मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ८

3
वायवीयसंहिता · उत्तरभागः · 8

भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम्

कृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ।

वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये

॥१॥

अभक्तानामबुद्धीनामयुक्तानामगोचरम् ।

अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम्

॥२॥

वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ।

वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः

॥३॥

शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ।

कथितं परमेशेन तत्र पूजा कथं प्रभोः

॥४॥

कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ।

तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत

॥५॥

उपमन्युरुवाच

शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ।

स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम्

॥६॥

गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ।

कथयिष्ये समासेन तस्य शक्यो न विस्तरः

॥७॥

सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ।

सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः

॥८॥

जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ।

देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम्

॥९॥

ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ।

तं जायमानं जनको देवः प्रापश्यदाज्ञया

॥१०॥

दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ।

वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक्

॥११॥

सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ।

धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः

॥१२॥

ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ।

प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः

॥१३॥

अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ।

तमपृच्छंस्ततो देवाः को भवानिति मोहिताः

॥१४॥

सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ।

आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः

॥१५॥

भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ।

अहमेव जगत्सर्वं तर्पयामि स्वतेजसा

॥१६॥

मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ।

इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ।

अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः

॥१७॥

व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ।

भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा

॥१८॥

अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः

॥१९॥

सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ।

यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः

॥२०॥

हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ।

यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम्

॥२१॥

तामपश्यन्महेशस्य वामतो वामलोचनाम् ।

ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम्

॥२२॥

नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ।

अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम्

॥२३॥

स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ।

देवो ऽपि देवानालोक्य घृणया वृषभध्वजः

॥२४॥

तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ।

अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ।

अर्थमहत्तमं देवाः पप्रच्छुरिममादरात्

॥२५॥

देवा ऊचुः

भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ।

कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः

॥२६॥

ततः सस्मितमालोक्य देवीं देववरोहरः ।

स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम्

॥२७॥

सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ।

शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम्

॥२८॥

अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ।

दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः

॥२९॥

बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ।

पञ्चभूतानि शेषाणि तन्मयं च चराचरम्

॥३०॥

एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै

॥३१॥

सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ।

पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय

॥३२॥

सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ।

प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद

॥३३॥

नमश्शिवाय शांताय सगणायादिहेतवे ।

रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये

॥३४॥

यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ।

प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम्

॥३५॥

प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ।

न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम्

॥३६॥

तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ।

धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा

॥३७॥

अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ।

सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः

॥३८॥

तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ।

ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम्

॥३९॥

अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ।

भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी

॥४०॥

तया स चोदितो देवो देव्या चन्द्रविभूषणः ।

अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम्

॥४१॥

प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ।

मयागस्त्येन गुरुणा दधीचेन महर्षिणा

॥४२॥

स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ।

स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम्

॥४३॥

ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ।

मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः

॥४४॥

सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ।

शततेजास्स्वयं धर्मो नारायण इति श्रुतः

॥४५॥

स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ।

कृतंजयो भरद्वाजो गौतमः कविरुत्तमः

॥४६॥

वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ।

तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः

॥४७॥

जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ।

व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात्

॥४८॥

लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ।

योगाचार्यावताराश्च तथा शिष्येषु शूलिनः

॥४९॥

तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ।

शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः

॥५०॥

तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ।

भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः

॥५१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः