मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय १

3
वायवीयसंहिता · पूर्वभागः · 1

विद्यावतारकथनम्

व्यास उवाच

नमश्शिवाय सोमाय सगणाय ससूनवे ।

प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे

॥१॥

शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ।

स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते

॥२॥

तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ।

महादेवं महात्मानं व्रजामि शरणं शिवम्

॥३॥

धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ।

प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि

॥४॥

मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ।

महौजसो महाभागा महासत्रं वितेनिरे

॥५॥

तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ।

साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः

॥६॥

शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ।

पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्

॥७॥

उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ।

मधुरः श्रवणानां च मनोज्ञपदपर्वणाम्

॥८॥

कथानां निपुणो वक्ता कालविन्नयवित्कविः ।

आजगाम स तं देशं सूतः पौराणिकोत्तमः

॥९॥

तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ।

तस्मै साम च पूजां च यथावत्प्रत्यपादयन्

॥१०॥

प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ।

उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः

॥११॥

ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ।

सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम्

॥१२॥

तदा तमनुकूलाभिर्वाग्भिः पूज्य १ महर्षयः ।

अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन्

॥१३॥

ऋषय ऊचुः

रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ।

संप्राप्तोद्य महाभाग शैवराज महामते

॥१४॥

पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ।

तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम्

॥१५॥

रत्नानामुरुसाराणां रत्नाकर इवार्णवः ।

यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते

॥१६॥

न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ।

त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ।

अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि

॥१७॥

तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ।

वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः

॥१८॥

एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ।

श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम्

॥१९॥

सूत उवाच

पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ।

कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम्

॥२०॥

अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ।

नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम्

॥२१॥

वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ।

शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम्

॥२२॥

शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ।

श्वेतकल्पप्रसंगेन वायुना कथितं पुरा

॥२३॥

विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ।

तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत

॥२४॥

अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।

पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश

॥२५॥

आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ।

अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः

॥२६॥

अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ।

आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः

॥२७॥

स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ।

ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम्

॥२८॥

तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ।

विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः

॥२९॥

पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ।

मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि

॥३०॥

लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ।

प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्

॥३१॥

अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ।

प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः

॥३२॥

यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ।

तदा विद्यासमासार्थं विश्वेश्वरनियोगतः

॥३३॥

द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ।

व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले

॥३४॥

एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ।

निर्मितानि पुराणानि अन्यानि च ततः परम्

॥३५॥

स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ।

अरण्यामिव हव्याशी सत्यवत्यामजायत

॥३६॥

संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ।

व्यस्तवेदतया लोके वेदव्यास इति श्रुतः

॥३७॥

पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ।

अद्यापि देवलोके तच्छतकोटिप्रविस्तरम्

॥३८॥

यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ।

न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः

॥३९॥

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति

॥४०॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ।

वंशानुचरितं चैव पुराणं पञ्चलक्षणम्

॥४१॥

दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ।

बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः

॥४२॥

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।

भविष्यं नारदीयं च मार्कंडेयमतः परम्

॥४३॥

आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ।

स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम्

॥४४॥

ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ।

तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम्

॥४५॥

ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ।

निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः

॥४६॥

तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ।

तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत्

॥४७॥

तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा

॥४८॥

यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ।

तस्य भेदान्समासेन ब्रुवतो मे निबोधत

॥४९॥

विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ।

औमं मातृपुराणं च रुद्रैकादशकं तथा

॥५०॥

कैलासं शतरुद्रं च शतरुद्राख्यमेव च ।

सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम्

॥५१॥

धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ।

विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया

॥५२॥

रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ।

प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम्

॥५३॥

रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ।

शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम्

॥५४॥

सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ।

सहस्रकोटिरुद्राख्यमेकादशसहस्रकम्

॥५५॥

चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ।

धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम्

॥५६॥

तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ।

पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम्

॥५७॥

व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ।

शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम्

॥५८॥

विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ।

तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका

॥५९॥

पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ।

सप्तमी वायवीयाख्या सप्तैवं संहिता इह

॥६०॥

विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ।

त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम्

॥६१॥

शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ।

द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम्

॥६२॥

चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ।

चत्वारिंशच्च द्विशतं वायवीयमतः परम्

॥६३॥

चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ।

श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम्

॥६४॥

चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ।

तदिदं वर्तयिष्यामि भागद्वयसमन्वितम्

॥६५॥

नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ।

न चैवाश्रद्धधानाय नापुराणविदे तथा

॥६६॥

परीक्षिताय शिष्याय धार्मिकायानसूयवे ।

प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे

॥६७॥

पुराणसंहिता यस्य प्रसादान्मयि वर्तते ।

नमो भगवते तस्मै व्यासायामिततेजसे

॥६८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः