श्रेष्ठानुष्ठानवर्णनम्
ऋषय ऊचुः
किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः ।
तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत
॥१॥वायुरुवाच
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ।
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः
॥२॥स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ।
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः
॥३॥तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः ।
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम्
॥४॥परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ।
धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः
॥५॥परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ।
धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः
॥६॥अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः ।
साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः
॥७॥स चायं परमो धर्मः परधर्मस्य साधनम् ।
धर्मशास्त्रादिभिस्सम्यक्सांग एवोपबृंहितः
॥८॥शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ।
इतिहासपुराणाभ्यां कथंचिदुपबृंहितः
॥९॥शैवागमैस्तु संपन्नः सहांगोपांविस्तरः ।
तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः
॥१०॥शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ।
श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः
॥११॥स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः ।
कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः
॥१२॥श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ।
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते
॥१३॥युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा ।
तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते
॥१४॥संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ।
रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः
॥१५॥ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ।
तत्संततीया गुरवः शतशो ऽथ सहस्रशः
॥१६॥तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ।
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम्
॥१७॥तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ।
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते
॥१८॥नामाष्टकमयो योगश्शिवेन परिकल्पितः ।
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते
॥१९॥प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ।
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम्
॥२०॥प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ।
शिवापरोक्षात्संसारकारणेन वियुज्यते
॥२१॥ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ।
ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते
॥२२॥शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः
॥२३॥नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ।
आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात्
॥२४॥संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ।
उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते
॥२५॥पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ।
पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः
॥२६॥परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ।
आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम्
॥२७॥अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ।
त्रिविधोपाधिवचनाच्छिव एवानुवर्तते
॥२८॥अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ।
अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते
॥२९॥अथवाशेषकल्याणगुणैकधन ईश्वरः ।
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः
॥३०॥त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ।
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम्
॥३१॥यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ।
वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः
॥३२॥तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ।
तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च
॥३३॥अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ।
मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्
॥३४॥मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ।
कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः
॥३५॥रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ।
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम्
॥३६॥तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ।
व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः
॥३७॥जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ।
पितृभावेन सर्वेषां पितामह उदीरितः
॥३८॥निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ।
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः
॥३९॥संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ।
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः
॥४०॥दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ।
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः
॥४१॥अणवो नैव जानन्ति माययैव मलावृताः ।
असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु
॥४२॥यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ।
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते
॥४३॥सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ।
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम्
॥४४॥नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ।
निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः
॥४५॥यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ।
गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा
॥४६॥हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ।
छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया
॥४७॥द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ।
संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात्
॥४८॥शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ।
अवतार्य स्वमात्मानममृतात्माकृतिं हृदि
॥४९॥द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ।
समासीनं महादेवं शंकरम्भक्तवत्सलम्
॥५०॥अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ।
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्
॥५१॥ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः ।
शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत्
॥५२॥अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ।
सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत्
॥५३॥नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ।
अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम्
॥५४॥निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ।
एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम्
॥५५॥लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ।
योगं च परमं लब्ध्वा मुच्यते नात्र संशयः
॥५६॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशो ऽध्यायः