मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ४

3
वायवीयसंहिता · उत्तरभागः · 4

गौरीशंकरविभूतियोगः

कृष्ण उवाच

भगवन्परमेशस्य शर्वस्यामिततेजसः ।

मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम्

॥१॥

अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ।

स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम्

॥२॥

उपमन्युरुवाच

श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ।

वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते

॥३॥

शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ।

तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम्

॥४॥

वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ।

द्वयं शुद्धमशुद्धं च परं चापरमेव च

॥५॥

यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ।

तदेवाशुद्धमपरमितरं तु परं शुभम्

॥६॥

अपरं च परं चैव द्वयं चिदचिदात्मकम् ।

शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः

॥७॥

शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ।

ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ

॥८॥

यथा शिवस्तथा देवी यथा देवी तथा शिवः ।

नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव

॥९॥

चंद्रो न खलु भात्येष यथा चंद्रिकया विना ।

न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः

॥१०॥

प्रभया हि विनायद्वद्भानुरेष न विद्यते ।

प्रभा च भानुना तेन सुतरां तदुपाश्रया

॥११॥

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या च विना शिवः

॥१२॥

शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ।

आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया

॥१३॥

यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ।

समानधर्मिणीमेव शिवस्य परमात्मनः

॥१४॥

सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ।

विभज्य बहुधा विश्वं विदधाति शिवेच्छया

॥१५॥

सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ।

शिवया च विपर्यस्तं यया ततमिदं जगत्

॥१६॥

एकधा च द्विधा चैव तथा शतसहस्रधा ।

शक्तयः खलु भिद्यंते बहुधा व्यवहारतः

॥१७॥

शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ।

ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव

॥१८॥

ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ।

तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ

॥१९॥

नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ।

तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात्

॥२०॥

सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ।

या सा वर्णस्वरूपेण मातृकेपि विजृम्भते

॥२१॥

अथानंतसमावेशान्माया कालमवासृजत् ।

नियतिञ्च कलां विद्यां कलातोरागपूरुषौ

॥२२॥

मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ।

त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः

॥२३॥

सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ।

गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः

॥२४॥

अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ।

तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ।

अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः

॥२५॥

शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ।

नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः

॥२६॥

रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ।

ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते

॥२७॥

किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ।

शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना

॥२८॥

तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ।

कला या परमा शक्तिः कथिता परमात्मनः

॥२९॥

एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ।

स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः

॥३०॥

ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ।

शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति

॥३१॥

इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ।

इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका

॥३२॥

ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ।

प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति

॥३३॥

यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ।

कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी

॥३४॥

यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ।

शक्त्या परमया नुन्ना प्रसूते सकलं जगत्

॥३५॥

एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ।

शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत्

॥३६॥

यथा न जायते पुत्रः पितरं मातरं विना ।

तथा भवं भवानीं च विना नैतच्चराचरम् ।

स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च

॥३७॥

स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ।

परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता

॥३८॥

शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ।

शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते

॥३९॥

पुरुषः परमेशानः प्रकृतिः परमेश्वरी ।

रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा

॥४०॥

विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ।

ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया

॥४१॥

भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ।

महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका

॥४२॥

जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ।

यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका

॥४३॥

निरृतिर्भगवानीशो नैरृती नगनंदनी ।

वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा

॥४४॥

बालेंदुशेखरो वायुः शिवा शिवमनोहरा ।

यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा

॥४५॥

चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ।

ईशानः परमेशानस्तदार्या परमेश्वरी

॥४६॥

अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ।

कालाग्निरुद्रः कालारिः काली कालांतकप्रिया

॥४७॥

पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ।

दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी

॥४८॥

रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ।

भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया

॥४९॥

मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ।

गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता

॥५०॥

पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ।

पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया

॥५१॥

क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ।

त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः

॥५२॥

कश्यपः कालहा देवो देवमाता महेश्वरी ।

वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती

॥५३॥

शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ।

सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः

॥५४॥

विषयी भगवानीशो विषयः परमेश्वरी ।

श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः

॥५५॥

प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ।

प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः

॥५६॥

द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ।

द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः

॥५७॥

रसजातं महादेवी देवो रसयिता शिवः ।

प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः

॥५८॥

मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ।

मंता स एव विश्वात्मा महादेवो महेश्वरः

॥५९॥

बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ।

देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः

॥६०॥

प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ।

प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी

॥६१॥

बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ।

क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः

॥६२॥

अहः शूलायुधो देवः शूलपाणिप्रिया निशा ।

आकाशः शंकरो देवः पृथिवी शंकरप्रिया

॥६३॥

समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ।

वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया

॥६४॥

पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ।

स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा

॥६५॥

शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ।

अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः

॥६६॥

यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ।

सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः

॥६७॥

यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ।

तत्तदाह महाभागास्तयोस्तेजोविजृंभितम्

॥६८॥

यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ।

तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत्

॥६९॥

तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ।

सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः

॥७०॥

सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ।

पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा

॥७१॥

यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ।

कथितं हि मया ते ऽद्य न तु तावदियत्तया

॥७२॥

तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ।

महतामपि सर्वेषां मनसो ऽपि बहिर्गतम्

॥७३॥

अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ।

अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत्

॥७४॥

येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ।

अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः

॥७५॥

यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ।

अप्राकृती परा चैषा विभूतिः पारमेश्वरी

॥७६॥

सैवेह परमं धाम सैवेह परमा गतिः ।

सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः

॥७७॥

तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ।

गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा

॥७८॥

संसाराशीविषालीढमृतसंजीवनौषधम् ।

विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन

॥७९॥

यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ।

सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते

॥८०॥

एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ।

रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति

॥८१॥

नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ।

व्याहरेदीशयोर्भूतिमिति वेदानुशासनम्

॥८२॥

तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ।

त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा

॥८३॥

विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ।

संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात्

॥८४॥

कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ।

त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः

॥८५॥

नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ।

विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते

॥८६॥

भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ।

यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम्

॥८७॥

अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ।

प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ।

पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम्

॥८८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः