मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ३५

3
वायवीयसंहिता · पूर्वभागः · 35

उपमन्युचरितवर्णनम्

वायुरुवाच

अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् ।

प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः

॥१॥

श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ।

किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः

॥२॥

जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ।

दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः

॥३॥

विष्णुरुवाच

भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ।

क्षीरार्थमदहत्सर्वं तपसा तन्निवारय

॥४॥

वायुरुवाच

इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ।

शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम्

॥५॥

तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः ।

जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान्

॥६॥

एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ।

शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः

॥७॥

अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ।

सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः

॥८॥

स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ।

दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम्

॥९॥

रराज भगवान्सोमः शक्ररूपी सदाशिवः ।

तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः

॥१०॥

आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ।

जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम्

॥११॥

तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ।

प्रणम्य शिरसा प्राह महामुनिवरः स्वयम्

॥१२॥

उपमन्युरुवाच

पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ।

प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम

॥१३॥

वायुरुवाच

एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् ।

प्राह गंभीरया वाचा शक्ररूपधरो हरः

॥१४॥

शक्र उवाच

तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ।

ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने

॥१५॥

वायुरुवाच

एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः ।

वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः

॥१६॥

तन्निशम्य हरिः १ प्राह मां न जानासि लेखपम् ।

त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्

॥१७॥

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।

ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम्

॥१८॥

रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ।

देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः

॥१९॥

वायुरुवाच

तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ।

मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम्

॥२०॥

उपमन्युरुवाच

त्वयैवं कथितं सर्वं भवनिंदारतेन वै ।

प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः

॥२१॥

त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।

ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम्

॥२२॥

सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।

नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम्

॥२३॥

हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ।

उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम्

॥२४॥

नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ।

ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः

॥२५॥

बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ।

भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत्

॥२६॥

श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् ।

स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति

॥२७॥

आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ।

निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम्

॥२८॥

वायुरुवाच

एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ।

क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः

॥२९॥

भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् ।

विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा

॥३०॥

स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः ।

आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः

॥३१॥

एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ।

वारयामास सौम्येन धारणां तस्य योगिनः

॥३२॥

तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः ।

जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः

॥३३॥

स्वं रूपमेव भगवानास्थाय परमेश्वरः ।

दर्शयामास शिप्राय बालेन्दुकृतशेखरम्

॥३४॥

क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ।

दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च

॥३५॥

फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ।

अपूपानां गिरिं चैव दर्शयामास स प्रभुः

॥३६॥

एवं स ददृशे देवो देव्या सार्धं वृषोपरि ।

गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः

॥३७॥

दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ।

विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश

॥३८॥

अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ।

पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा

॥३९॥

एतस्मिन्समये तत्र सस्मितो भगवान्भवः ।

एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान्

॥४०॥

शिव उवाच

भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ।

सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम

॥४१॥

उपमन्यो महाभाग तवाम्बैषा हि पार्वती ।

मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः

॥४२॥

मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ।

आज्यौदनार्णवश्चैव फलाद्यर्णव एव च

॥४३॥

अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ।

एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने

॥४४॥

पिता तव महादेवो माता वै जगदम्बिका ।

अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम्

॥४५॥

वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ।

प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा

॥४६॥

वायुरुवाच

एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ।

मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत्

॥४७॥

देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ।

विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम्

॥४८॥

क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ।

उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम्

॥४९॥

योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ।

समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः

॥५०॥

अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ।

पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे

॥५१॥

व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ।

ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम्

॥५२॥

सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ।

तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत्

॥५३॥

ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ।

ययाचे स वरं विप्रो देवदेवान्महेश्वरात्

॥५४॥

उपमन्युरुवाच

प्रसीद देवदेवेश प्रसीद परमेश्वर ।

स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम्

॥५५॥

श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ।

स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा

॥५६॥

एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ।

सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः

॥५७॥

उपमन्युरुवाच

देवदेव महादेव शरणागतवत्सल ।

प्रसीद करुणासिंधो साम्ब शंकर सर्वदा

॥५८॥

वायुरुवाच

एवमुक्तो महादेवः सर्वेषां च वरप्रदः ।

प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम्

॥५९॥

शिव उवाच

वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ।

दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि

॥६०॥

अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ।

यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः

॥६१॥

अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ।

भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती

॥६२॥

सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ।

उपकंठं मम त्वं वै सानन्दं विहरिष्यसि

॥६३॥

एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ।

ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः

॥६४॥

उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ।

जगाम जननीस्थानं सुखं प्रापाधिकं च सः

॥६५॥

इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः समाप्तो ऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ।