मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कैलाससंहिता, अध्याय ११

3
कैलाससंहिता · 11

सूत सूत महाभागस्त्वमस्मद्गुरुरुत्तमः

ऋषय ऊचुः

सूत सूत महाभागस्त्वमस्मद्गुरुरुत्तमः ।

अतस्त्वां परिपृच्छामो भवतोऽनुग्रहो यदि

॥१॥

श्रद्धालुषु च शिष्येषु त्वादृशा गुरवस्सदा ।

स्निग्धभावा इतीदं नो दर्शितम्भवताधुना

॥२॥

विरजाहोमसमये वामदेवमतम्पुरा ।

सूचितम्भवतास्माभिर्न श्रुतं विस्तरान्मुने

॥३॥

तदिदानीं श्रोतुकामाः श्रद्धया परमादरात् ।

वयं सर्व्वे कृपासिंधो प्रीत्या तद्वक्तुमर्हसि

॥४॥

इति तेषां वचः श्रुत्वा सूतो हृष्टतनूरुहः ।

नमस्कृत्य महादेवं गुरोः परतरं गुरुम्

॥५॥

महादेवीं त्रिजननीं गुरुं व्यासश्च भक्तितः ।

प्राह गम्भीरया वाचा मुनीनाह्लादयन्निदम्

॥६॥

सूत उवाच

स्वस्त्यस्तु मुनयस्सर्वे सुखिन स्सन्तु सर्व्वदा ।

शिवभक्ता स्थिरात्मानश्शिवे भक्तिप्रवर्तकाः

॥७॥

तदतीव विचित्रं हि श्रुतं गुरुमुखाम्बुजात् ।

इतः पूर्वम्मया नोक्तं गुह्यप्राकट्यशंकया

॥८॥

यूयं खलु महाभागाश्शिवभक्ता दृढव्रताः ।

इति निश्चित्य युष्माकं वक्ष्यामि श्रूयताम्मुदा

॥९॥

पुरा रथन्तरे कल्पे वामदेवो महामुनिः ।

गर्भमुक्तश्शिवज्ञानविदां गुरुतमस्स्वयम्

॥१०॥

वेदागमपुराणादिसर्व्वशास्त्रार्थवत्त्ववित् ।

देवासुरमनुष्यादिजीवानां जन्मकर्म्मवित्

॥११॥

भस्मावदातसर्व्वांगो जटामण्डललमंडितः ।

निराश्रयो निःस्पृहश्च निर्द्वन्द्वो निरहंकृतिः

॥१२॥

दिगंबरो महाज्ञानी महेश्वर इवापरः ।

शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः

॥१३॥

पर्य्यटन्पृथिवीमेतां स्वपाद स्पर्शपुण्यतः ।

पवित्रयन्परे धाम्नि निमग्नहृदयोन्वहम्

॥१४॥

कुमारशिखरम्मेरोर्द्दक्षिणं प्राविशन्मुदा ।

यत्रास्ते भगवानीशतनयश्शिखिवाहनः

॥१५॥

ज्ञानशक्तिधरो वीरस्सर्वासुरविमर्दनः ।

गजावल्लीसमायुक्तस्सर्व्वैर्देवैर्नमस्कृतः

॥१६॥

तत्र स्कन्दसरो नाम सरस्सागरसन्निभम् ।

शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम्

॥१७॥

सर्व्वाश्चर्य्यगुणोपेतं विद्यते स्वामिसन्निधौ ।

तत्र स्नात्वा वामदेवस्सहशिष्यैर्महामुनिः

॥१८॥

कुमारं शिखरासीनं मुनिवृन्दनिषेवितम् ।

उद्यदादित्यसंकाशं मयूरवरवाहनम्

॥१९॥

चतुर्भुजमुदारांगं मुकुटादिविभूषितम् ।

शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम्

॥२०॥

वरदाभयहस्तञ्च दृष्ट्वा स्कन्दं मुनीश्वरः ।

सम्पूज्य परया भक्त्या स्तोतुं समुपचक्रमे

॥२१॥

वामदेव उवाच

ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ।

प्रणवाक्षरबीजाय प्रणवाय नमोनमः

॥२२॥

वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।

वेदान्तार्थविदे नित्यं विदिताय नमोनमः

॥२३॥

नमो गुहाय भूतानां गुहासु निहिताय च ।

गुह्याय गुह्यरूपाय गुह्यागमविदे नमः

॥२४॥

अणोरणीयसे तुभ्यं महतोपि महीयसे ।

नमः परावरज्ञाय परमात्मस्वरूपिणे

॥२५॥

स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ।

नमो मन्दारमालोद्यन्मुकुटादिभृते सदा

॥२६॥

शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।

शिवप्रियाय शिवयोरानन्दनिधये नम

॥२७॥

गांगेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।

उमापुत्राय महते शरकाननशायिने

॥२८॥

षडक्षरशरीराय षड्विधार्थविधायिने ।

षडध्वातीतरूपाय षण्मुखाय नमोनमः

॥२९॥

द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।

द्वादशायुधधाराय द्वादशात्मन्नमोस्तु ते

॥३०॥

चतुर्भुजाय शान्ताय शक्तिकुक्कुट धारिणे ।

वरदाय विहस्ताय नमोऽसुरविदारिणे

॥३१॥

गजावल्लीकुचालिप्तकुंकुमांकितवक्षसे ।

नमो गजाननानन्दमहिमानंदितात्मने

॥३२॥

ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिंतितकीर्त्तिधाम्ने ।

वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपंकज ते नमोस्तु

॥३३॥

इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् ।

यः पठेच्छृणुयाद्वापि स याति परमां गतिम्

॥३४॥

महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्द्धनम् ।

आयुरारोग्यधनकृत्सर्व्वकामप्रदं सदा

॥३५॥

इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ।

प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत्

॥३६॥

साष्टांगं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ।

अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः

॥३७॥

वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् ।

श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः

॥३८॥

तमुवाच महासेनः प्रीतोस्मि तव पूजया ।

भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम्

॥३९॥

मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ।

भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते

॥४०॥

तथापि धर्म्मरक्षायै लोकानुग्रहकांक्षया ।

त्वादृशा साधवस्सन्तो विचरन्ति महीतले

॥४१॥

श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् ।

तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे

॥४२॥

इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः ।

प्रश्रयावनतः प्राह मेघगम्भीरया गिरा

॥४३॥

वामदेव उवाच

भगवन्परमेशस्त्वं परापरविभूतिदः ।

सर्व्वज्ञसर्वकर्त्ता च सर्व्वशक्तिधरः प्रभुः

॥४४॥

जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ।

तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति

॥४५॥

कृतार्थोहं महाप्राज्ञ विज्ञानकणमात्रतः ।

प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम

॥४६॥

प्रणवो हि परः साक्षात्परमेश्वरवाचकः ।

वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः

॥४७॥

वाचकेन समाहूतः पशून्मोचयते क्षणात् ।

तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति

॥४८॥

ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ।

ओमिति ब्रह्म सर्व्वं हि ब्रह्मेति च समब्रवीत्

॥४९॥

देवसेनापते तुभ्यन्देवानाम्पतये नमः ।

नमो यतीनाम्पतये परिपूर्णाय ते नमः

॥५०॥

एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ।

सर्व्वरूपधरः स्वामी शिवो व्यापी महेश्वरः

॥५१॥

समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ।

न जातुचिन्महासेन संप्राप्तस्त्वादृशो गुरुः

॥५२॥

अतः कृत्वानुकंपां वै तमर्थं वक्तुमर्हसि ।

उपदेशविधानेन सदाचारक्रमेण च

॥५३॥

स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ।

अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो

॥५४॥

इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम् ।

सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम्

॥५५॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनन्नामैकादशोऽयाय

॥११॥