मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय १९

3
वायवीयसंहिता · पूर्वभागः · 19

कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः

ऋषय ऊचुः

कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ।

महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम्

॥१॥

वायुरुवाच

विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ।

पितृभावमुपागम्य मुदिते हिमवद्गिरौ

॥२॥

देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ।

संकीडति तया सार्धं काले बहुतरे गते

॥३॥

वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ।

अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत

॥४॥

ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ।

गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते

॥५॥

तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ।

गमनाय समागम्य बुद्धिमापेदिरे तदा

॥६॥

आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ।

ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा

॥७॥

अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ।

विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः

॥८॥

दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ।

दधीचो मन्युनाविष्टो दक्षमेवमभाषत

॥९॥

दधीच उवाच

अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ।

नरः पापमवाप्नोति महद्वै नात्र संशयः

॥१०॥

असतां संमतिर्यत्र सतामवमतिस्तथा ।

दंडो देवकृतस्तत्र सद्यः पतति दारुणः

॥११॥

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ।

पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम्

॥१२॥

दक्ष उवाच

संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ।

एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम्

॥१३॥

दधीच उवाच

किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ।

राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया

॥१४॥

ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ।

ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः

॥१५॥

प्रकृतीनां परश्चैव पुरुषस्य च यः परः ।

चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः

॥१६॥

अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ।

अनादिमध्यनिधनमप्रतर्क्यं सनातनम्

॥१७॥

यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ।

तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे

॥१८॥

दक्ष उवाच

एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ।

विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य

॥१९॥

दधीच उवाच

यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ।

तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति

॥२०॥

इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ।

निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम्

॥२१॥

निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ।

अवश्यमनुभावित्वादनर्थस्य तु भाविनः

॥२२॥

एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ।

दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत्

॥२३॥

देव्या संचोदितो देवो दक्षाध्वरजिघांसया ।

ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम्

॥२४॥

सहस्रवदनं देवं सहस्रकमलेक्षणम् ।

सहस्रमुद्गरधरं सहस्रशरपाणिकम्

॥२५॥

शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ।

चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम्

॥२६॥

कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ।

दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम्

॥२७॥

विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ।

वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम्

॥२८॥

गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ।

वरामरशिरोमालावलीकलितशेखरम्

॥२९॥

रणन्नूपुरकेयूरमहाकनकभूषितम् ।

रत्नसंचयसंदीप्तं तारहारावृतोरसम्

॥३०॥

महाशरभशार्दूलसिंहैः सदृशविक्रमम् ।

प्रशस्तमत्तमातंगसमानगमनालसम्

॥३१॥

शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ।

सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम्

॥३२॥

ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ।

तेजसा चैव दीव्यंतं युगांत इव पावकम्

॥३३॥

स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ।

पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः

॥३४॥

मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ।

आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु

॥३५॥

तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ।

भद्रया सहितं प्राह भद्रमस्त्विति शंकरः

॥३६॥

स च विज्ञापयामास सह देव्या महेश्वरम् ।

आज्ञापय महादेव किं कार्यं करवाण्यहम्

॥३७॥

ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ।

वीरभद्रं महाबाहुं वाचा विपुलनादया

॥३८॥

देवदेव उवाच

प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ।

भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर

॥३९॥

अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ।

स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम्

॥४०॥

वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ।

सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः

॥४१॥

तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ।

सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम्

॥४२॥

इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ।

भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम्

॥४३॥

आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ।

सस्मिता वचनं प्राह मधुरं मधुरं स्वयम्

॥४४॥

देव्युवाच वत्स भद्र महाभाग महाबलपराक्रम ।

मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक

॥४५॥

यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ।

दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर

॥४६॥

यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ।

यजमानं च तं हत्वा वत्स हिंसय भद्रया

॥४७॥

अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ।

मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे

॥४८॥

अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ।

वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः

॥४९॥

ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ।

दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान्

॥५०॥

पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ।

गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात्

॥५१॥

तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ।

संछादितमभूत्सर्वं साकाशविवरं जगत्

॥५२॥

सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ।

रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः

॥५३॥

शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ।

कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः

॥५४॥

निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ।

विनेदुश्च महानादाञ्जलदा इव भद्रजाः

॥५५॥

तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ।

कालानलशतैर्युक्तो यथांते कालभैरवः

॥५६॥

तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ।

जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः

॥५७॥

तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ।

बभार मौक्तिकं छत्रं गृहीतसितचामरः

॥५८॥

स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ।

भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः

॥५९॥

सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ।

बालसोमेन सौम्येन यथा शूलवरायुधः

॥६०॥

दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ।

भानुकंपो महातेजा हेमरत्नैरलंकृतः

॥६१॥

देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ।

ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः

॥६२॥

फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ।

मार्गानुकूलसंवाहा वबुश्च पथि मारुताः

॥६३॥

ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ।

ननृतुर्मुमुदुर्१ एदुर्जहसुर्जगदुर्जगुः

॥६४॥

तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ।

यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह

॥६५॥

तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ।

प्रविवेश महाबाहुर्वीरभद्रो महानुगः

॥६६॥

ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ।

प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः

॥६७॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः