मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय १३

3
वायवीयसंहिता · उत्तरभागः · 13

पञ्चाक्षरमाहात्म्यवर्णनम्

देव्युवाच कलौ कलुषिते काले दुर्जये दुरतिक्रमे ।

अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे

॥१॥

क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ।

सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये

॥२॥

तदोपदेशे विहते गुरुशिष्यक्रमे गते ।

केनोपायेन मुच्यंते भक्तास्तव महेश्वर

॥३॥

ईश्वर उवाच

आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ।

भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः

॥४॥

मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ।

दूषितानां कृतघ्नानां निंदकानां छलात्मनाम्

॥५॥

लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ।

मम पञ्चाक्षरी विद्या संसारभयतारिणी

॥६॥

मयैवमसकृद्देवि प्रतिज्ञातं धरातले ।

पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया

॥७॥

देव्युवाच कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ।

कर्मायोगेन यत्कर्म कृतं च नरकाय हि ।

ततः कथं विमुच्येत पतितो विद्यया ऽनया

॥८॥

ईश्वर उवाच

तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ।

रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा

॥९॥

समंत्रकं मां पतितः पूजयेद्यदि मोहितः ।

नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना

॥१०॥

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ।

तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः

॥११॥

भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ।

सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात्

॥१२॥

तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ।

पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः

॥१३॥

बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ।

पूजयेन्मां स मुच्येत नात्र कार्या विचारणा

॥१४॥

अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ।

पूजयेत्पतितो वापि मूढो वा मुच्यते नरः

॥१५॥

षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ।

स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते

॥१६॥

पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ।

मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा

॥१७॥

अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ।

तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत्

॥१८॥

लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ।

ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात्

॥१९॥

किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ।

मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः

॥२०॥

पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ।

तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत्

॥२१॥

प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ।

सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति

॥२२॥

एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ।

तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः

॥२३॥

ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ।

ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः

॥२४॥

गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ।

तदा नारायणश्शेते देवो मायामयीं तनुम्

॥२५॥

आस्थाय भोगिपर्यंकशयने तोयमध्यगः ।

तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः

॥२६॥

सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ।

मुनीन्दश ससर्जादौ मानसानमितौजसः

॥२७॥

तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ।

मत्पुत्राणां महादेव शक्तिं देहि महेश्वर

॥२८॥

इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ।

पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये

॥२९॥

स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ।

वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम्

॥३०॥

ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ।

पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम्

॥३१॥

ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ।

तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः

॥३२॥

मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ।

मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा

॥३३॥

तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ।

दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन्

॥३४॥

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ।

ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम्

॥३५॥

न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ।

प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये

॥३६॥

ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ।

सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम्

॥३७॥

अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ।

आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम्

॥३८॥

सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ।

सर्वजातस्य सर्वस्य बीजभूता सनातनी

॥३९॥

प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ।

तप्तचामीकरप्रख्या पीनोन्नतपयोधरा

॥४०॥

चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ।

पद्मोत्पलकरा सौम्या वरदाभयपाणिका

॥४१॥

सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ।

सितपद्मासनासीना नीलकुंचितमूर्धजा

॥४२॥

अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ।

पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च

॥४३॥

पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ।

अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः

॥४४॥

बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ।

दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत्

॥४५॥

वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ।

देवता शिव एवाहं मन्त्रस्यास्य वरानने

॥४६॥

गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ।

भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः

॥४७॥

गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ।

इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः

॥४८॥

मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ।

पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम्

॥४९॥

अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ।

पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः

॥५०॥

मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ।

नामान्यस्य विजानीयाच्छैवं मे हृदयं महत्

॥५१॥

नकारश्शिर उच्येत मकारस्तु शिखोच्यते ।

शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते

॥५२॥

यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ।

फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा

॥५३॥

तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ।

तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः

॥५४॥

तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ।

आवयोरर्चनं कुर्याज्जपहोमादिकं तथा

॥५५॥

यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ।

यथाशक्ति यथासंपद्यथायोगं यथारति

॥५६॥

यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ।

येन केनापि वा देवि पूजा मुक्तिं नयिष्यते

॥५७॥

मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ।

मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा

॥५८॥

तथापि मम भक्ता ये नात्यंतविवशाः पुनः ।

तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः

॥५९॥

तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ।

यं विना निष्फलं जाप्यं येन वा सफलं भवेत्

॥६०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः