मुनिप्रस्ताववर्णनम्
सूत उवाच
पुरा कालेन महता कल्पेतीते पुनःपुनः ।
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि
॥१॥प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ।
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम्
॥२॥इदं परमिदं नेति विवादस्सुमहानभूत् ।
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः
॥३॥ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ।
यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः
॥४॥मेरुशृंगे शुभे रम्ये देवदानवसंकुले ।
सिद्धचारणसंवादे यक्षगंधर्वसेविते
॥५॥विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ।
निकुंजकंदरदरीगृहानिर्झरशोभिते
॥६॥तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ।
दशयोजनविस्तीर्णं शतयोजनमायतम्
॥७॥सुरसामलपानीयपूर्णरम्यसरोवरम् ।
मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम्
॥८॥तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ।
दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम्
॥९॥तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ।
निर्व्यूहवलभीकूटप्रतोलीशतमंडितम्
॥१०॥महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ।
महाभवनकोटीभिरनेकाभिरलंकृतम्
॥११॥तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ।
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम्
॥१२॥दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ।
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम्
॥१३॥प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ।
दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम्
॥१४॥दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ।
सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम्
॥१५॥सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ।
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम्
॥१६॥तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ।
शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम्
॥१७॥मुनय ऊचुः
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ।
पुरुषाय पुराणाय ब्रह्मणे परमात्मने
॥१८॥नमः प्रधानदेहाय प्रधानक्षोभकारिणे ।
त्रयोविंशतिभेदेन विकृतायाविकारिणे
॥१९॥नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ।
तत्र संसिद्धकार्याय संसिद्धकरणाय च
॥२०॥नमोस्तु सर्वलोकाय सर्वलोकविधायिने ।
सर्वात्मदेहसंयोग वियोगविधिहेतवे
॥२१॥त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ।
तथापि मायया नाथ न विद्मस्त्वां पितामह
॥२२॥सूत उवाच
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ।
प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव
॥२३॥ब्रह्मोवाच ऋषयो हे महाभागा महासत्त्वा महौजसः ।
किमर्थं सहितास्सर्वे यूयमत्र समागताः
॥२४॥तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ।
वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन्
॥२५॥मुनय ऊचुः
भगवन्नंधकारेण महता वयमावृताः ।
खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम्
॥२६॥त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ।
त्वया ह्यविदितं नाथ नेह किंचन विद्यते
॥२७॥कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ।
विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः
॥२८॥केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ।
तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये
॥२९॥एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ।
देवानां दानवानां च मुनीनामपि सन्निधौ
॥३०॥उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ।
आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत
॥३१॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः