स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः
उपमन्युरुवाच
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते
॥१॥जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ।
अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम्
॥२॥स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ।
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव
॥३॥अनन्तकांतिसंपन्न जयासदृशविग्रह ।
अतर्क्यमहिमाधार जयानाकुलमंगल
॥४॥निरंजन निराधार जय निष्कारणोदय ।
निरन्तरपरानन्द जय निर्वृतिकारण
॥५॥जयातिपरमैश्वर्य जयातिकरुणास्पद ।
जय स्वतंत्रसर्वस्व जयासदृशवैभव
॥६॥जयावृतमहाविश्व जयानावृत केनचित् ।
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर
॥७॥जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ।
जयामेय जयामाय जयाभाव जयामल
॥८॥महाभुज महासार महागुण महाकथ ।
महाबल महामाय महारस महारथ
॥९॥नमः परमदेवाय नमः परमहेतवे ।
नमश्शिवाय शांताय नमश्शिवतराय ते
॥१०॥त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम्
॥११॥अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम्
॥१२॥अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ।
भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु
॥१३॥जयांबिके जगन्मातर्जय सर्वजगन्मयि ।
जयानवधिकैश्वर्ये जयानुपमविग्रहे
॥१४॥जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ।
जय जन्मजराहीने जय कालोत्तरोत्तरे
॥१५॥जयानेकविधानस्थे जय विश्वेश्वरप्रिये ।
जय विश्वसुराराध्ये जय विश्वविजृंभिणि
॥१६॥जय मंगलदिव्यांगि जय मंगलदीपिके ।
जय मंगलचारित्रे जय मंगलदायिनि
॥१७॥नमः परमकल्याणगुणसंचयमूर्तये ।
त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते
॥१८॥त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ।
जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः
॥१९॥अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ।
पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः
॥२०॥वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ।
शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ।
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु
॥२१॥सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ।
जननी सर्वलोकानां प्रयच्छतु मनोरथम्
॥२२॥शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ।
शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ
॥२३॥तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ।
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि
॥२४॥सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ।
स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः
॥२५॥ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ।
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम्
॥२६॥शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ।
मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः
॥२७॥शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ।
पञ्चाक्षरांतिमं बीजं कलाभिः पञ्चभिर्युतम्
॥२८॥प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
॥२९॥बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ।
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः
॥३०॥शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ।
प्रथमं शिवबीजेषु कलासु च चतुष्कलम्
॥३१॥पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
॥३२॥अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ।
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम्
॥३३॥विद्यापादं समारूढं वह्निमण्डलमध्यगम् ।
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम्
॥३४॥शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु
॥३५॥कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम्
॥३६॥वारिमंडलमध्यस्थं महादेवार्चने रतम् ।
तुरीयं शिवबीजेषु त्रयोदशकलान्वितम्
॥३७॥देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
॥३८॥शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ।
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम्
॥३९॥निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ।
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम्
॥४०॥देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
॥४१॥शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ।
तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम्
॥४२॥शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
॥४३॥शिवस्य च शिवायाश्च वर्मणा शिवभाविते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
॥४४॥शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
॥४५॥अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
॥४६॥वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ।
बलो विकरणश्चैव बलप्रमथनः परः
॥४७॥सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ।
प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात्
॥४८॥अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ।
एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः
॥४९॥तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ।
ते मे कामं प्रयच्छंतु शिवयोरेव शासनात्
॥५०॥भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ।
महादेवादयश्चान्ये तथैकादशमूर्तयः
॥५१॥शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ।
सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम्
॥५२॥वृक्षराजो महातेजा महामेघसमस्वनः ।
मेरुमंदरकैलासहिमाद्रिशिखरोपमः
॥५३॥सिताभ्रशिखराकारः ककुदा परिशोभितः ।
महाभोगींद्रकल्पेन वालेन च विराजितः
॥५४॥रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ।
पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः
॥५५॥प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ।
शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः
॥५६॥तथा तच्चरणन्यासपावितापरविग्रहः ।
गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
॥५७॥नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ।
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः
॥५८॥शर्वस्यांतःपुरद्वारि सार्धं परिजनैः स्थितः ।
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः
॥५९॥सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ।
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः
॥६०॥शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ।
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु
॥६१॥महाकालो महाबाहुर्महादेव इवापरः ।
महादेवाश्रितानां १ तु नित्यमेवाभिरक्षतु
॥६२॥शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
॥६३॥सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ।
महामोहात्मतनयो मधुमांसासवप्रियः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
॥६४॥ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेंद्री चामुंडा चंडविक्रमा
॥६५॥एता वै मातरः सप्त सर्वलोकस्य मातरः ।
प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात्
॥६६॥मत्तमातंगवदनो गंगोमाशंकरात्मजः ।
आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः
॥६७॥ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ।
शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत्
॥६८॥विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
॥६९॥षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ।
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः
॥७०॥गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ।
विशाखेन च शाखेन नैगमेयेन चावृतः
॥७१॥इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ।
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा
॥७२॥तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ।
कुमारस्सुकुमाराणां रूपोदाहरणं महत्
॥७३॥शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
॥७४॥ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ।
तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम्
॥७५॥त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ।
जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात्
॥७६॥शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ।
दक्षायणी सती मेना तथा हैमवती ह्युमा
॥७७॥कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ।
अपर्णायाश्च जननी पाटलायास्तथैव च
॥७८॥शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ।
सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम्
॥७९॥चंडः सर्वगणेशानः शंभोर्वदनसंभवः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
॥८०॥पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ।
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु
॥८१॥भृंगीशो नाम गणपः शिवराधनतत्परः ।
सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम्
॥८२॥वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ।
भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता
॥८३॥यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ।
उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः
॥८४॥शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ।
शिवयोः शासनादेव स मे दिशतु कांक्षितम्
॥८५॥सरस्वती महेशस्य वाक्सरोजसमुद्भवा ।
शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम्
॥८६॥विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ।
शिवयोः शासनादेव सा मे दिशतु कांक्षितम्
॥८७॥महामोटी महादेव्याः पादपूजापरायणा ।
तस्या एव नियोगेन सा मे दिशतु कांक्षितम्
॥८८॥कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ।
विष्णोर्निद्रामहामाया महामहिषमर्दिनी
॥८९॥निशंभशुंभसंहत्री मधुमांसासवप्रिया ।
सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम्
॥९०॥रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ।
भूताख्याश्च महावीर्या महादेवसमप्रभाः
॥९१॥नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ।
सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः
॥९२॥सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ।
परस्परानुरक्ताश्च परस्परमनुव्रताः
॥९३॥परस्परमतिस्निग्धाः परस्परनमस्कृताः ।
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः
॥९४॥सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ।
विरूपाश्च सुरूपाश्च नानारूपधरास्तथा
॥९५॥सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ।
देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः
॥९६॥सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ।
तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः
॥९७॥सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।
दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः
॥९८॥निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ।
अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः
॥९९॥असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः
॥१००॥चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः
॥१०१॥सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।
दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः
॥१०२॥आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः
॥१०३॥विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ।
उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः
॥१०४॥सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ।
शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे
॥१०५॥अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ।
ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः
॥१०६॥ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ।
सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः
॥१०७॥वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ।
सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे
॥१०८॥ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ।
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः
॥१०९॥निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ।
अविकारात्मको देवस्ततस्साधारणः पुरः
॥११०॥असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः
॥१११॥चतुर्थावरणे शंभो पूजितश्च सहानुगैः ।
शिवप्रियः शिवासक्तश्शिवपादार्चने रतः
॥११२॥सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।
हिरण्यगर्भो लोकेशो विराट्कालश्च पूरुषः
॥११३॥सनत्कुमारः सनकः सनंदश्च सनातनः ।
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः
॥११४॥एकादश सपत्नीका धर्मस्संकल्प एव च ।
शिवार्चनरताश्चैते शिवभक्तिपरायणाः
॥११५॥शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ।
चत्वारश्च तथा वेदास्सेतिहासपुराणकाः
॥११६॥धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ।
परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः
॥११७॥सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ।
अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी
॥११८॥वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ।
शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः
॥११९॥केवलं सात्त्विकश्चापि राजसश्चैव तामसः ।
अविकाररतः पूर्वं ततस्तु समविक्रियः
॥१२०॥असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः
॥१२१॥जनकस्तनयश्चापि विष्णोरपि नियामकः ।
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः
॥१२२॥अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः
॥१२३॥शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ।
तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम्
॥१२४॥चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ।
शिवो भवो हरश्चैव मृडश्चैव तथापरः ।
शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे
॥१२५॥अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ।
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः
॥१२६॥निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ।
अविकाराभिमानी च त्रिसाधारणविक्रियः
॥१२७॥असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
दक्षिणांगभवेनापि स्पर्धमानः स्वयंभुवा
॥१२८॥आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ।
अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः
॥१२९॥असुरांतकरश्चक्री शक्रस्यापि तथानुजः ।
प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह
॥१३०॥भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ।
अप्रमेयबलो मायी मायया मोहयञ्जगत्
॥१३१॥मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ।
वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने
॥१३२॥शिवप्रियः शिवासक्तः शिवपादार्चने रतः ।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम्
॥१३३॥वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ।
संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः
॥१३४॥मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ।
रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः
॥१३५॥चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ।
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे
॥१३६॥प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ।
शिवयोः शासनादेता मंगलं प्रदिशंतु मे
॥१३७॥इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ।
वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक्
॥१३८॥सर्वे शिवार्चनरताः शिवसद्भावभाविताः ।
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे
॥१३९॥त्रिशूलमथ वज्रं च तथा परशुसायकौ ।
खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः
॥१४०॥दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ।
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा
॥१४१॥वृषरूपधरो देवः सौरभेयो महाबलः ।
वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः
॥१४२॥वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
॥१४३॥नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ।
पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः
॥१४४॥शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ।
शिवयोः शासनादेव दिशंतु मम वांछितम्
॥१४५॥क्षेत्रपालो महातेजा नील जीमूतसन्निभः ।
दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः
॥१४६॥रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ।
रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः
॥१४७॥नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ।
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः
॥१४८॥क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ।
शिवप्रणामपरमः शिवसद्भावभावितः
॥१४९॥शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम्
॥१५०॥तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ।
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम्
॥१५१॥भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ।
ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात्
॥१५२॥नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ।
साध्या मागाश्च ये देवा जनलोकनिवासिनः
॥१५३॥विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ।
सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह
॥१५४॥सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ।
शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् १
॥१५५॥गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ।
सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः
॥१५६॥असुरा राक्षसाश्चैव पातालतलवासिनः ।
अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः
॥१५७॥कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः
॥१५८॥क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च
॥१५९॥गिरयश्च सुमेर्वाद्याः कननानि समंततः ।
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः
॥१६०॥भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ।
अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः
॥१६१॥वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ।
ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः
॥१६२॥यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ।
सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात्
॥१६३॥अथ विद्या परा शैवी पशुपाशविमोचिनी ।
पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता
॥१६४॥शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ।
शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम्
॥१६५॥शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ।
शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः
॥१६६॥ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ।
कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम्
॥१६७॥श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ।
तत्संततीया गुरवो विशेषाद्गुरवो मम
॥१६८॥शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ।
कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम्
॥१६९॥लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ।
वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः
॥१७०॥सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ।
सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः
॥१७१॥शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ।
कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम्
॥१७२॥शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ।
शैवा महाव्रतधराः शैवाः कापालिकाः परे
॥१७३॥शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ।
सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम्
॥१७४॥दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ।
अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम
॥१७५॥नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ।
पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम
॥१७६॥बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ।
सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम्
॥१७७॥नमश्शिवाय सांबाय ससुतायादिहेतवे ।
पञ्चावरणरूपेण प्रपञ्चेनावृताय ते
॥१७८॥इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ।
जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम्
॥१७९॥तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ।
कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत्
॥१८०॥एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ।
सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम्
॥१८१॥य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ।
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात्
॥१८२॥गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ।
शरणागतघाती च मित्रविश्रंभघातकः
॥१८३॥दुष्टपापसमाचारो मातृहा पितृहापि वा ।
स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते
॥१८४॥दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ।
यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत्
॥१८५॥आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ।
स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः
॥१८६॥असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ।
संपूज्य च जपे तस्य फलं वक्तुं न शक्यते
॥१८७॥आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ।
सार्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति
॥१८८॥तस्मान्नभसि संपूज्य देवं देवं सहोमया ।
कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत्
॥१८९॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः