शृणु कृष्ण महेशस्य शिवस्य परमात्मनः
उपमन्युरुवाच
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ।
मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम्
॥१॥स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ।
अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम्
॥२॥ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ।
मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम्
॥३॥अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ।
तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते
॥४॥ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ।
ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः
॥५॥ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ।
भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति
॥६॥स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ।
गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति
॥७॥धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ।
अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता
॥८॥वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ।
अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः
॥९॥सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ।
मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते
॥१०॥श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ।
ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः
॥११॥त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ।
पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः
॥१२॥चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ।
अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः
॥१३॥रसनायाश्च पायोश्च रसस्यापां तथैव च ।
ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः
॥१४॥घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ।
सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते
॥१५॥मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ।
श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः
॥१६॥तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ।
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव
॥१७॥शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः १ ।
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः
॥१८॥भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।
अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः
॥१९॥चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ।
शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः
॥२०॥संजीवनं समस्तस्य जगतस्सलिलात्मिका ।
भावीति गीयते मूर्तिभवस्य परमात्मनः
॥२१॥बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ।
रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी
॥२२॥स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ।
औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः
॥२३॥सर्वावकाशदा सर्वव्यापिका गगनात्मिका ।
मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका
॥२४॥सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ।
मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी
॥२५॥दीपयंती जगत्सर्वं दिवाकरसमाह्वया ।
ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति
॥२६॥आप्याययति यो विश्वममृतांशुर्निशाकरः ।
महादेवस्य सा मूर्तिर्महादेवसमाह्वया
॥२७॥आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ।
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम्
॥२८॥वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ।
शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत्
॥२९॥सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ।
सर्वोपकारकरणं शिवस्याराधनं विदुः
॥३०॥यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।
तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः
॥३१॥देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ।
अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः
॥३२॥अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ।
भजस्व सर्वभावेन रुद्रः परमकारणम्
॥३३॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः