मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय १७

3
वायवीयसंहिता · उत्तरभागः · 17

शिवदीक्षाविधानवर्णनम्

उपमन्युरुवाच

अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ।

षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये

॥१॥

कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ।

मंत्रश्चेति समासेन षडध्वा परिपठ्यते

॥२॥

निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ।

व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः

॥३॥

शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ।

षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः

॥४॥

आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ।

विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः

॥५॥

पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ।

अनेकभेदसंपन्नः पदाध्वा समुदाहृतः

॥६॥

सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ।

यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः

॥७॥

मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ।

कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम्

॥८॥

न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ।

षड्विधस्याध्वनो रूपं न येन विदितं भवेत्

॥९॥

व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ।

तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा

॥१०॥

यथावदवगम्यैव कुर्यादध्वविशोधनम् ।

कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा

॥११॥

द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ।

ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः

॥१२॥

प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ।

तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः

॥१३॥

अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ।

पुरतः कल्पिते वाथ मंडले वर्णिमंडिते

॥१४॥

स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ।

तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः

॥१५॥

नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ।

ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते

॥१६॥

अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ।

रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम्

॥१७॥

कृत्वा शिवानलैर्होमं प्रारभेत्यथा पुरा ।

यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम्

॥१८॥

हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ।

तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा

॥१९॥

हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ।

ओंकारादनु हुंकारं ततो मूलं फडंतकम्

॥२०॥

स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ।

तेषामाहुतयस्तिस्रो देया दीपनकर्मणि

॥२१॥

मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ।

त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम्

॥२२॥

सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ।

चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः

॥२३॥

लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ।

शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित्

॥२४॥

हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ।

हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत्

॥२५॥

चैतन्यं समुपादाय द्वादशांते निवेद्य च ।

सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा

॥२६॥

अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ।

मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम्

॥२७॥

विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ।

व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः

॥२८॥

सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ।

अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात्

॥२९॥

ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ।

कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः

॥३०॥

शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ।

शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन्

॥३१॥

एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ।

हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत्

॥३२॥

देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ।

सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः

॥३३॥

शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ।

भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत्

॥३४॥

अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ।

सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत्

॥३५॥

तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ।

प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम्

॥३६॥

अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ।

वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत्

॥३७॥

प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ।

प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम्

॥३८॥

त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ।

प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम्

॥३९॥

अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ।

शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः

॥४०॥

ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ।

देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत्

॥४१॥

अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ।

मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि

॥४२॥

शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ।

आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा

॥४३॥

रेखात्रयं च परितो भस्मना तिलसर्षपैः ।

कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत्

॥४४॥

शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ।

प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत्

॥४५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः