निवेदयामि जगतो वागर्थात्म्यं कृतं यथा
वायुरुवाच
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ।
षडध्ववेदनं सम्यक्समासान्न तु विस्तरात्
॥१॥नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ।
ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः
॥२॥प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ।
तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः
॥३॥शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ।
स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा
॥४॥सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ।
या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया
॥५॥ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ।
सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया
॥६॥समस्तकार्यजातस्य मूलप्रकृतितां गता ।
सैव कुण्डलिनी माया शुद्धाध्वपरमा सती
॥७॥सा विभागस्वरूपैव षडध्वात्मा विजृंभते ।
तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः
॥८॥सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ।
लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः
॥९॥कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ।
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः
॥१०॥कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ।
मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः
॥११॥भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ।
अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते
॥१२॥मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ।
वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः
॥१३॥वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ।
भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात्
॥१४॥व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ।
अंतरादुत्थितानीह भुवनानि तु कानिचित्
॥१५॥पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ।
सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित्
॥१६॥शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ।
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम्
॥१७॥परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ।
कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम्
॥१८॥व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ।
परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः
॥१९॥शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ।
व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा
॥२०॥शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ।
व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात्
॥२१॥निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ।
प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम्
॥२२॥तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ।
शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया
॥२३॥यामाहुः परमं व्योम परप्रकृतियोगतः ।
एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत्
॥२४॥तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ।
अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति
॥२५॥स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ।
वृथा परिश्रमस्तस्य निरयायैव केवलम्
॥२६॥शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ।
तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते
॥२७॥शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ।
शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया
॥२८॥नात्मनो नैव मायैषा न विकारो विचारतः ।
न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी
॥२९॥सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ।
समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः
॥३०॥स तयैव गृही सापि तेनैव गृहिणी सदा ।
तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत्
॥३१॥स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ।
एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः
॥३२॥स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ।
अपरे तु परा शक्तिः शिवस्य समवायिनी
॥३३॥प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ।
तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी
॥३४॥तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ।
महामाया च माया च प्रकृतिस्त्रिगुणेति च
॥३५॥त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ।
स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत्
॥३६॥अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः
॥३७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः