देवीगौरत्वभवनम्
वायुरुवाच
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ।
नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम्
॥१॥तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ।
तमेव देशमवृनोत्तपसे प्रणयात्पुनः
॥२॥ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ।
प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती
॥३॥पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ।
स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम्
॥४॥संकल्प्य च महातीव्रं तपः परमदुश्चरम् ।
सदा मनसि सन्धाय भर्तुश्चरणपंकजम्
॥५॥तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ।
त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः
॥६॥स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ।
प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः
॥७॥तथा तपश्चरन्तीं तां काले बहुतिथे गते ।
दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत्
॥८॥तथैवोपगतस्यापि तस्यातीवदुरात्मनः ।
गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः
॥९॥तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ।
न पृथग्जनवद्देवी स्वभावेन विविच्यते
॥१०॥स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ।
ममामिषं ततो नान्यदिति मत्वा निरन्तरम्
॥११॥निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ।
अतिष्ठदग्रतस्तस्या उपासनमिवाचरत्
॥१२॥देव्याश्च हृदये नित्यं ममैवायमुपासकः ।
त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा
॥१३॥तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ।
बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा
॥१४॥न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ।
दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत
॥१५॥तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ।
सद्योपासक एवैष सिषेवे परमेश्वरीम्
॥१६॥दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ।
स एव द्रावको भूत्वा विचचार तपोवने
॥१७॥तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ।
देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः
॥१८॥चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ।
यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात्
॥१९॥सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ।
आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम्
॥२०॥सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ।
संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः
॥२१॥ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ।
प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम्
॥२२॥ननाम चास्य जगतो मातरं स्वस्य वै हरेः ।
रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम्
॥२३॥ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ।
अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत्
॥२४॥तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ।
पप्रच्छ तपसो हेतुमजानन्निव पद्मजः
॥२५॥ब्रह्मोवाच तीव्रेण तपसानेन देव्या किमिह साध्यते ।
तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः
॥२६॥यश्चैव जगतां भर्ता तमेव परमेश्वरम् ।
भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम्
॥२७॥अथवा सर्वमेवैतत्क्रीडाविलसितं तव ।
इदन्तु चित्रं देवस्य विरहं सहसे कथम्
॥२८॥देव्युवाच सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ।
तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः
॥२९॥यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ।
उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः
॥३०॥यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ।
तदा पितामहस्त्वं मे जातो लोकपितामह
॥३१॥तदीदृशस्य भवतो लोकयात्राविधायिनः ।
वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः
॥३२॥किमत्र बहुना देहे यश्चायं मम कालिमा ।
त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे
॥३३॥५३० ब्रह्मोवाच एतावता किमर्थेन तीव्रं देवि तपः कृतम् ।
स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी
॥३४॥क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ।
अतो ममेष्टमनया फलं किमपि साध्यताम्
॥३५॥निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ।
दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः
॥३६॥अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ।
शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति
॥३७॥ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ।
त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत
॥३८॥सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ।
काली कालाम्बुदप्रख्या कन्यका समपद्यत
॥३९॥सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ।
शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा
॥४०॥सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ।
अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी
॥४१॥दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ।
निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः
॥४२॥ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ।
प्रबलः केसरी दत्तो वाहनत्वे समागतः
॥४३॥विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ।
मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत्
॥४४॥सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ।
प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः
॥४५॥शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ।
परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता
॥४६॥निहतौ च तया तत्र समरे दैत्यपुंगवौ ।
तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ
॥४७॥तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ।
ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः
॥४८॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः