मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय २८

3
वायवीयसंहिता · पूर्वभागः · 28

देवीं समादधानेन देवेनेदं किमीरितम्

ऋषय ऊचुः

देवीं समादधानेन देवेनेदं किमीरितम् ।

अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि

॥१॥

आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ।

तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः

॥२॥

वायुरुवाच

अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ।

सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः

॥३॥

अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ।

भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी

॥४॥

द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ।

तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका

॥५॥

विद्युदादिमयन्तेजो मधुरादिमयो रसः ।

तेजोरसविभेदैस्तु धृतमेतच्चराचरम्

॥६॥

अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।

अत एव हि विक्रान्तमग्नीषोमं जगद्धितम्

॥७॥

हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ।

वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत्

॥८॥

अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ।

यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः

॥९॥

अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ।

यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत्

॥१०॥

आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ।

तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः

॥११॥

शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ।

तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन

॥१२॥

असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ।

अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः

॥१३॥

यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ।

अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते

॥१४॥

अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ।

अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते

॥१५॥

योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।

शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत्

॥१६॥

अतो मृत्युंजयायेत्थममृतप्लावनं सदा ।

शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः

॥१७॥

यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ।

अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते

॥१८॥

शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ।

प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते

॥१९॥

हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ।

अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः

॥२०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः