ब्रह्मविष्णुसृष्टिकथनम्
ऋषय ऊचुः
भवता कथिता सृष्टिर्भवस्य परमात्मनः ।
चतुर्मुखमुखात्तस्य संशयो नः प्रजायते
॥१॥देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ।
कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः
॥२॥सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ।
यः संहरति संक्रुद्धो युगांते समुपस्थिते
॥३॥यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ।
लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ
॥४॥यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ।
स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः
॥५॥स कथं भगवान् रुद्र आदिदेवः पुरातनः ।
पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः
॥६॥प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ।
सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम
॥७॥कथं पुनरशेषाणां भूतानां हेतुभूतयोः ।
गुणप्रधानभावेन प्रादुर्भावः परस्परात्
॥८॥नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ।
भगवच्छिष्यभूतेन भवता सकलं स्मृतम्
॥९॥तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ।
वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः
॥१०॥वायुरुवाच
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ।
इदमेव पुरा पृष्टो मम प्राह पितामहः
॥११॥तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ।
यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम्
॥१२॥त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ।
चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः
॥१३॥परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ।
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः
॥१४॥पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ।
ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा
॥१५॥तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ।
तपसा तोषयित्वा स्वं पितरं परमेश्वरम्
॥१६॥लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ।
ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत्
॥१७॥कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ।
विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः
॥१८॥नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ।
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः
॥१९॥परस्परेण जायंते परस्परहितैषिणः ।
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः
॥२०॥प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ।
शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम्
॥२१॥कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ।
पुरा नारायणो नाम कल्पे वै मेघवाहने
॥२२॥दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ।
तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः
॥२३॥सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ।
शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा
॥२४॥ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ।
विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः
॥२५॥ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ।
गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ।
आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः
॥२६॥तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ।
स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः
॥२७॥अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ।
त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः
॥२८॥एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ।
एवं विज्ञापयामास तपसा प्राप्य शंकरम्
॥२९॥भगवन् देवदेवेश विश्वेश्वर महेश्वर ।
तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम्
॥३०॥मया सह जगत्सर्वं तथाप्यसृजदच्युतः ।
स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया
॥३१॥मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ।
त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः
॥३२॥तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ।
तथा ममापि तत्सर्वं दातुमर्हसि शंकर
॥३३॥इति विज्ञापितस्तेन भगवान् भगनेत्रहा ।
न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः
॥३४॥लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ।
त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम्
॥३५॥क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ।
हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते
॥३६॥अनंतभोगशय्यायां शयानं पंकजेक्षणम् ।
चतुर्भुजमुदारांगं सर्वाभरणभूषितम्
॥३७॥शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ।
श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम्
॥३८॥धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ।
क्षीरार्णवामृतमिव शयानं योगनिद्रया
॥३९॥तमसा कालरुद्राख्यं रजसा कनकांडजम् ।
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्
॥४०॥तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ।
ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा
॥४१॥तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ।
उदैक्षत महाबाहुस्स्मितमीषच्चकार च
॥४२॥तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ।
सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः
॥४३॥तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ।
शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः
॥४४॥प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ।
आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ
॥४५॥अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ।
प्रणेमतुश्च बहुशो बहुमानेन दूरतः
॥४६॥भवोपि भगवानेतावनुगृह्य पिनाकधृक् ।
सादरं पश्यतोरेव तयोरंतरधीयत
॥४७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः