मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय १५

3
वायवीयसंहिता · पूर्वभागः · 15

शिवशिवास्तुतिवर्णनम्

वायुरुवाच

यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ।

तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत

॥१॥

न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ।

तेन मैथुनजां सृष्टिं न शशाक पितामहः

॥२॥

ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।

प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर

॥३॥

प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ।

एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे

॥४॥

तदाद्या परमा शक्तिरनंता लोकभाविनी ।

आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा

॥५॥

निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ।

निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा

॥६॥

तया परमया शक्त्या भगवंतं त्रियम्बकम् ।

संचिन्त्य हृदये ब्रह्मा तताप परमं तपः

॥७॥

तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ।

अचिरेणैव कालेन पिता संप्रतुतोष ह

॥८॥

ततः केनचिदंशेन मूर्तिमाविश्य कामपि ।

अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः

॥९॥

तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ।

अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः

॥१०॥

सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ।

सर्वलोकविधायिन्या शक्त्या परमया युतम्

॥११॥

अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ।

अचलं निर्गुणं शांतमनंतमहिमास्पदम्

॥१२॥

सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ।

सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम्

॥१३॥

प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ।

श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः

॥१४॥

यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ।

तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः

॥१५॥

ब्रह्मोवाच जय देव महादेव जयेश्वर महेश्वर ।

जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप

॥१६॥

जय प्रकृति कल्याणि जय प्रकृतिनायिके ।

जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि

॥१७॥

जयामोघमहामाय जयामोघ मनोरथ ।

जयामोघमहालील जयामोघमहाबल

॥१८॥

जय विश्वजगन्मातर्जय विश्वजगन्मये ।

जय विश्वजगद्धात्रि जय विश्वजगत्सखि

॥१९॥

जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ।

जय शाश्वतिकाकार जय शाश्वतिकानुग

॥२०॥

जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ।

जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके

॥२१॥

जयावलोकनायत्तजगत्कारणबृंहण ।

जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक

॥२२॥

जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ।

जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे

॥२३॥

जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ।

जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक

॥२४॥

जयोपाश्रितसंरक्षासंविधानपटीयसि ।

जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे

॥२५॥

जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ।

जय विश्वबहिर्भूत निरस्तपरवैभव

॥२६॥

जय प्रणीतपञ्चार्थप्रयोगपरमामृत ।

जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि

॥२७॥

जयति घोरसंसारमहारोगभिषग्वर ।

जयानादिमलाज्ञानतमःपटलचंद्रिके

॥२८॥

जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ।

जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि

॥२९॥

जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ।

जय प्रचुरदिव्यांग जय प्रार्थितदायिनि

॥३०॥

क्व देव ते परं धाम क्व च तुच्छं च नो वचः ।

तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम्

॥३१॥

विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ।

नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः

॥३२॥

इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ।

अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम्

॥३३॥

य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ।

स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात्

॥३४॥

सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ।

नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम्

॥३५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः