ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः
उपमन्युरुवाच
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ।
गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः
॥१॥अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ।
नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः
॥२॥बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ।
यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत्
॥३॥तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ।
पूजयेद्देवमीशानं जुहुयाच्च शिवानले
॥४॥शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ।
शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया
॥५॥ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ।
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम्
॥६॥वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ।
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम्
॥७॥मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ।
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु
॥८॥सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ।
कृत्वात्मानं समादाय द्वादशांते निवेद्य च
॥९॥ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ।
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु
॥१०॥देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ।
जात्यैकया च मानुष्या योनयश्च चतुर्दश
॥११॥तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ।
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत्
॥१२॥गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ।
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत्
॥१३॥निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ।
आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा
॥१४॥निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ।
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः
॥१५॥भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ।
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः
॥१६॥निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ।
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम्
॥१७॥हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ।
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत्
॥१८॥पितामह त्वया नास्य यातुः शैवं परं पदम् ।
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी
॥१९॥इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ।
समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम्
॥२०॥निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ।
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः
॥२१॥हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ।
कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह
॥२२॥संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ।
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत्
॥२३॥ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ।
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत्
॥२४॥पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ।
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः
॥२५॥विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ।
प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा
॥२६॥कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ।
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत्
॥२७॥नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ।
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना
॥२८॥तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ।
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत्
॥२९॥स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ।
बालार्कसदृशाकारां भासयंतीं दिशो दश
॥३०॥ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ।
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत्
॥३१॥महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ।
शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत्
॥३२॥स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ।
नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत्
॥३३॥कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ।
तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः
॥३४॥तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ।
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत्
॥३५॥ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ।
विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत्
॥३६॥षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ।
कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत्
॥३७॥तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ।
प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः
॥३८॥कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ।
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम्
॥३९॥वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ।
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत्
॥४०॥ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ।
प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत्
॥४१॥पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ।
वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम्
॥४२॥उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ।
पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये
॥४३॥मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ।
तत्र शंभुं समाराध्य मंडलस्थं सहांबया ।
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः
॥४४॥भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ।
कृता तस्मात्परं धाम गमयैनं तवाव्ययम्
॥४५॥इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ।
पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत्
॥४६॥स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ।
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि
॥४७॥भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ।
भूतानि स्थितयोगेन यो जपेत्परमे शिवे
॥४८॥विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ।
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः
॥४९॥तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ।
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा
॥५०॥विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ।
जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत्
॥५१॥स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ।
बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत्
॥५२॥आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ।
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान्
॥५३॥अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ।
तथैव तु गुणानेव पुनरस्योपपादयेत्
॥५४॥सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ।
अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च
॥५५॥ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ।
अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम्
॥५६॥अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ।
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत्
॥५७॥ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ।
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम्
॥५८॥ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ।
पूजां सावरणां शम्भोरासनानि च सन्दिशेत्
॥५९॥पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ।
सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम्
॥६०॥सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ।
प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि
॥६१॥ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात्
॥६२॥सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः
॥६३॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः