श्रुत्वा वेदान्तसारं तद्रहस्यम्परमाद्भुतम्
शौनक उवाच
श्रुत्वा वेदान्तसारं तद्रहस्यम्परमाद्भुतम् ।
किम्पृष्टवान्वामदेवो महेश्वरसुतं तदा
॥१॥धन्यो योगी वामदेवः शिवज्ञानरतस्सदा ।
यत्स्सम्बन्धात्कथोत्पन्ना दिव्या परमपावनी
॥२॥इति श्रुत्वा मुनीनान्तद्वचनम्प्रेमगर्भितम् ।
सूतः प्राह प्रसन्नस्ताञ्छिवासक्तमना बुधः
॥३॥सूत उवाच
धन्या यूयं महादेवभक्ता लोकोपकारकाः ।
शृणुध्वम्मुनयस्सर्वे संवादं च तयोः पुनः
॥४॥श्रुत्वा महेशतनयवचनं द्वैतनाशकम् ।
अद्वैतज्ञानजनकं सन्तुष्टोऽभून्महान्मुनिः
॥५॥नत्वा स्तुत्वा च विविधं कार्तिकेयं शिवात्मजम् ।
पुनः पप्रच्छ तत्त्वं हि विनयेन महामुनिः
॥६॥वामदेव उवाच
भगवन्सर्वतत्त्वज्ञ षण्मुखामृतवारिधे ।
गुरुत्वं कथमेतेषां यतीनाम्भावितात्मनाम्
॥७॥जीवानां भोगमोक्षादिसिद्धिस्सिध्यति यद्वशात् ।
पारम्पर्य्यं विना नैषा मुपदेशाधिकारिता
॥८॥एवं च क्षौरकर्मांगं स्नानञ्च कथमीदृशम् ।
इति विज्ञापय स्वामिन्संशयं छेत्तुमर्हसि
॥९॥इति श्रुत्वा कार्तिकेयो वामदेववचः स्मरन् ।
शिवं शिवां च मनसा व्याचष्टुमुपचक्रमे
॥१०॥श्रीसुब्रह्मण्य उवाच
योगपट्टम्प्रवक्ष्यामि गुरुत्वं येन जायते ।
तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम्
॥११॥वैशाखे श्रावणेमासि तथाश्वयुजि कार्तिके ।
मार्गशीर्षे च माघे वा शुक्लपक्षे शुभे दिने
॥१२॥पंचम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः ।
लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः
॥१३॥पर्य्यंकशौचं कृत्वा तद्वाससांगं प्रमृज्य च ।
द्विगुणं दोरमाबध्य वाससी परिधाय च
॥१४॥क्षालितांघ्रिर्द्विराचम्य भस्म सद्यादिम न्त्रतः ।
धारयेद्धि समादाय समुद्धूलनमार्गतः
॥१५॥गृहीतहस्तो गुरुणा सानुकूलेन वै मुने ।
सच्छिष्यः साञ्जलिस्स्वाभ्यां हस्ताभ्याम्प्राङ्मुखो यथा
॥१६॥तथोपवेष्टितस्तिष्ठेन्मंडपे समलंकृते ।
गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे
॥१७॥अथ देशिक आदाय शंखं साधारमस्त्रतः ।
विशोध्य तस्य पुरतः स्थापयेत्सानुकूलतः
॥१८॥साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः ।
निःक्षिपेद स्त्रवर्मभ्यां शोधितं तत्र सज्जलम्
॥१९॥आपूर्य पूर्ववत्पूज्य षडंगोक्तक्रमेण च ।
प्रणवेन पुनस्तद्वै सप्तधैवाभिमन्त्रयेत्
॥२०॥अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपौ प्रदर्श्य च ।
संरक्षास्त्रेण तं शंखं वर्मणाथावगुण्ठयेत्
॥२१॥धेनुशंखाख्यमुद्रे च दर्शयेदथ देशिकः ।
पुनस्स्वपुरतश्शंखं दक्षिणे देश उत्तमे
॥२२॥पूज्यार्घ्योक्तविधानेन सुन्दरम्मण्डलं शुभम् ।
कुर्य्यात्सम्पूजयेत्तञ्च सुगन्धकुसुमा दिभिः
॥२३॥साधारं शोधितं शुद्धं घटन्तन्तुपरिष्कृतम् ।
धूपितं स्थापितं शुद्धवासितोदप्रपूरितम्
॥२४॥पञ्चत्वक्पञ्चपत्रैश्च मृत्तिकाभिश्च पञ्चभिः ।
मिलितं च सुगन्धेन लेपयेत्तम्मुनीश्वर
॥२५॥वस्त्राम्रदलदूर्वाग्रनारिकेलसुमैस्ततः ।
तं घटं वस्तुभिश्चान्यैस्संकुर्यात्समलंकृतम्
॥२६॥विन्यसेत्पञ्चरत्नानि घटे तत्र मुनीश्वर ।
हिरण्यञ्चापि तेषां वाभावे भक्त्या प्रविन्यसेत् ।
नीलाख्यरत्नं च तथा रत्ने माणिक्यहेमनी ।
प्रवालगोमेदके च पञ्चरत्नमिदं स्मृतम्
॥२८॥नृम्लस्कमिति सम्प्रोच्य ग्लूमित्यन्ते ऽथ देशिकः ।
सम्यग्विधानतः प्रीत्या सानुकूलः समर्चयेत्
॥२९॥आधारशक्तिमारभ्य यजनोक्तविधानतः ।
पञ्चावरणमार्गेण देवमावाह्य पूजयेत्
॥३०॥निवेद्य पायसान्नञ्च तांबूलादि यथा पुरा ।
नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत्
॥३१॥प्रणवाष्टोत्तरशतं ब्रह्मभिः पञ्चभिः क्रमात् ।
सद्यादीशान्तमप्यस्त्रं रक्षितं वर्मणा पुनः
॥३२॥अवगुंठ्य प्रदर्श्याथ धूपदीपौ च भक्तितः ।
धेनुयोन्याख्यमुद्रे च सम्यक्तत्र प्रदर्शयेत्
॥३३॥ततश्च देशिकस्तस्य दर्भैराच्छाद्य मस्तके ।
मण्डलस्थेशदिग्भागे चतुरस्रं प्रकल्पयेत्
॥३४॥तदुपर्य्यासनं रम्यं कल्पयित्वा विधानतः ।
तत्र संस्थापयेच्छिष्यं शिशुं सानुकूलतः
॥३५॥ततः कुम्भं समुत्थाय स्वस्तिवाचनपूर्वकम् ।
अभिषिंचेद्गुरुः शिष्यं प्रादक्षिण्येन मस्तके
॥३६॥प्रणवं पूर्वमुच्चार्य्य सप्तधा ब्रह्मभि स्ततः ।
पञ्चभिश्चाभिषेकान्ते शंखोदेनाभिवेष्टयेत्
॥३७॥चारुदीपं प्रदर्श्याथ वाससा परिमृज्य च ।
नूतनं दोरकौपीनं वाससी परिधापयेत्
॥३८॥क्षालितांघ्रिर्द्विराचम्य धृतभस्मगुरुश्शिशुम् ।
हस्ताभ्यामवलंब्याथ हस्तौ मंडपमध्यतः
॥३९॥तदंगेषु समालिप्य तद्भस्म विधिना गुरुः ।
आसने संप्रवेश्याथ कल्पिते स्थापयेत्सुखम्
॥४०॥पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम् ।
स्वसनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम्
॥४१॥गुरुश्च परिपूर्णोऽस्मि शिव इत्यचलस्थितिः ।
समाधिमाचरेत्सम्यङ्मुहूर्त्तं गूढमानसः
॥४२॥पश्चादुन्मील्य नयने सानुकूलेन चेतसा ।
सांजलिं संस्थितं शुद्धं पश्येच्छिष्यमनाकुलः
॥४३॥स्वहस्तम्भसितालिप्तं विन्यस्य शिशुमस्तके ।
दक्षश्रुतावुपदिशेद्धंसस्सोहमिति स्फुटम्
॥४४॥तत्राद्याहंपदस्यार्थः शक्तयात्मा स शिवस्स्वयम् ।
स एवाहं शिवोस्मीति स्वात्मानं संविभावय
॥४५॥य इत्यणोरर्थतत्त्वमुपदिश्य ततो वदेत् ।
अवांतराणां वाक्यानामर्थतात्पर्यमादरात्
॥४६॥वाक्यानि वच्मि ते ब्रह्मन्सावधानमतिश्शृणु ।
तानि धारय चित्ते हि स ब्रूयादिति संस्फुटम्
॥४७॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ शिष्यकरणविधिर्नामाष्टादशोऽध्यायः ॥ १८ ॥