मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ३६

3
वायवीयसंहिता · उत्तरभागः · 36

प्रतिष्ठाविधिवर्णनम्

श्रीकृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ।

लिंगस्यापि च बेरस्य शिवेन विहितं यथा

॥१॥

उपमन्युरुवाच

अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ।

शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत्

॥२॥

स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ।

दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान्

॥३॥

तेषां दशोपचाराणां पूर्वं पूज्य १ विनायकम् ।

स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत्

॥४॥

शलाकया कांचनया २ कुंकुमादिरसाक्तया ।

लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः

॥५॥

अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ।

लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत्

॥६॥

सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ।

नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह

॥७॥

अधिवासालये शुद्धे सर्वशोभासमन्विते ।

सतोरणे सावरणे दर्भमालासमावृते

॥८॥

दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ।

अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते

॥९॥

तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ।

विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम्

॥१०॥

द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ।

समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः

॥११॥

स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ।

सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः

॥१२॥

प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ।

प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे

॥१३॥

सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ।

पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा

॥१४॥

विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ।

संपूज्योत्सवमार्गेण शयनालयमानयेत्

॥१५॥

तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ।

शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात्

॥१६॥

ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ।

शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत्

॥१७॥

वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ।

तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत्

॥१८॥

क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ।

प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत्

॥१९॥

तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ।

रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः

॥२०॥

सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ।

पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम्

॥२१॥

विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ।

परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः

॥२२॥

ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ।

चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः

॥२३॥

जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ।

दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा

॥२४॥

प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ।

आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः

॥२५॥

प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ।

पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम्

॥२६॥

मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ।

शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः

॥२७॥

हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ।

पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम्

॥२८॥

आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ।

तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः

॥२९॥

ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ।

मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च

॥३०॥

शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ।

करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः

॥३१॥

हरितालादिधातूंश्च बीजगंधौषधैरपि ।

शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि

॥३२॥

प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ।

स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि

॥३३॥

प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ।

पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन्

॥३४॥

बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ।

दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः

॥३५॥

यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ।

आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात्

॥३६॥

महापूजामथारभ्य संपूज्य कलशान्दश ।

शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे

॥३७॥

अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ।

न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित्

॥३८॥

शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ।

लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत्

॥३९॥

वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ।

अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत्

॥४०॥

कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ।

आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः

॥४१॥

वृषाधिराजमारुह्य विमानं वा नभस्तलात् ।

अलंकृतं सहायांतं देव्या देवमनुस्मरन् ।

सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः

॥४२॥

ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ।

आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः

॥४३॥

स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ।

ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत्

॥४४॥

नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ।

प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः

॥४५॥

लक्षणोद्धारसमये कार्यं नयनमोचनम् ।

जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम्

॥४६॥

कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ।

कृतालयां परामाहुः प्रतिष्ठामकृतालयात्

॥४७॥

शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ।

अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा

॥४८॥

शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ।

गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम्

॥४९॥

कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ।

अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने

॥५०॥

देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ।

विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च

॥५१॥

परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ।

पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः

॥५२॥

न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ।

विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा

॥५३॥

स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ।

निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः

॥५४॥

समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ।

कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया

॥५५॥

ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ।

नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम्

॥५६॥

एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ।

न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत्

॥५७॥

अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ।

संप्रोक्षयेदुपहतमनागुपहतं यजेत्

॥५८॥

लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ।

तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः

॥५९॥

शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ।

स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च

॥६०॥

अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ।

यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते

॥६१॥

दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ।

संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत्

॥६२॥

बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ।

उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत्

॥६३॥

एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ।

द्विरात्रे च महापूजां संप्रोक्षणमतः परम्

॥६४॥

मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ।

प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः

॥६५॥

संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ।

अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा

॥६६॥

गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ।

प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम्

॥६७॥

सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ।

पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः

॥६८॥

ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ।

पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत्

॥६९॥

अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ।

वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत्

॥७०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः