मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय २०

3
वायवीयसंहिता · पूर्वभागः · 20

यज्ञविध्वंसनः

वायुरुवाच

ततो विष्णुप्रधानानां सुराणाममितौजसाम् ।

ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम्

॥१॥

सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ।

कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम्

॥२॥

ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।

विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम्

॥३॥

देवांगनासहस्राढ्यमप्सरोगणसेवितम् ।

वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम्

॥४॥

दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ।

सिंहनादं तदा चक्रे गंभीरो जलदो यथा

॥५॥

ततः किलकिलाशब्द आकाशं पूरयन्निव ।

गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः

॥६॥

तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ।

दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः

॥७॥

किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ।

किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम्

॥८॥

मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ।

श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात्

॥९॥

पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ।

मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः

॥१०॥

अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ।

ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः

॥११॥

एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ।

संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया

॥१२॥

तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ।

क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि

॥१३॥

तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ।

वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः

॥१४॥

स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ।

अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः

॥१५॥

वीरभद्र उवाच

वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ।

भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम्

॥१६॥

अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ।

कथ्यतां कारणं तत्र युध्यतां वा मयामरैः

॥१७॥

इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ।

ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति

॥१८॥

मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ।

येन प्रथमभागार्हं न यजध्वं महेश्वरम्

॥१९॥

मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ।

भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः

॥२०॥

यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ।

तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम्

॥२१॥

अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ।

मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः

॥२२॥

यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ।

तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम्

॥२३॥

इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ।

यक्षवाटं महाकूटं यथातिस्रः पुरो हरः

॥२४॥

ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ।

यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः

॥२५॥

यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ।

गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः

॥२६॥

तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ।

क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः

॥२७॥

उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ।

रसवन्ति च पानानि लेह्यचोष्याणि तानि वै

॥२८॥

वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ।

वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः

॥२९॥

मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ।

उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान्

॥३०॥

बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ।

छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति

॥३१॥

हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ।

संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः

॥३२॥

यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ।

विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः

॥३३॥

आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ।

स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च

॥३४॥

कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ।

गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः

॥३५॥

रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ।

निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः

॥३६॥

चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ।

नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित्

॥३७॥

नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन

॥३८॥

केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ।

केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः

॥३९॥

आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ।

भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः

॥४०॥

उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ।

विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः

॥४१॥

उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ।

अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम्

॥४२॥

हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ।

उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः

॥४३॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः