मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ३३

3
वायवीयसंहिता · पूर्वभागः · 33

पशुपतिव्रतविधानवर्णनम्

ऋषय ऊचुः

भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ।

ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः

॥१॥

वायुरुवाच

रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ।

व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम्

॥२॥

कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ।

क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः

॥३॥

तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ।

अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च

॥४॥

पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ।

शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः

॥५॥

दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ।

प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ।

ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना

॥६॥

व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः ।

यावच्छरीरपातं वा द्वादशाब्दमथापि वा

॥७॥

तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।

तदर्धं वा तदर्धं वा मासमेकमथापि वा

॥८॥

दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ।

तदर्धं दिनमेकं वा व्रतसंकल्पनावधि

॥९॥

अग्निमाधाय विधिवद्विरजाहोमकारणात् ।

हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम्

॥१०॥

पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।

जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः

॥११॥

तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् १ त्यनुस्मरन् ।

पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च

॥१२॥

ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ।

त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः

॥१३॥

मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ।

रागो विद्याकले चैव नियतिः काल एव च

॥१४॥

माया च शुद्धिविद्या च महेश्वरसदाशिवौ ।

शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः

॥१५॥

मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ।

शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते

॥१६॥

अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च ।

विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक्

॥१७॥

प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ।

दिने तस्मिन्निराहारः कालं शेषं समापयेत्

॥१८॥

प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ।

उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः

॥१९॥

ततश्च जटिलो मुण्डी शिखैकजट एव वा ।

भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः

॥२०॥

अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ।

एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली

॥२१॥

प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ।

संकुलीकृत्य तद्भस्म विरजानलसंभवम्

॥२२॥

अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् ।

विभृज्यांगानि मूर्धादिचरणांतानि तैस्स्पृशेत्

॥२३॥

ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ।

सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा

॥२४॥

ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ।

शिवभावं समागम्य शिवयोगमथाचरेत्

॥२५॥

कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ।

भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत्

॥२६॥

तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ।

पूजनीयो महादेवो लिंगमूर्तिस्सनातनः

॥२७॥

पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् ।

कर्णिकाकेशरोपेतमासनं परिकल्पयेत्

॥२८॥

विभवे तदभावे तु रक्तं सितमथापि वा ।

पद्मं तस्याप्यभावे तु केवलं भावनामयम्

॥२९॥

तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् ।

स्फाटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात्

॥३०॥

प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् ।

परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः

॥३१॥

पञ्चगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः ।

स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः

॥३२॥

गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः ।

सवेदिकं समालिप्य लिंगं भूषणभूषितम्

॥३३॥

बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ।

नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः

॥३४॥

पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ।

समभ्यर्च्य यथालाभं महापूजाविधानतः

॥३५॥

धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ।

निवेदयित्वा विभवे कल्याणं च समाचरेत्

॥३६॥

इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ।

सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः

॥३७॥

श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ।

प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः

॥३८॥

तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ।

हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात्

॥३९॥

नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ।

पुष्पान्तरे न नियमो यथालाभं निवेदयेत्

॥४०॥

अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ।

चन्दनं वामदेवाख्ये हरितालं च पौरुषे

॥४१॥

ईशाने भसितं केचिदालेपनमितीदृशाम् ।

न धूपमिति मन्यन्ते धूपान्तरविधानतः ।

सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः

॥४२॥

पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ।

ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः

॥४३॥

शर्करामधुकर्पूरकपिलाघृतसंयुतम् ।

चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते

॥४४॥

कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ।

अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम्

॥४५॥

प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ।

ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते

॥४६॥

द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ।

तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः

॥४७॥

महादेवादयस्तत्र तथैकादशमूर्तयः ।

चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः

॥४८॥

बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ।

दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा

॥४९॥

ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ।

सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः

॥५०॥

पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ।

योगिनो हि सखास्सर्वे पतंगा मातरस्तथा

॥५१॥

क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ।

पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत्

॥५२॥

अथावरणपूजांते संपूज्य परमेश्वरम् ।

साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत्

॥५३॥

मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ।

अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः

॥५४॥

नीराजनांते विस्तीर्य पूजाशेषं समापयेत् ।

चषकं सोपकारं च शयनं च समर्पयेत्

॥५५॥

चन्द्रसंकाशहारं च शयनीयं समर्पयेत् ।

आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः

॥५६॥

कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ।

स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत्

॥५७॥

प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ।

ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत्

॥५८॥

दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः ।

अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत

॥५९॥

प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ।

ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम्

॥६०॥

समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ।

संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः

॥६१॥

भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ।

स्वयं चानशने शक्तः फलमूलाशने ऽथ वा

॥६२॥

पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ।

नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः

॥६३॥

भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ।

ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत्

॥६४॥

अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ।

अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि

॥६५॥

पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ।

वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा

॥६६॥

क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ।

संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा

॥६७॥

कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ।

पूजां वैशेषिकीं चैव मनसा वचसा गिरा

॥६८॥

बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ।

प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे

॥६९॥

उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ।

आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः

॥७०॥

गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा ।

भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः

॥७१॥

सामान्यमेतत्कथितं व्रतस्यास्य समासतः ।

प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम्

॥७२॥

वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् ।

आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम्

॥७३॥

मासे भाद्रपदे चैव पद्मरागमयं परम् ।

आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम्

॥७४॥

कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके ।

पुष्परागमयं पौषे माघे द्युमणिजन्तथा

॥७५॥

फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ।

सर्वमासेषु रत्नानामलाभे हैममेव वा

॥७६॥

हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ।

मृन्मयं वा यथालाभं जातुषं चान्यदेव वा

॥७७॥

सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि ।

व्रतावसानसमये समाचरितनित्यकः

॥७८॥

कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ।

संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः

॥७९॥

देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ।

दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च

॥८०॥

जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ।

अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः

॥८१॥

समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ।

इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत्

॥८२॥

ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ।

पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत्

॥८३॥

यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः ।

व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः

॥८४॥

सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ।

स एव तपतां श्रेष्ठ स एव च महाव्रती

॥८५॥

न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ।

यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम्

॥८६॥

यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ।

सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात्

॥८७॥

घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ।

द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः

॥८८॥

कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ।

शिवार्पितात्मा सततं न तेन सदृशः क्वचित्

॥८९॥

भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ।

पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः

॥९०॥

रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् ।

तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः

॥९१॥

भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् ।

भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः

॥९२॥

भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः ।

भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः

॥९३॥

भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ।

भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः

॥९४॥

भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ।

भूतिभूतिकरी चैव रक्षा रक्षाकरी परम्

॥९५॥

किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ।

व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः

॥९६॥

परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ।

धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः

॥९७॥

तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ।

धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत्

॥९८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः