मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय २४

3
वायवीयसंहिता · पूर्वभागः · 24

शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनम्

ऋषय ऊचुः

अन्तर्धानगतो देव्या सह सानुचरो हरः ।

क्व यातः कुत्र वासः किं कृत्वा विरराम ह

॥१॥

वायुरुवाच

महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ।

दयितो देवदेवस्य निवासस्तपसो ऽभवत्

॥२॥

तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ।

चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम्

॥३॥

तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ।

न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि

॥४॥

शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ।

पर्वतान्तरसौन्दर्यं साधारणविधारणात्

॥५॥

इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ।

ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता

॥६॥

अत एव हि देवेन देव्याः प्रियचिकीर्षया ।

अतीव रमणीयोयं गिरिरन्तःपुरीकृतः

॥७॥

मेखलाभूमयस्तस्य विमलोपलपादपाः ।

शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत्

॥८॥

पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ।

अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः

॥९॥

लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ।

अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते

॥१०॥

निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ।

चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते

॥११॥

स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ।

सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते

॥१२॥

प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ।

दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः

॥१३॥

कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ।

विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः

॥१४॥

लताप्रतानजटिलैस्तरुभिस्तपसैरिव ।

जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट्

॥१५॥

अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ।

प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव

॥१६॥

परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ।

पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम्

॥१७॥

गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ।

अजीर्णलावण्यतया जृंभमाण इवाचलः

॥१८॥

ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ।

वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः

॥१९॥

निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ।

तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः

॥२०॥

सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ।

तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः

॥२१॥

तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ।

रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ

॥२२॥

तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ।

रराम रमणीयासु देव्यान्तःपुरभूमिषु

॥२३॥

तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ।

दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः

॥२४॥

ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ।

अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि

॥२५॥

अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ।

अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा

॥२६॥

तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ।

इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति

॥२७॥

ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ।

निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात्

॥२८॥

तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ।

विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा

॥२९॥

तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ।

निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि

॥३०॥

एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ।

कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः

॥३१॥

ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ।

स्मयन्ती चाह भर्तारमसमाधेयया गिरा

॥३२॥

देव्युवाच ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ।

एवावन्तं चिरं कालं कथमेषा नियम्यते

॥३३॥

अरत्या वर्तमानो ऽपि कथं च रमसे मया ।

न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः

॥३४॥

स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ।

इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः

॥३५॥

या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ।

सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः

॥३६॥

भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ।

तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते

॥३७॥

तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ।

वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम्

॥३८॥

इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ।

ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया

॥३९॥

तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ।

पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत

॥४०॥

ईश्वर उवाच

अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ।

रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम

॥४१॥

माता त्वमस्य जगतः पिताहमधिपस्तथा ।

कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम

॥४२॥

आवयोरभिकामो ऽपि किमसौ कामकारितः ।

यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः

॥४३॥

पृथग्जनानां रतये कामात्मा कल्पितो मया ।

ततः कथमुपालब्धः कामदाहादहं त्वया

॥४४॥

मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ।

मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः

॥४५॥

विहारोप्यावयोरस्य जगतस्त्राणकारणात् ।

ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम्

॥४६॥

स चायमचिरादर्थस्तवैवाविष्करिष्यते ।

क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत्

॥४७॥

देव्युवाच श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ।

येनैवमतिधीराहमपि प्रागभिवंचिता

॥४८॥

प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ।

कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते

॥४९॥

भूयसी च तवाप्रीतिरगौरमिति मे वपुः ।

क्रीडोक्तिरपि कालीति घटते कथमन्यथा

॥५०॥

सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ।

अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे

॥५१॥

शिव उवाच

स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ।

ममेच्छया स्वेच्छया वा वर्णान्तरवती भव

॥५२॥

देव्युवाच नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ।

ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम्

॥५३॥

ईश्वर उवाच

मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ।

तमाहूय महादेवि तपसा किं करिष्यसि

॥५४॥

देव्युवाच त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ।

तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः

॥५५॥

पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ।

जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा

॥५६॥

एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ।

गौरी भवितुमिच्छामि को दोषः कथ्यतामिह

॥५७॥

एवमुक्तो महादेव्या वामदेवः स्मयन्निव ।

न तां निर्बंधयामास देवकार्यचिकीर्षया

॥५८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः