सृष्टिकथनम्
वामदेव उवाच
नियत्यधस्तात्प्रकृतेरुपरिस्थः पुमानिति ।
पूर्वत्र भवता प्रोक्तमिदानीं कथमन्यथा
॥१॥मायया संकुचद्रूपस्तदधस्तादिति प्रभो ।
इति मे संशयं नाथ छेत्तुमर्हसि तत्त्वतः
॥२॥श्रीसुबह्मण्य उवाच
अद्वैतशैववादोऽयं द्वैतन्न सहते क्वचित् ।
द्वैतं च नश्वरं ब्रह्माद्वैतम्परमनश्वरम्
॥३॥सर्वज्ञस्सर्वकर्ता च शिवस्सर्वेश्वरोऽगुणः ।
त्रिदेवजनको ब्रह्मा सच्चिदानन्दविग्रहः
॥४॥स एव शंकरो देवस्स्वेच्छया च स्वमायया ।
संकुचद्रूप इव सन्पुरुषस्संबभूव ह
॥५॥कलादि पञ्चकेनैव भोक्तृत्वेन प्रकल्पितः ।
प्रकृतिस्थः पुमानेष भुङ्क्ते प्रकृतिजान्गुणान्
॥६॥इति स्थानद्वयान्तस्थः पुरुषो न विरोधकः ।
संकुचन्निजरूपाणां ज्ञानादीनां समष्टिमान्
॥७॥सत्त्वादिगुणसाध्यं च बुध्यादित्रितयात्मकम् ।
चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात्
॥८॥सात्त्विकादिविभेदेन गुणाः प्रकृतिसम्भवाः ।
गुणेभ्यो बुद्धिरुत्पन्ना वस्तुनिश्चयकारिणी
॥९॥ततो महानहङ्कारस्ततो बुद्धीन्द्रियाणि च ।
जातानि मनसो रूपं स्यात्संकल्पविकल्पकम्
॥१०॥बुद्धीन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च गोचरः
॥११॥बुद्धीन्द्रियाणां कथितः श्रोत्रादिक्रमतस्ततः ।
वैकारिकादहंकारात्तन्मात्राण्यभवन्क्रमात्
॥१२॥तानि प्रोक्तानि सूक्ष्माणि मुनिभि स्तत्त्वदर्शिभिः ।
कर्मेन्द्रियाणि ज्ञेयानि स्वकार्य्यसहितानि च
॥१३॥विप्रर्षे वाक्करौ पादौ पायूपस्थौ च तत्क्रियाः ।
वचनादानगमनविसर्ग्गानन्दसंज्ञिताः
॥१४॥भूतादिकादहंकारात्तन्मात्राण्यभवन्क्रमात् ।
तानि सूक्ष्माणि रूपाणी शब्दादीनामिति स्थितिः
॥१५॥तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ।
विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते
॥१६॥अवकाशप्रदानं च वाहकत्वञ्च पावनम् ।
संरम्भो धारणन्तेषां व्यापाराः परिकीर्तिताः
॥१७॥वामदेव उवाच
भूतसृष्टिः पुरा प्रोक्ता कलादिभ्यः कथम्पुनः ।
अन्यथा प्रोच्यते स्कन्द संदेहोऽत्र महान्मम
॥१८॥आत्मतत्त्वमकारस्स्याद्विद्या स्यादुस्ततः परम् ।
शिवतत्त्वम्मकारस्स्याद्वामदेवेति चिंत्यताम्
॥१९॥बिन्दुनादौ तु विज्ञेयौ सर्वतत्त्वार्थकावुभौ ।
तत्रत्या देवतायाश्च ता मुने शृणु साम्प्रतम्
॥२०॥ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ।
ते हि साक्षाच्छिवस्यैव मूर्तयः श्रुतिविश्रुताः
॥२१॥इत्युक्तम्भवता पूर्वमिदानीमुच्यतेऽन्यथा ।
तन्मात्रेभ्यो भवन्तीति सन्देहोऽत्र महान्मम
॥२२॥कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ।
इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत
॥२३॥श्रीसुब्रह्मण्य उवाच
तस्माद्वेति समारभ्य भूतसृष्टिक्रमे मुने ।
ताञ्छृणुष्व महाप्राज्ञ सावधानतया द रात्
॥२४॥जातानि पञ्च भूतानि कलाभ्य इति निश्चितम् ।
स्थूलप्रपञ्चरूपाणि तानि भूतपतेर्वपुः
॥२५॥शिवतत्त्वादि पृथ्व्यन्तं तत्त्वानामुदयक्रमे ।
तन्मात्रेभ्यो भवन्तीति वक्तव्यानि क्रमान्मुने
॥२६॥तन्मात्राणां कलानामप्यैक्यं स्याद्भूतकारणम् ।
अविरुद्धत्व मेवात्र विद्धि ब्रह्माविदांवर
॥२७॥स्थूलसूक्ष्मात्मके विश्वे चन्द्रसूर्य्यादयो ग्रहाः ।
सनक्षत्राश्च संजातास्तथान्ये ज्योतिषां गणाः
॥२८॥ब्रह्मविष्णुमहेशादिदेवता भूतजातयः ।
इन्द्रादयोऽपि दिक्पाला देवाश्च पितरोऽसुराः
॥२९॥राक्षसा मानुषाश्चान्ये जंगमत्वविभागिनः ।
पशवः पक्षिणः कीटाः पन्नगादि प्रभेदिनः
॥३०॥तरुगुल्मलतौषध्यः पर्वताश्चाष्ट विश्रुताः ।
गंगाद्यास्सरितस्सप्त सागराश्च महर्द्धयः
॥३१॥यत्किंचिद्वस्तुजातन्तत्सर्वमत्र प्रतिष्ठितम् ।
विचारणीयं सद्बुध्या न बहिर्मुनिसत्तम
॥३२॥स्त्रीपुंरूपमिदं विश्वं शिवशक्त्यात्मकं बुधैः ।
भवादृशैरुपास्यं स्याच्छिवज्ञानविशारदैः
॥३३॥सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि ।
श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः
॥३४॥अष्टत्रिंशत्कलान्याससामर्थ्याद्वैतभावना ।
सदाशिवोऽहमेवेति भावि तात्मा गुरुः शिवः
॥३५॥एवं विचारी सच्छिष्यो गुरुस्स्यात्स शिवस्स्वयम् ।
प्रपञ्चदेवतायंत्रमंत्रात्मा न हि संशयः
॥३६॥आचार्य्य रूपया विप्र संछिन्नाखिलबन्धनः ।
शिशुः शिवपदासक्तो गुर्वात्मा भवति धुवम्
॥३७॥यदस्ति वस्तु तत्सर्वं गुण प्राधान्ययोगतः ।
समस्तं व्यस्तमपि च प्रणवार्थम्प्रचक्षते
॥३८॥रागादिदोषरहितं वेदसारः शिवो दिशः ।
तुभ्यम्मे कथितम्प्रीत्याऽद्वैतज्ञानं शिवप्रियम्
॥३९॥यो ह्यन्यथैतन्मनुते मद्वचो मदगर्वितः ।
देवो वा मानवस्सिद्धो गन्धर्वो मनुजोऽपि वा
॥४०॥दुरात्मनस्तस्य शिरश्छिंद्यां समतयाद्ध्रुवम् ।
सच्छक्त्या रिपुकालाग्निकल्पया न हि संशयः
॥४१॥भवानेव मुने साक्षाच्छिवाद्वैतविदांवरः ।
शिवज्ञानोपदेशे हि शिवाचारप्रदर्शकः
॥४२॥यद्देहभस्मसम्पर्कात्संछिन्नाघव्रजोऽशुचिः ।
महापिशाचः सम्प्राप्य त्वत्कृपातस्सतां गतिम्
॥४३॥शिवयोगीति संख्यातत्रिलोक विभवो भवान् ।
भवत्कटाक्षसम्पर्कात्पशु पशुपतिर्भवेत्
॥४४॥तव तस्य मयि प्रेक्षा लोकाशिक्षार्थमादरात् ।
लोकोपकारकरणे विचरन्तीह साधवः
॥४५॥इदं रहस्यम्परमं प्रतिष्ठितमतस्त्वयि ।
त्वमपि श्रद्धया भक्त्या प्रणवेष्वेव सादरम्
॥४६॥उपविश्य च तान्सर्वान्संयोज्य परमेश्वरे ।
शिवाचारं ग्राहयस्व भूतिरुद्राक्षमिश्रितम्
॥४७॥त्वं शिवो हि शिवाचारी सम्प्राप्ताद्वैतभावतः ।
विचरँलोकरक्षायै सुखमक्षयमाप्नुहि
॥४८॥सूत उवाच
श्रुत्वेदमद्भुतमतं हि षडाननोक्तं वेदान्तनिष्ठितमृषिस्तु विनम्रमूर्त्तिः ।
भूत्वा प्रणम्य बहुशो भुवि दण्डवत्तत्पादारविन्दविहरन्मधुपत्वमाप
॥४९॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवाद्वैतज्ञानकथनादि सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥