ओं नमस्समस्तसंसारचक्रभ्रमणहेतवे
ओं नमस्समस्तसंसारचक्रभ्रमणहेतवे ।
गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे
॥१॥सूत उवाच
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ।
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे
॥२॥ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ।
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम्
॥३॥कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ।
भगवंतमुपायांतं समीक्ष्य समुपाविशन्
॥४॥अथासौ नियमस्यांते भगवानम्बरोद्भवः ।
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम्
॥५॥सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ।
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत्
॥६॥तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ।
विभूतिस्सकलं यस्य चराचरमिदं जगत्
॥७॥इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ।
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः
॥८॥ऋषय ऊचुः
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ।
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात्
॥९॥दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ।
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम्
॥१०॥प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ।
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम्
॥११॥वायुरुवाच
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ।
निंदयन्निव मानुष्यं देहशुद्धिं चकार सः
॥१२॥पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ।
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम्
॥१३॥भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ।
रुद्राक्षमालाभरणं जटामंडलमंडितम्
॥१४॥तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ।
शिवध्यानरतं शांतमुपमन्युं महाद्युतिम्
॥१५॥नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ।
बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ।
स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः
॥१६॥तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ।
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च
॥१७॥तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ।
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात्
॥१८॥अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ।
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम्
॥१९॥तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ।
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे
॥२०॥ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ।
तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम्
॥२१॥तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ।
श्रिया परमया युक्तस्सांबश्च सगणश्शिवः
॥२२॥वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ।
स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः
॥२३॥सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ।
तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै
॥२४॥यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ।
तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः
॥२५॥तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ।
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात्
॥२६॥य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ।
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते
॥२७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः