सांगोपांगपूजाविधानवर्णनम्
उपमन्युरुवाच
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ।
मातृहा पितृहा वापि वीरहा भ्रूणहापि वा
॥१॥संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ।
तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात्
॥२॥तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ।
भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः
॥३॥कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ।
पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते
॥४॥अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ।
तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः
॥५॥भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ।
सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात्
॥६॥तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ।
शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः
॥७॥बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ।
पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा
॥८॥अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ।
यः सकृत्पतितो वापिमूढो वा मुच्यते नरः
॥९॥षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ।
शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च
॥१०॥अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ।
स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते
॥११॥तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ।
एककालं द्विकालं वा त्रिकालं नित्यमेव वा
॥१२॥ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ।
ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः
॥१३॥स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ।
दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम्
॥१४॥निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ।
दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम्
॥१५॥तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ।
भवभक्तिपरा ये च भवप्रणतचेतसः
॥१६॥भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ।
भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः
॥१७॥धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ।
ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये
॥१८॥ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ।
सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता
॥१९॥शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ।
तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः
॥२०॥शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ।
त्वरितं जीवितं याति त्वरितं याति यौवनम्
॥२१॥त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ।
यावन्नायाति मरणं यावन्नाक्रमते जरा
॥२२॥यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ।
न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये
॥२३॥इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ।
द्वारयागं जवनिकां परिवारबलिक्रियाम्
॥२४॥नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ।
हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा
॥२५॥प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ।
निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः
॥२६॥पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ।
ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः
॥२७॥ततो निवेदितं देवे यत्तदन्नादिकं पुरा ।
तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत्
॥२८॥हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ।
कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः
॥२९॥नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ।
विपुले तैजसे पात्रे रक्तपद्मोपशोभिते
॥३०॥अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ।
शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च
॥३१॥न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ।
प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः
॥३२॥नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ।
प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम्
॥३३॥महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ।
पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ।
आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः
॥३४॥प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ।
आदाय चाष्टपुष्पाणि पूजामथ समापयेत्
॥३५॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः