदाचन ।

यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः

॥९॥

यस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ।

सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम्

॥१०॥

यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।

सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः

॥११॥

यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ।

निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा

॥१२॥

तदीयन्त्रिविधंरूपं स्थूलं सूक्ष्मं परन्ततः ।

ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने

॥१३॥

निष्कलस्सर्व्वदेवानामादिदेवस्सनातनः ।

ज्ञानक्रियास्वभावो यः पर मात्मेति गीयते

॥१४॥

तस्य देवाधिदेवस्य मूर्त्तिस्साक्षात्सदाशिवः ।

पञ्चमंत्रतनुर्देवः कलापञ्चकविग्रहः

॥१५॥

शुद्धस्फटिकसंकाशः प्रसन्नः शीतलद्युतिः ।

पंचवक्त्रो दशभुजस्त्रिपंचनयनः प्रभुः

॥१६॥

ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ।

अघोरहृदयो वामदेवगुह्यप्रदेशवान्

॥१७॥

सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ।

सर्व्वज्ञत्वादिषट्शक्तिषडंगीकृतविग्रहः

॥१८॥

शब्दादिशक्तिस्फुरितहृत्पंकजविराजितः ।

स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः

॥१९॥

मन्त्रादिषड्विधार्थानामर्थोपन्याससार्गतः ।

समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम्

॥२०॥

उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम् ।

चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने

॥२१॥

त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ।

शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ।

त्रैवर्णिकानां सर्व्वेषां स्वस्वाश्रमरतात्मनाम् ।

श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित्

॥२३॥

श्रुतिस्मृत्युदितं कर्म्म कुर्व्व न्सिद्धिमवाप्स्यति ।

इत्युक्तम्परमेशेन वेदमार्गप्रदर्शिना

॥२४॥

वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ।

तत्सायुज्यं गतास्सर्वे बहवो मुनिसत्तमाः

॥२५॥

ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ।

पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत्

॥२६॥

एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ।

शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः

॥२७॥

तपस्वी विजिताहारो यमाय योगम भ्यसेत् ।

यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा

॥२८॥

एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ।

सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत्

॥२९॥

सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ।

सर्व्वोत्तमा हि विज्ञेया निर्विकारा यतात्म नाम्

॥३०॥

तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ।

तव स्तेहान्महाप्राज्ञ सावधानतया शृणु

॥३१॥

सर्व्वशास्त्रार्थतत्त्वज्ञं वेदांतज्ञानपारगम् ।

आचार्य्यमुपगच्छेत्स यतिर्म्मतिमतां वरम्

॥३२॥

तत्समीपमुपव्रज्य यथाविधि विचक्षणः ।

दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः

॥३३॥

यो गुरु्स्स शिवः प्रोक्तो यश्शिवस्स गुरुस्स्मृतः ।

इति निश्चित्य मनसा स्वविचारन्निवेदयेत्

॥३४॥

लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती ।

शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः

॥३५॥

प्रातः स्नात्वा विशुद्धात्मा कृतनित्य क्रियस्सुधीः ।

गुरुमाहूय विधिना नांदीश्राद्धं समारभेत्

॥३६॥

विश्वेदेवाः सत्यवसुसंज्ञावंतः प्रकीर्त्तिताः ।

देवश्राद्धे ब्रह्मविष्णु महेशाः कथितास्त्रयः

॥३७॥

ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ।

देवश्राद्धे तु वसुरुद्रादित्यास्सम्प्रकीर्त्तिताः

॥३८॥

चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ।

भूतश्राद्धे पंच महाभूतानि च ततः परम्

॥३९॥

चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः ।

पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः

॥४०॥

मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ।

आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ

॥४१॥

प्रपितामहनामा च सपत्नीकाः प्रकीर्त्तिताः ।

मातामहात्मकश्राद्धे त्रयो मातामहादयः

॥४२॥

प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ।

आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः

॥४३॥

समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।

अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादरेणवः

॥४४॥

आपद्धनध्वान्तसहस्रभानवः समीहिता र्थार्पणकामधेनवः ।

समस्ततीर्थांबुपवित्रमूर्त्तयो रक्षंतु मां ब्राह्मणपादपांसवः

॥४५॥

इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ।

स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन्

॥४६॥

सपवित्रकरश्शुद्ध उपवीती दृढासनः ।

प्राणायामत्रयं कुर्य्या च्छ्रुत्वातिथ्यादिकं पुनः

॥४७॥

मत्संन्यासांगभूतं यद्विश्वेदेवादिकं तथा ।

श्राद्धमष्टविधं मातामहगतं पार्वणेन वै

॥४८॥

विधानेन करिष्यामि युष्मदाज्ञापुरस्सरम् ।

एवं विधाय संकल्पं दर्भानुत्तरतस्त्यजेत्

॥४९॥

उपस्पृश्याप उत्थाय वरणक्रममारभेत् ।

पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत्

॥५०॥

विश्वेदेवार्थ इत्यादि भवद्भ्यां क्षण इत्यपि

॥५१॥

प्रसादनीय इत्यन्तं सर्व्व त्रैवं विधिक्रमः ।

एवं समाप्य वरणं मण्डलानि प्रकल्पयेत्

॥५२॥

उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ।

तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः

॥५३॥

विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ।

इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः

॥५४॥

पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ।

आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च

॥५५॥

विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ।

इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः

॥५६॥

अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ।

भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत्

॥५७॥

प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ।

वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ

॥५८॥

संपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ।

भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान्

॥५९॥

ततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ।

अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक्

॥६०॥

परिस्तीर्य्य स्वयं तत्र परिषिच्योदकेन च ।

हस्ताभ्यामवलंब्याथ पात्रं प्रत्येकमादरात्

॥६१॥

पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान् ।

देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान्

॥६२॥

उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ।

न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः

॥६३॥

यत्पादपद्मस्मरणाद्यस्य नामजपादपि ।

न्यूनं कर्म भवेत्पूर्णन्तं वन्दे साम्बमीश्वरम्

॥६४॥

इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ।

नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः

॥६५॥

अस्विति ब्रूतेति च तान्प्रसाद्य द्विजपुंगवान् ।

विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत्

॥६६॥

उत्थाय च ततो ब्रूयादमृतम्भवतु द्विजान् ।

प्रार्थयेच्च परं प्रीत्या कृतांजलिरुदारधीः

॥६७॥

श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ।

चित्ते सदाशिवन्ध्यात्वा जपेद्ब्रह्माणि पञ्च च

॥६८॥

भोजनान्ते रुद्रसूक्तं क्षमा पय्य द्विजान्मुनः ।

तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः

॥६९॥

प्रक्षालितांघ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ।

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत्

॥७०॥

नान्दीमुखोक्तश्राद्धांगं करिष्ये पिण्डदानकम् ।

इति संकल्प्य दक्षादिसमारभ्योदकान्ति कम्

॥७१॥

नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात् ।

संस्तीर्य्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम्

॥७२॥

तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात् ।

स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम्

॥७३॥

अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ।

दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके

॥७४॥

तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य्य च ।

पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके

॥७५॥

स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ।

दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे

॥७६॥

ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ।

तत्पादपद्मस्मरणादिति श्लोकं पठन्पुनः

॥७७॥

नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वश क्तितः ।

दत्त्वा क्षमापय्य च तान्विसृज्य च ततः क्रमात्

॥७८॥

पिण्डानुत्सृज्य गोग्रासं दद्यान्नोचेज्जले क्षिपेत् ।

पुण्याहवाचनं त्वां भुंजीत स्वजनैस्सह

॥७९॥

अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियस्सुधीः ।

उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम्

॥८०॥

केशश्मश्रुनखानेव कर्म्मावधि विसृज्य च ।

समाष्टकेशान्विधिवत्कारयित्वा विधानतः

॥८१॥

स्नात्वा धौतपटश्शुद्धो द्विराचम्याथ वाग्यतः ।

भस्म संधार्य्य विधिना कृत्वा पुण्याहवाचनम्

॥८२॥

तेन संप्रोक्ष्य संप्राप्य शुद्धदेहस्वभावतः ।

होमद्रव्यार्थमाचार्य्य दक्षिणार्थं विहाय च

॥८३॥

द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ।

भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे

॥८४॥

वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ।

दोरकौपीनवसनं दण्डाच्च क्षालितम्भुवि

॥८५॥

आदाय होमद्रव्याणि समिधादीनि च क्रमात् ।

समुद्रतीरे नद्यां वा पर्व्वते वा शिवालये

॥८६॥

अरण्ये चापी गोष्ठे वा विचार्य्य स्थानमुत्तमम् ।

स्थित्वाचम्य ततः पूर्व्वं कृत्वा मानसमञ्जरीम्

॥८७॥

ब्राह्ममोंकारसहितं नमो ब्रह्मण इत्यपि ।

जपित्वा त्रिस्ततो ब्रूयादग्निमीळे पुरोहितम्

॥८८॥

अथ महाव्रतमिति अग्निर्वै देवा नामतः ।

तथैतस्य समाम्नायमिषेत्वोर्ज्जे त्वा वेति तत्

॥८९॥

अग्न आयाहि वीतये शन्नो देवीरभिष्टये ।

पश्चात्प्रोच्य मयरसतजभनलगैः सह

॥९०॥

सम्मितं च ततः पञ्चसंवत्सरमयं ततः ।

समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ।

प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत्

॥९१॥

अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ।

अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत्

॥९२॥

ब्रह्माणमिन्द्रं सूर्य्यञ्च सोमं चैव प्रजापतिम् ।

आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम्

॥९३॥

परमात्मानमपि च प्रणवाद्यं नमोंतकम् ।

चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च

॥९४॥

प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ।

नाभिं मन्त्रान्वक्ष्यमाणन्प्रणवाद्यान्नमोन्तकान्

॥९५॥

आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ।

आत्मानं च समुच्चार्य प्रजापतिमतः परम्

॥९६॥

स्वाहांतान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ।

त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः

॥९७॥

प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ।

यथोक्तविधिना सम्यक्प्राणायामत्रयञ्चरेत्

॥९८॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥