संन्यासमण्डलविधिवर्णनम्
ईश्वर उवाच
परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ।
मनोभिलषिते तत्र वितानवितताम्बरे
॥१॥सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ।
अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत्
॥२॥तालपत्रं समादाय तत्समायामविस्तरम् ।
तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम्
॥३॥तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ।
तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम्
॥४॥प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् ।
सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम्
॥५॥कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका ।
कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते
॥६॥दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते ।
दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ।
पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम्
॥७॥वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ।
रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत्
॥८॥कर्णिकायां लिखेद्यंत्रं प्रणवार्थप्रकाशकम् ।
अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः
॥९॥तदुपर्य्यमरेशं च महाकालं च मध्यतः ।
तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत्
॥१०॥श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ।
अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात्
॥११॥कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ।
एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत्
॥१२॥तदुत्थेनैव नादेन विद्यादीशानमीश्वरि ।
तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै
॥१३॥कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ।
शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः
॥१४॥आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ।
ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत्
॥१५॥आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ।
अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम्
॥१६॥हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः ।
पद्मस्य नैर्ऋते कोष्ठे चतुरस्रन्तदा लिखेत्
॥१७॥पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् ।
शवर्गस्य तृतीयन्तु षष्ठस्वरसमन्वितम्
॥१८॥चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।
एतद्बीजवरं भद्रे पद्ममध्ये समालिखेत्
॥१९॥पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ।
कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम्
॥२०॥विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ।
तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात्
॥२१॥कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे ।
मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम्
॥२२॥दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः ।
दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत्
॥२३॥आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत् ।
पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत्
॥२४॥रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः ।
श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे
॥२५॥चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम् ।
पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे
॥२६॥उकारमुत्तरे रक्तं मकारं पश्चिमे ततः ।
अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम्
॥२७॥सर्वोर्द्ध्वपंक्त्यधः पंक्तौ समारभ्य च सुन्दरि ।
पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम्
॥२८॥तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ।
अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने
॥२९॥एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि ।
तद्बाह्यपंक्तौ पूर्वादिमध्यमान्तं विचित्रयेत्
॥३०॥पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ।
आग्रेय्यादि समारभ्य रक्तं श्यामं सितं प्रिये
॥३१॥रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ।
दक्षिणाद्यं महेशानि पूर्वावधि समीरितम्
॥३२॥नैर्ऋताद्यन्तु विज्ञेयमाग्नेयावधि चेश्वरि ।
वारुणं तु समारभ्य दक्षिणावधि चेरितम
॥३३॥वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् ।
सोमार्थं परमेशानि वारुणावधि चेरितम्
॥३४॥ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ।
इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति
॥३५॥एवं मण्डलमालिख्य नियतात्मा यतिस्स्वतः ।
सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः
॥३६॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥