मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ३२

3
वायवीयसंहिता · उत्तरभागः · 32

ऐहिकसिद्धिकर्मवर्णनम्

उपमन्युरुवाच

एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ।

क्रियातपोजपध्यानसमुच्चयमयं परम्

॥१॥

अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ।

पूजाहोमजपध्यानतपोदानमयं महत्

॥२॥

तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ।

दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः

॥३॥

सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ।

प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः

॥४॥

तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ।

परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत्

॥५॥

यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ।

न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम्

॥६॥

अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ।

स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति

॥७॥

नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ।

यथोक्तकारिणां पुंसामिहैव फलदर्शनात्

॥८॥

साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ।

विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम्

॥९॥

अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ।

रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा

॥१०॥

हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ।

सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत्

॥११॥

इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ।

पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते

॥१२॥

आलिप्य शकृता १ भूमिं हस्तमानावरां यथा ।

विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा

॥१३॥

तप्तजांबूनदमयमष्टपत्रं सकेसरम् ।

मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम्

॥१४॥

स्वाकारसदृशेनैव नालेन च समन्वितम् ।

तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः

॥१५॥

तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ।

रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ।

लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः

॥१६॥

तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ।

तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः

॥१७॥

चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ।

शार्दूलचर्मवसना किंचिद्विहसितानना

॥१८॥

वरदाभयहस्ता च मृगटंकधरा तथा ।

अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि

॥१९॥

तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ।

वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती

॥२०॥

बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ।

तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम्

॥२१॥

दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ।

उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्

॥२२॥

पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ।

तदंकमंडलारूढा शक्तिर्माहेश्वरी परा

॥२३॥

महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ।

मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात्

॥२४॥

मूर्तिमंतमथावाह्य यजेत्परमकारणम् ।

स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम्

॥२५॥

पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ।

पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम्

॥२६॥

कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ।

सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत्

॥२७॥

ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ।

तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत्

॥२८॥

पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ।

दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः

॥२९॥

सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ।

स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः

॥३०॥

पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ।

ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि

॥३१॥

गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ।

उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम्

॥३२॥

गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ।

पलावरः स्यादालेप एकादशपलोत्तरः

॥३३॥

सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ।

नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः

॥३४॥

कमलानि च रक्तानि श्वेतान्यपि च शंभवे ।

कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः

॥३५॥

कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ।

पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च

॥३६॥

नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ।

पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम्

॥३७॥

पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ।

सुवर्णरत्नसिद्धानि भूषणानि विशेषतः

॥३८॥

वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ।

दर्शनीयानि देयानि गानवाद्यादिभिस्सह

॥३९॥

जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ।

एकावरा त्र्युत्तरा च पूजा फलवशादिह

॥४०॥

दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ।

घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु

॥४१॥

शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ।

चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके

॥४२॥

आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ।

तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः

॥४३॥

दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ।

चरुणा सघृतेनैव केवलं पयसापि वा

॥४४॥

जुहुयान्मृत्युविजये तिलै रोगोपशांतये ।

घृतेन पयसा चैव कमलैर्वाथ केवलैः

॥४५॥

समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ।

जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु

॥४६॥

घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ।

तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः

॥४७॥

स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ।

ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः

॥४८॥

मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ।

विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु

॥४९॥

बंधनं रोहिबीजेन सेनास्तंभनमेव च ।

रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः

॥५०॥

हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ।

कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च

॥५१॥

सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ।

ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा

॥५२॥

सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ।

क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा

॥५३॥

शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ।

द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा

॥५४॥

वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ।

बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा

॥५५॥

समिधः शांतिकार्येषु पालाशखदिरादिकाः ।

करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे

॥५६॥

प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ।

निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम्

॥५७॥

अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ।

आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम्

॥५८॥

स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ।

यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा

॥५९॥

तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ।

मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः

॥६०॥

स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ।

कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः

॥६१॥

स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ।

न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः

॥६२॥

अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ।

पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत्

॥६३॥

बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ।

स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा

॥६४॥

अभावे हेमरत्नानामशक्तौ च तदर्जने ।

मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः

॥६५॥

क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ।

सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति

॥६६॥

कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ।

द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम्

॥६७॥

पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ।

तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक्

॥६८॥

स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ।

अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते

॥६९॥

यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ।

सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः

॥७०॥

स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ।

कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा

॥७१॥

अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ।

गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत्

॥७२॥

यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ।

फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम्

॥७३॥

तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ।

अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः

॥७४॥

मृत्योरास्यगतश्चापि मुच्यते निरपायतः ।

पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते

॥७५॥

कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ।

शत्रुर्मित्रायते सद्यो विरोधी किंकरायते

॥७६॥

विषायते यदमृतं विषमप्यमृतायते ।

स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते

॥७७॥

महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ।

पद्माकरायते वह्निः सरो वैश्वानरायते

॥७८॥

वनायते यदुद्यानं तदुद्यानायते वनम् ।

सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते

॥७९॥

स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ।

स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते

॥८०॥

स्वैराचारायते मेधा वज्रसूचीयते मनः ।

महावातायते शक्तिर्बलं मत्तगजायते

॥८१॥

स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ।

शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः

॥८२॥

शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ।

आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते

॥८३॥

रसाय नायते नित्यमपथ्यमपि सेवितम् ।

अनिशं क्रियमाणापि रतिस्त्वभिनवायते

॥८४॥

अनागतादिकं सर्वं करस्थामलकायते ।

यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः

॥८५॥

बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ।

अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते

॥८६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः