यतीनामेकादशाहकृत्यवर्णनम्
सुब्रह्मण्य उवाच
एकादशेह्नि सम्प्राप्ते यो विधिस्समुदाहृतः ।
तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव
॥१॥सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ।
प्रोक्ष्य पश्चिममारभ्य पूर्वान्तम्पञ्च च क्रमात्
॥२॥मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः ।
प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः
॥३॥बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ।
शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः
॥४॥प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ।
देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः
॥५॥संत्यज्योत्तरतो दर्भान् यश्च संस्पृशते ततः ।
पश्चिमादि समारभ्य षडुत्थासनमार्गतः
॥६॥मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ।
ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम्
॥७॥आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ।
दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात्
॥८॥ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ।
पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः
॥९॥रक्तांगुलीयकच्छायरञ्जिताखिलदिङ्मुखा ।
रक्ताम्बरधराः कारपदपंकजशोभिताः
॥१०॥त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ।
माणिक्य मुकुटोद्भासिचन्द्रलेखावतंसिताः
॥११॥कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ।
हारकेयूरकटककांचीदाममनोहराः
॥१२॥तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ।
माणिक्यमयमंजीरसिंजत्पदसरोरुहाः ।
पादांगुलीयकश्रोणीर्मंजुलातिमनोहराः
॥१३॥अनुग्रहेण मूर्तेन शिववत्किं नु साध्यते ।
तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत्
॥१४॥सर्वानुग्रहकर्त्रैव स्वीकृताः पंचमूर्तय ।
सर्वकार्य्यकरा दिव्याः परानुग्रहतत्पराः
॥१५॥एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ।
पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः
॥१६॥हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत् ।
शंखोद बिन्दुभिस्तासां स्नानकर्म च भावयेत्
॥१७॥रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ।
मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च
॥१८॥सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान् ।
सुरभीणि मनोज्ञानि कुसुमानि च दापयेत्
॥१९॥धूपं च परमामोदं साज्यवर्ति च दीपकम् ।
सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात्
॥२०॥नमोऽन्तंचततोदद्यात्पायस्तमधुनाप्लुतम् ।
साज्यशर्करयापूपकदलीगुडपूरितम्
॥२१॥प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ।
भूर्भुवस्स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत
॥२२॥ॐ ह्रीमिति समुच्चार्य्य नैवेद्यं वह्निजायया ।
पानीयं नम इत्युक्त्वा परम्प्रेम्णा समर्पयेत्
॥२३॥तत उद्वासयेत्प्रीत्या पूर्वतो मुनिसत्तम ।
स्थलं विशोध्य गंडूषाचमनार्घ्याणि दापयेत्
॥२४॥तांबूलं धूप दीपौ च प्रदक्षिणनमस्कृती ।
विधाय प्रार्थयेदेताश्शिरस्यंजलिमादधत्
॥२५॥श्रीमातरस्सुप्रसन्ना यतिं शिवपदैषिणम् ।
रक्षणीय म्प्रब्रुवन्तु परमेशपदाब्जयोः
॥२६॥इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम् ।
तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत
॥२७॥गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ।
अत्रैव पार्वणं कुर्य्यान्नैकोद्दिष्टं यतेः क्वचित्
॥२८॥अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ।
तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः
॥२९॥कर्ता स्नात्वा धृतप्राण उपवीती समाहितः ।
सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन्
॥३०॥करिष्ये पार्वणं श्राद्धमिति संकल्प्य चोत्तरे ।
दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत्
॥३१॥तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ।
आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान्
॥३२॥विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ।
आत्मने भवता पश्चादन्तरात्मन इत्यपि
॥३३॥परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ।
श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात्
॥३४॥पादौ प्रक्षाल्य तेषान्तु प्राङ्मुखानुपवेश्य च ।
गन्धादिभिरलंकृत्य भोजयेच्च शिवा ग्रतः
॥३५॥गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ।
आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम्
॥३६॥करिष्य इति संकल्प्य मण्डलत्रयमर्च्य च ।
आत्मानमन्तरात्मानं परमात्मनमप्यतः
॥३७॥चतुर्थ्यन्तं वदन्पश्चादिमं पिण्डमितीरयन् ।
ददामीति च सम्प्रोच्य दद्यात्पिण्डान्स्वभक्तितः
॥३८॥कुशोदकं ततो दद्याद्यथाविधिविधानतः ।
तत उत्थाप्य वै कुर्य्यात्प्रदक्षिणनमस्कृती
॥३९॥ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ।
नारायणबलिं कुर्य्यात्तस्मिन्नेव स्थले दिने
॥४०॥रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ।
कुर्य्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत्
॥४१॥द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ।
केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः
॥४२॥उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ।
सन्तोषयेन्महाभक्त्या विविधैर्वच नैश्शुभैः
॥४३॥आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ।
प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत्
॥४४॥एकादशाह सुविधिर्मया प्रोक्तो मुनीश्वर ।
द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज
॥४५॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनन्नाम द्वाविंशोऽध्यायः ॥ २२ ॥