संन्यासाचारवर्णनम्
ईश्वर उवाच
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ।
तव स्नेहान्महादेवि संप्रदायानुरोधतः
॥१॥ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपंकजे ।
सहस्रारे समासीनं गुरुं संचितयेद्यतिः
॥२॥शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ।
दधानं शिवसद्भावमेवात्मनि मनोहरम्
॥३॥भावोपनीतैः संपूज्य गन्धादिभिरनुक्रमात् ।
बद्धांजलिपुटो भूत्वा नमस्कुर्याद्गुरुं ततः
॥४॥प्रातःप्रभृति सायान्ते सायादिप्रातरं ततः ।
यत्करोमि महादेव तदस्तु तव पूजनम्
॥५॥प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ।
निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः
॥६॥मूलादिब्रह्मरंध्रांतं षट्चक्रं परिचिंतयेत् ।
विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम्
॥७॥तन्मध्ये चिंतयेन्मां च सच्चिदानन्दविग्रहम् ।
निर्गुणं परमं ब्रह्म सदाशिवमनामयम्
॥८॥सोहमस्मीति मतिमान्म दैक्यमनुभूय च ।
बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम्
॥९॥वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह ।
विशोध्य देहं वि धिवत्तृणमाधाय भूतले
॥१०॥गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ।
उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः
॥११॥हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ।
उत्तराभिमुखो मौनी दन्तधावनमाचरेत्
॥१२॥तृणपर्णैः सदा कुर्यादमामेकादशी विना ।
अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः
॥१३॥द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ।
अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह
॥१४॥गुरुं संस्मृत्य मां चैव स्नानसंध्याद्यमाचरेत् ।
विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः
॥१५॥आबध्य शंखमुद्रां च प्रणवेनाभिषेचयेत् ।
शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम्
॥१६॥तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ।
प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम्
॥१७॥मुखम्प्रथमतो मृज्य शिर आरभ्य सर्वतः ।
तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ
॥१८॥आबध्याद्वामतः शुद्धं कौपीनं च सडोरकम् ।
ततः संधारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे
॥१९॥द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ।
अग्निरित्यादिभिर्मंत्रैरभिमंत्र्य स्पृशेत्तनुम्
॥२०॥आपोवेत्यभिमंत्र्याथ जलं तेनैव सेचयेत् ।
ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मंत्रतः
॥२१॥समद्य कमलद्वन्द्वं कुर्या केकं तु पंचधा ।
शिरोवदनहृद्गुह्यपादेषु परमेश्वरि
॥२२॥ईशानादिसमारभ्य सद्यान्तं पंचभिः क्रमात् ।
उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत्।
सर्वांगं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत् समर्च्य पूर्वत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत्
॥२४॥त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च ।
शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च
॥२५॥नाभौ बाह्वौः संधिषु च पृष्ठ चैव यथाक्रमम् ।
प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि
॥२६॥पंचीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ।
वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत्
॥२७॥दक्षहस्तेन संगृह्य जलं वामेन पाणिना ।
समाच्छाद्य द्विषड्वारं प्रणवे नाभिमंत्रयेत्
॥२८॥एवं त्रिवारं संप्रोक्ष्य शिरसि त्रिः पिबेत्ततः ।
समाहितेन मनसा ध्यायन्नोंकारमीश्वरम्
॥२९॥सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ।
अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम्
॥३०॥सर्वाश्चर्य्यगुणोपेतं सर्वालंकारशोभितम् ।
एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः
॥३१॥अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ।
पुनराचम्य विधिवत्प्राणायामत्रयं चरेत्
॥३२॥पूजासदनमागच्छेन्मनसा संस्मरञ्च्छिवम् ।
द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत्
॥३३॥प्रविशेद्विधिना तत्र दक्षपादपुरस्स रम् ।
मण्डपान्तस्सुधीस्तत्र मण्डलं रचयेत्क्रमात्
॥३४॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥