मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ३१

3
वायवीयसंहिता · पूर्वभागः · 31

स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः

वायुरुवाच

स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ।

जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु

॥१॥

प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ।

असतां त्वन्यथाभावः प्रसादेन विना प्रभोः

॥२॥

शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ।

न किंचिदपि कर्तव्यमिति साधु विनिश्चितम्

॥३॥

स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ।

अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते

॥४॥

परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ।

परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः

॥५॥

पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ।

तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः

॥६॥

अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ।

अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः

॥७॥

एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ।

अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात्

॥८॥

मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ।

अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते

॥९॥

येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ।

स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते

॥१०॥

न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ।

साकारेणानुभावेन केनाप्यनुपलक्षितः

॥११॥

प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ।

न तावतात्रोपेक्षाधीरुपलक्षणमंतरा

॥१२॥

आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ।

शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम्

॥१३॥

यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ।

एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः

॥१४॥

यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ।

नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः

॥१५॥

अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ।

मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः

॥१६॥

लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ।

तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते

॥१७॥

यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ।

तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम्

॥१८॥

लोकानुग्रहणायैव शिवेन परमेष्ठिना ।

सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः

॥१९॥

आत्मनामेव भोगाय मोक्षाय च विशेषतः ।

तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः

॥२०॥

भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ।

न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः

॥२१॥

सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ।

निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात्

॥२२॥

ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ।

ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना

॥२३॥

ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ।

श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति

॥२४॥

सदोषा एव देवाद्या निगृहीता यथोदितम् ।

ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः

॥२५॥

निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ।

अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते

॥२६॥

यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ।

न स चेदीशतां कुर्याज्जगतः कथमीश्वरः

॥२७॥

ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ।

आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम्

॥२८॥

तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ।

विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते

॥२९॥

साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ।

निवर्तते च सामादेरंते दण्डो हि साधनम्

॥३०॥

हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ।

अतो यद्विपरीतं तदहितं संप्रचक्षते

॥३१॥

हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ।

स कथं दुष्यते सद्भिरसतामेव निग्रहात्

॥३२॥

अयुक्तकारिणो लोके गर्हणीयाविवेकिता ।

यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते

॥३३॥

सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ।

न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत्

॥३४॥

माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ।

तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते

॥३५॥

अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ।

हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन्

॥३६॥

तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ।

इति निर्बंधयंत्येके नियमो नेति चापरे

॥३७॥

निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ।

न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका

॥३८॥

घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ।

तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः

॥३९॥

उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ।

शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते

॥४०॥

सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ।

दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः

॥४१॥

तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ।

संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम्

॥४२॥

मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ।

तथापि तेषामेवैते न शिवस्य तु सर्वथा ।

अग्नावपि समाविष्टं ताम्रं खलु सकालिकम्

॥४३॥

इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ।

नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते

॥४४॥

अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ।

एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत्

॥४५॥

शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ।

अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः

॥४६॥

मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ।

न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ

॥४७॥

काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ।

अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि

॥४८॥

शिवावेशवशादेव शिवत्वमुपचर्यते ।

मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः

॥४९॥

तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ।

यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ।

न गुणाय न दोषाय शिवस्य गुणवृत्तयः

॥५०॥

न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ।

संसारमोचनं किं तु शैवमाज्ञामयं हितम्

॥५१॥

हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ।

सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः

॥५२॥

यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ।

तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः

॥५३॥

हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ।

स्वभावप्रतिबन्धं तत्समं न लभते हितम्

॥५४॥

यथा विकासयत्येव रविः पद्मानि भानुभिः ।

समं न विकसन्त्येव स्वस्वभावानुरोधतः

॥५५॥

स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ।

न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत्

॥५६॥

सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ।

एवं पक्वमलानेव मोचयेन्न शिवपरान्

॥५७॥

यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ।

विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत्

॥५८॥

स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ।

स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः

॥५९॥

अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ।

कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः

॥६०॥

अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ।

स हेतुरात्मनामेव निजो नागन्तुको मलः

॥६१॥

आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ।

यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः

॥६२॥

आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ।

बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः

॥६३॥

ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ।

केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः

॥६४॥

मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ।

मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः

॥६५॥

आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ।

तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः

॥६६॥

परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ।

वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः

॥६७॥

अन्तरात्मपदे केचित्केचिदात्मपदे तथा ।

शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः

॥६८॥

विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ।

निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः

॥६९॥

देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ।

पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश

॥७०॥

उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ।

यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता

॥७१॥

मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ।

आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात्

॥७२॥

पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ।

अत्रोत्तरा एकमला द्विमला मध्यमा मताः ।

त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः

॥७३॥

त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ।

इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः

॥७४॥

एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ।

अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा

॥७५॥

अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ।

अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता

॥७६॥

मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ।

अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम्

॥७७॥

महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ।

अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः

॥७८॥

ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ।

पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता

॥७९॥

एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ।

निदानभूतैस्संसाररोगः पुंसां प्रवर्तते

॥८०॥

अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ।

भिषगाज्ञापकः शम्भुश्शिवः परमकारणम्

॥८१॥

अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ।

कथं दुःखं करोतीति नात्र कार्या विचारणा

॥८२॥

दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ।

कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः

॥८३॥

न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ।

रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत्

॥८४॥

एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ।

स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः

॥८५॥

न भिषक्कारणं रोगे शिवः संसारकारणम् ।

इत्येतदपि वैषम्यं न दोषायास्य कल्पते

॥८६॥

दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ।

स्वाभाविको मलः पुंसां स हि संसारयत्यमून्

॥८७॥

संसारकारणं यत्तु मलं मायाद्यचेतनम् ।

तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा

॥८८॥

यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ।

अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः

॥८९॥

न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ।

अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः

॥९०॥

न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ।

तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति

॥९१॥

शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ।

तया ततमिदं शश्वत्तथापि स न दुष्यति

॥९२॥

अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ।

ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति

॥९३॥

यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ।

तच्छक्तिवैभवादेव तथापि स न दुष्यति

॥९४॥

एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ।

सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम्

॥९५॥

ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ।

मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम्

॥९६॥

तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ।

नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत्

॥९७॥

वायुरुवाच्व परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ।

परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम्

॥९८॥

हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ।

अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति

॥९९॥

नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ।

श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः

॥१००॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः