ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः
वायुरुवाच
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ।
सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः
॥१॥निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ।
दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः
॥२॥ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन्
॥३॥अमरानपि दुद्राव द्विरदानिव केसरी ।
तानभिद्रवतस्तस्य गमनं सुमनोहरम्
॥४॥वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ।
ततस्तत्क्षोभयामास महत्सुरबलं बली
॥५॥महासरोवरं यद्वन्मत्तो वारणयूथपः ।
विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान्
॥६॥विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ।
छिन्दन्भिन्दन्नुद १ लिन्दन्दारयन्प्रमथन्नपि
॥७॥व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ।
तत्र तत्र महावेगाच्चरंतं शूलधारिणम्
॥८॥तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ।
भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता
॥९॥मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ।
स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः
॥१०॥प्रभयेव युगांताग्निश्चलया धूमधूम्रया ।
भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ
॥११॥कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ।
तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः
॥१२॥भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ।
असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी
॥१३॥रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ।
परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम्
॥१४॥निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ।
सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः
॥१५॥ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ।
चिच्छेद करजाग्रेण देवमातुस्तथैव च
॥१६॥चिच्छेद च कुठारेण बाहुदंडं विभावसोः ।
अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च
॥१७॥स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ।
चकर्त करजाग्रेण वामं च स्तनचूचुकम्
॥१८॥भगस्य विपुले नेत्रे शतपत्रसमप्रभे ।
प्रसह्योत्पाटयामास भद्रः परमवेगवान्
॥१९॥पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ।
जघान धनुषः कोट्या स तेनास्पष्टवागभूत्
॥२०॥ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ।
क्षणं कृमिवदाक्रम्य घर्षयामास भूतले
॥२१॥शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ।
क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत्
॥२२॥तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ।
सा देवी कंडुकक्रीडां चकार समरांगणे
॥२३॥ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ।
पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः
॥२४॥अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ।
बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा
॥२५॥गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ।
भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः
॥२६॥धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ।
यथा कलियुगे जारैर्बलेन कुलयोषितः
॥२७॥तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ।
प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम्
॥२८॥उत्पाटितसुरानीकं हन्यमानं तपोधनम् ।
प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम्
॥२९॥क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ।
शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम्
॥३०॥शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ।
विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः
॥३१॥हतेषु तेषु देवेषु पतितेषुः सहस्रशः ।
प्रविवेश गणेशानः क्षणादाहवनीयकम्
॥३२॥प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ।
दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः
॥३३॥स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ।
भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान्
॥३४॥आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ।
नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः
॥३५॥तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ।
शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम्
॥३६॥महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ।
मृगरूपेण धावन्तं विशिरस्कं तदाकरोत्
॥३७॥तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ।
विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः
॥३८॥तमुवाह महावेगात्स्कन्धेन नतसंधिना ।
सर्वेषां वयसां राजा गरुडः पन्नगाशनः
॥३९॥देवाश्च हतशिष्टा ये देवराजपुरोगमाः ।
प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः
॥४०॥विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ।
दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः
॥४१॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः