हरिविधिमोहनिवारणम्
उपमन्युरुवाच
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ।
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम्
॥१॥तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ।
रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम्
॥२॥तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ।
अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया
॥३॥तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ।
उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः
॥४॥अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ।
विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे
॥५॥विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ।
वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः
॥६॥तत्राकारो ऋगभवदुकारो यजुरव्ययः ।
मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः
॥७॥ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ।
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि
॥८॥सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ।
कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु
॥९॥लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ।
चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु
॥१०॥तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ।
अथोपस्थापयामास स्वार्थं दशविधं यजुः
॥११॥सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ।
स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु
॥१२॥कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ।
मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु
॥१३॥प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ।
ततोपस्थापयामास सामार्थं दशधात्मनः
॥१४॥तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ।
संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम्
॥१५॥विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ।
लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये
॥१६॥पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ।
अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः
॥१७॥ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ।
क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः
॥१८॥भूतानुग्रहणं चैव मुच्यंते येन जंतवः ।
लोकेष्वपि यतो वाचो निवृत्ता मनसा सह
॥१९॥तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ।
सोमस्सहोमया यत्र नित्यं निवसतीश्वरः
॥२०॥तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ।
शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि
॥२१॥तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ।
मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम्
॥२२॥यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ।
तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात्
॥२३॥तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ।
कारणेषु त्रयातीतान्मायाविक्षोभकारणात्
॥२४॥अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ।
सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात्
॥२५॥सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ।
पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात्
॥२६॥तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ।
ततः परान्निशाधीशान्नादाख्याच्च ततः परात्
॥२७॥ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ।
ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः
॥२८॥परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ।
कारणानां च धातारं ध्यातारां ध्येयमव्ययम्
॥२९॥परमाकाशमध्यस्थं परमात्मोपरि स्थितं ।
सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम्
॥३०॥ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ।
अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात्
॥३१॥तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ।
परमं परमैश्वर्यमुन्मनाद्यमनादि च
॥३२॥अपारमपराधीनं निरस्तातिशयं स्थिरम् ।
इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः
॥३३॥यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ।
ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते
॥३४॥येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ।
यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते
॥३५॥भोग्यात्मना परिणता विद्यावेद्या यतो मयि ।
साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते
॥३६॥ममार्थेन शिवेनेदं तामसेनाभिधीयते ।
अथर्वाह तुरायाख्यं तुरीयातीतमेव च
॥३७॥मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ।
अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम्
॥३८॥तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ।
अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम्
॥३९॥तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ।
द्वयोः प्रमापको नादो नदांतश्च मदात्मकः
॥४०॥तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ।
यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः
॥४१॥समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ।
सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम्
॥४२॥तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ।
शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः
॥४३॥वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ।
चिंतया रहितो रुद्रो वाचोयन्मनसा सह
॥४४॥अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ।
एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते
॥४५॥एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ।
एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः
॥४६॥दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ।
वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः
॥४७॥हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ।
सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः
॥४८॥संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः
॥४९॥तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ।
कारणत्रयहेतुश्च शिवः परमकारणम्
॥५०॥अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ।
युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम्
॥५१॥एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ।
ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः
॥५२॥वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ।
स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते
॥५३॥तयोस्तत्र प्रबोधाय तमोपनयनाय च ।
लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम्
॥५४॥तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ।
प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः
॥५५॥उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ।
ततः परतरं धाम धामवंतं च पूरुषम्
॥५६॥निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ।
पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम्
॥५७॥अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ।
वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम्
॥५८॥निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ।
अलक्षणमनिर्देश्यमवाङ्मनसगोचरम्
॥५९॥प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ।
सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम्
॥६०॥ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ।
रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः
॥६१॥ब्रह्मोवाच अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ।
ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति
॥६२॥आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ।
निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा
॥६३॥आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ।
पादप्रणामफलदो नाथस्य भवतो यतः
॥६४॥विष्णुरुवाच
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ।
प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः
॥६५॥किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ।
अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम्
॥६६॥कारणत्वं त्वया दत्तं विस्मृतं तव मायया ।
मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः
॥६७॥विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ।
यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः
॥६८॥त्वामुशंति महादेवं भीतानामार्तिनाशनम् ।
अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर
॥६९॥इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ।
प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत
॥७०॥ईश्वर उवाच
वत्सवत्स विधे विष्णो मायया मम मोहितौ ।
युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम्
॥७१॥विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ।
ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः
॥७२॥अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ।
तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु
॥७३॥एवं निवारितावद्यलिंगाविर्भावलीलया ।
तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः
॥७४॥यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ।
पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः
॥७५॥युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ।
मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम्
॥७६॥मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ।
ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया
॥७७॥यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ।
एवमुक्त्वा महादेवो नारायणपितामहौ
॥७८॥मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ।
तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम्
॥७९॥महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ।
दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः
॥८०॥अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ।
एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम्
॥८१॥लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ।
ततो विलप्य हाहेति सद्यःप्रणयभंगतः
॥८२॥किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ।
अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ
॥८३॥अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ।
जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ
॥८४॥ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ।
ऋषयश्च नरा नागा नार्यश्चापि विधानतः ।
लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च
॥८५॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः