मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय २२

3
वायवीयसंहिता · पूर्वभागः · 22

दक्षयज्ञविध्वंसवर्णनम्

तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ।

सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः

॥१॥

अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ।

सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः

॥२॥

तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ।

यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः

॥३॥

स तं रथवरं ब्रह्मा शासनादेव शूलिनः ।

हरेस्समीपमानीय कृताञ्जलिरभाषत

॥४॥

भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ।

आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः

॥५॥

रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ।

सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम्

॥६॥

तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ।

आरुरोह रथं दिव्यमनुगृह्य पितामहम्

॥७॥

तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ।

भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः

॥८॥

ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ।

प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः

॥९॥

तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ।

श्रुत्वा भयेन देवानां जज्वाल जठरानलः

॥१०॥

यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ।

क्षणेन निबडीभूताः साकाशविवरा दिशाः

॥११॥

ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ।

महता बाणवर्षेण तुतोद गणगोवृषम्

॥१२॥

तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ।

स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक्

॥१३॥

समादाय च तद्दिव्यं धनुस्समरभैरवम् ।

शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः

॥१४॥

तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ।

तेन स्वनेन महता पृथिवीं समकंपयत्

॥१५॥

ततः शरवरं घोरं दीप्तमाशीविषोपमम् ।

जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः

॥१६॥

बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ।

प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः

॥१७॥

समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ।

महाभुजंगसंदष्टो यथा बालभुजङ्गमः

॥१८॥

शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ।

विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम्

॥१९॥

ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ।

चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः

॥२०॥

ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ।

विव्याध गणराजस्य भुजे भुजगसन्निभे

॥२१॥

सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ।

विससर्ज शरं वेगाद्वीरभद्रो महाबलः

॥२२॥

स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ।

स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः

॥२३॥

तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ।

द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम्

॥२४॥

तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ।

हाहाकारो महानासीदाकाशे खेचरेरितः

॥२५॥

ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ।

विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि

॥२६॥

स तु तीव्रप्रपातेन शरेण दृढमाहतः ।

महतीं रुजमासाद्य निपपात विमोहितः

॥२७॥

पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ।

सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत्

॥२८॥

स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ।

सहसा वारयामास घोरैः प्रतिशरैः शरान्

॥२९॥

ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ।

ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ।

तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु

॥३०॥

अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ।

अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः

॥३१॥

निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ।

ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान्

॥३२॥

शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ।

सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः

॥३३॥

निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ।

ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः

॥३४॥

तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ।

तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम्

॥३५॥

स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ।

स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित्

॥३६॥

इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ।

श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम्

॥३७॥

अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ।

विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः

॥३८॥

विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ।

तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ।

समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः

॥३९॥

प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ।

तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान्

॥४०॥

साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ।

अट्टहासेन घोरेण व्यष्टं भयदनिंदितः

॥४१॥

तथा शतमखस्यापि सवज्रो दक्षिणः करः ।

सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत्

॥४२॥

अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ।

अलसानामिवारंभास्तादृशाः प्रतियांत्युत

॥४३॥

एवं भगवता तेन व्याहताशेषवैभवात् ।

अमराः समरे तस्य पुरतः स्थातुमक्षमाः

॥४४॥

स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ।

स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः

॥४५॥

विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ।

विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान्

॥४६॥

बहवस्तस्य वीरस्य बाहवः परिघोपमाः ।

शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः

॥४७॥

अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ।

विसृजन्सर्वभूतानि यथादौ विश्वसंभवः

॥४८॥

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।

तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः

॥४९॥

खमंडले गणेन्द्रस्य शराः कनकभूषिताः ।

उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः

॥५०॥

महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ।

प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम्

॥५१॥

निकृत्तबाहवः केचित्केचिल्लूनवराननाः ।

पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि

॥५२॥

विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ।

विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ।

गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः

॥५३॥

अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ।

भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे

॥५४॥

अपरे जग्मुराकाशं परे च विविशुर्जलम् ।

तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ

॥५५॥

परिग्रस्तप्रजावर्गो भगवानिव भैरवः ।

दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत्

॥५६॥

एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ।

गणेश्वरसमुत्पन्नं कृपणं वपुराददे

॥५७॥

तदा त्रिदशवीराणामसृक्सलिलवाहिनी ।

प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी

॥५८॥

रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ।

रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी

॥५९॥

तस्मिन्महति संवृत्ते समरे भृशदारुणे ।

भयेनेव परित्रस्ता प्रचचाल वसुन्धरा

॥६०॥

महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ।

पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः

॥६१॥

अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।

अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ।

यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः

॥६२॥

धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ।

भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः

॥६३॥

तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ।

सद्य एव शिरश्छेदस्साधु संपद्यते फलम्

॥६४॥

तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम्

॥६५॥

नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ।

७.१,२२. ६५ कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ।

न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे

॥६६॥

कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ।

मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा

॥६७॥

बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ।

वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु

॥६८॥

ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ।

गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः

॥६९॥

चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ।

पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः

॥७०॥

केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ।

निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा

॥७१॥

सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ।

बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम्

॥७२॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः