ये मुक्ता यतयस्तेषां दाहकर्म्म न विद्यते
वामदेव उवाच
ये मुक्ता यतयस्तेषां दाहकर्म्म न विद्यते ।
मृते शरीरे खननं तद्देहस्य श्रुतं मया
॥१॥तत्कर्माचक्ष्व सुप्रीत्या कार्तिकेय गुरो मम ।
त्वत्तोन्यो न हि संवक्ता त्रिषु लोकेषु विद्यते
॥२॥पूर्णाहं भावमाश्रित्य ये मुक्ता देहपंजरात् ।
ये तूपासनमार्गेण देहमुक्ताः परंगतः
॥३॥तेषां गतिविशेषञ्च भगवञ्छंकरात्मज ।
वक्तुमर्हसि सुप्रीत्या मां विचार्य्य स्वशिष्यतः
॥४॥सूत उवाच
मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रस्सुरारिहा ।
प्राहात्यन्तरहस्यं तद्भृगुणा श्रुतमीश्वरात्
॥५॥सुब्रह्मण्य उवाच
इदमेव मुने गुह्यं भृगवे शिवयोगिने ।
उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना
॥६॥वक्ष्ये तदद्य ते ब्रह्मन्न देयं यस्य कस्यचित् ।
देयं शिष्याय शान्ताय शिवभक्तियुताय वै
॥७॥समाधिस्थो यतिः कश्चिच्छिवभावेन देहभुक् ।
अस्ति चेत्स महाधीरः परिपूर्णश्शिवो भवेत्
॥८॥अधैर्य्यचित्तो यः कश्चित्समाधिं न च विंदति ।
तदुपायम्प्रवक्ष्यामि सावधानतया शृणु
॥९॥त्रिपदार्थपरिज्ञानं वेदान्तागमवाक्यजम् ।
श्रुत्वा गुरोर्मुखाद्योगमभ्यसेत्स यमादिकम्
॥१०॥तत्कुर्वन्स यतिस्सम्यक्छिवध्यानपरो भवेत् ।
नियमेन मुने नित्यं प्रणवासक्तमानसः
॥११॥देहदौर्बल्यवशतो यद्यधैर्य्यधरो यतिः ।
अकामश्च शिवं स्मृत्वा स जीर्णां स्वां तनुं त्यजेत्
॥१२॥सदाशिवानुग्रहतो नंदिना प्रेरिता मुने ।
आतिवाहिकरूपिण्यो(?) देवताः पञ्च विश्रुताः
॥१३॥आत्महन्ताकृतिः काचिज्ज्योत्तिःपुंजवपुष्मती ।
अह्नोऽभिमानिनी काचिच्छुक्लपक्षाभिमानिनी
॥१४॥उत्तरायणरूपा च पंचानुग्रहतत्परा ।
धूम्रा तमस्विनी रात्रिः कृष्णपक्षाभिमानिनी
॥१५॥दक्षिणायनरूपेति विश्रुताः पञ्च देवताः ।
तासां वृत्तिं शृणुष्वाद्य वामदेव महामुने
॥१६॥ताः पंचदेवता जीवान्कर्मानुष्ठान तत्परान् ।
गृहीत्वा त्रिदिवं यांति तत्पुण्यवशतो मुने
॥१७॥भुक्त्वा भोगान्यथोक्तांश्च ते तत्पुण्यक्षये पुनः ।
मानुषं लोकमासाद्य भजते जन्मपूर्ववत्
॥१८॥ताः पुनः पंचधा मार्गं विभज्यारभ्य भूतलम् ।
अग्न्यादिक्रमतां गृह्यं सदाशिवपदं यतिः
॥१९॥निनीय वन्द्यचरणौ देवदेवस्य पृष्ठतः ।
तिष्ठंत्यनुग्रहाकाराः कर्म्मण्येव प्रयोजिताः
॥२०॥समागतमभिप्रेक्ष्य देवदेवस्सदा शिवः ।
विरक्तश्चेन्महामंत्रतात्पर्यमुपदिश्य च
॥२१॥स्वसाम्यं च वपुर्दत्ते गाणपत्येभिषिच्य च ।
अनुगृह्णाति सर्वेशश्शंकरः सर्वनायकः
॥२२॥मृगटंकत्रिशूलाग्र्यवरदानविभूषितम् ।
त्रिनेत्रं चन्द्रशकलं गंगोल्लासिजटाधरम्
॥२३॥अधिष्ठितविमानाग्र्यं सर्वदं सर्वकामदम् ।
इति शाखाविरक्तश्चेद्रुद्रकन्यासमावृतम्
॥२४॥नृत्यगीतमृदंगादिवाद्यघोषमनोहरम् ।
दिव्याम्बरस्रगालेप भूषणैरपि भूषितम्
॥२५॥दिव्यामृतघटैः पूर्णं दिव्यांभःपरिपूरितम् ।
सूर्यकोटिप्रतीकाशं चंद्रकोटिसुशीतलम्
॥२६॥मनोवेगं सर्वगं च विमानमनुगृह्य च ।
भुक्तभोगस्य तस्यापि भोगकौतूहलक्षये
॥२७॥निपात्य शक्तिं तीव्रतरां प्रकृत्या ह्यति दुर्गमाम् ।
कान्तारं दग्धुकामान्तान्मलयानलसुप्रभाम्
॥२८॥अनुगृह्य महामंत्रतात्पर्यम्परमेश्वरः ।
पूर्णोहं भावनारूपः शंभुर स्मीति निश्चलम्
॥२९॥अनुगृह्य समाधिश्च स्वदास्यस्पन्दरूपिणीः ।
रव्यादिकर्म्मसामर्थ्यरूपाः सिद्धीरनर्गलाः
॥३०॥आयुः क्षये पद्मयोनेः पुनरावृत्तिवर्जिताम् ।
मुक्तिं च परमां तस्मै प्रयच्छति जगद्गुरुः
॥३१॥एतदेव पदं तस्मात्सर्वैश्वर्य्यं समष्टिमत् ।
मुक्तिघंटापथं चेति वेदांतानां विनिश्चयः
॥३२॥मुमूर्षोस्तस्य मन्दस्य यतेस्सत्सम्प्रदायिनः ।
यतयः सानुकूलत्वात्तिष्ठेयुः परित स्तदा
॥३३॥ततस्सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ।
उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः
॥३४॥वर्णयेयुः स्फुटं प्रीत्या शिवं संस्मारयन्सदा ।
निर्गुणं परमज्योतिः प्रणम्य विलयावधि
॥३५॥एतेषां सममेवात्र संस्कारक्रम उच्यते ।
असंस्कृतशरीराणां दौर्गत्यं नैव जायते
॥३६॥संन्यस्य सर्वकर्म्माणि शिवाश्रयपरा यतः ।
देहं दूषयतस्तेषां राज्ञो राष्ट्रं च नश्यति
॥३७॥तद्ग्रामवासिनस्तेऽपि भवेयुर्भृशदुःखिनः ।
तद्दोषपरिहाराय विधानं चैवमुच्यते
॥३८॥स तु नम हरिण्याय चेत्यारभ्य विनम्रधीः ।
नम आमीवत्केभ्यान्तं तत्काले प्रजपेन्मनुम्
॥३९॥ॐमित्यन्ते जपन्देवयजनम्पूरयेत्ततः ।
ततश्शान्तिर्भवेत्तस्य दोषस्य हि मुनीश्वर
॥४०॥पुत्रादयो यथा न्यायं कुर्य्युस्संस्कारमुत्तमम् ।
वच्मि तत्कृपया विप्र सावधानतया शृणु
॥४१॥अभ्यर्च्य स्नाप्य शुद्धोदैरभ्यर्च्य कुसुमादिभिः ।
श्रीरुद्रचमकाभ्यां च रुद्रसूक्तेन च क्रमात्
॥४२॥शंखं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ।
पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत्
॥४३॥कौपीनादीनि संत्यज्य पुनरन्यानि धारयेत् ।
भस्मनोद्धूलयेत्तस्य सर्वांगं विधिना ततः
॥४४॥त्रिपुण्ड्रं च विधानेन तिलकं चन्दनेन च ।
विरच्य पुष्पैर्मालाभिरलंकुर्य्यात्कलेवरम्
॥४५॥उरः कण्डशिरोबाहुप्रकोष्ठश्रुतिषु क्रमात् ।
रुद्राक्षमालाभरणैरलंकुर्य्याच्च मंत्रतः
॥४६॥सुधूपितं समुत्थाप्य शिक्योपरि निधाय च ।
पंचब्रह्ममये रम्ये रथे संस्थापयेत्तनुम्
॥४७॥ॐमाद्यैः पंचभिर्ब्रह्ममंत्रैस्सद्यादिभिः क्र्मात् ।
सुगंधकुसुमैर्माल्यैरलंकुर्य्याद्रथं च तम्
॥४८॥नृत्यवाद्यैर्ब्राह्मणानां वेदघोषैश्च सर्वतः ।
ग्रामम्प्रदक्षिणीकृत्य गच्छे त्प्रेतं तमुद्वहन्
॥४९॥ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ।
उदीच्यम्पुण्यदेशे तु पुण्यवृक्षसमीपतः
॥५०॥खनित्वा देवयजनं दण्डमात्रप्रमाणतः ।
प्रणवव्याहृतिभ्यां च प्रोक्ष्य चास्तीर्य्य च क्रमात्
॥५१॥शमीपत्रश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः ।
आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम्
॥५२॥प्रणवेन ब्रह्मभिश्च पञ्चगव्येन तां तनुम् ।
प्रोक्ष्याभिषिच्य रौद्रेण सूक्तेन प्रणवेन च
॥५३॥शंखतोयेनाभिषिच्य मूर्ध्नि पुष्पं विनिःक्षिपेत् ।
तद्गतस्यानुकूलोऽसौ शिवस्मरणतत्परः
॥५४॥ॐमित्यथ समुद्धृत्य स्वस्तिवाचनपूर्वकम् ।
गर्ते योगासने स्थाप्य प्राङ्मुखं स्याद्यथा तथा
॥५५॥गंधपुष्पैरलंकृत्वा धूपगुग्गुलुना ततः ।
विष्णो हव्यमिति प्रोच्य रक्षस्वेति वदन्ददेत्
॥५६॥दण्डं दक्षिणहस्ते तु वामे दद्यात्कमण्डलुम् ।
प्रजापते न त्वदेतान्यन्यो मंत्रेण सोदकम्
॥५७॥ब्रह्मजज्ञानम्प्रथममितिमंत्रेण मस्तके ।
स्पृशञ्जप्त्वा रुद्रसूक्तं भुवोर्मध्ये स्पृशञ्जपेत्
॥५८॥मानो महान्तमित्यादिचतुर्भिर्मस्तकन्ततः ।
नालिकेरेण निर्भिद्यादवटं पूरयेत्ततः
॥५९॥पंचभिर्ब्रह्मभिस्स्पृष्ट्वा जपेत्स्थलमनन्यधीः ।
यो देवानामुपक्रम्य यः परः स महेश्वरः
॥६०॥इति जप्त्वा महादेवं सांबं संसारभेषजम् ।
सर्वज्ञमपराधीनं सर्वानुग्रहकारकम्
॥६१॥एकारत्निसमुत्सेधमरत्निद्वयविस्तृतम् ।
मृदा पीठं प्रकल्प्याथ गोपये नोपलेपयेत्
॥६२॥चतुरस्रं च तन्मध्ये गंधाक्षतसमन्वितेः ।
सुगंधकुसुमैर्बिल्वैस्तुलस्या च समर्चयेत्
॥६३॥प्रणवेन ततो दयाद्धूपदीपौ पयोहविः ।
दत्त्वा प्रदक्षिणीकृत्य नमस्कुर्य्याच्च पंचधा
॥६४॥प्रणवं द्वादशावृत्त्वा संजप्य प्रणमेत्ततः ।
दिग्विदिक्क्रमतो दद्याद्ब्रह्माद्यम्प्रणवेन च
॥६५॥एवं दशाहपर्य्यंतं विधिस्ते समुदाहृतः ।
यतीनां मुनिवर्य्याथैकादशाहविधिं शृणु
॥६६॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनान्मरणानन्तरदशाहपर्य्यंतकृत्यवर्णनन्नामैकविंशोऽध्यायः ॥ २१ ॥